धर्मDharmic Data

द्रोणपर्व · Drona Parva

अध्याय 1

  1. [ज] तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना ॥ 1 ॥

  2. धृतराष्ट्रस तदा राजा शॊकव्याकुल चेतनः किम अचेष्टत विप्रर्षे हते पितरि वीर्यवान ॥ 2 ॥

  3. तस्य पुत्रॊ हि भगवन भीष्मद्रॊणमुखै रथैः पराजित्य महेष्वासान पाण्डवान राज्यम इच्छति ॥ 3 ॥

  4. तस्मिन हते तु भगवन केतौ सर्वधनुष्मता यद अचेष्टत कौरव्यस तन मे बरूहि दविजॊत्तम ॥ 4 ॥

  5. [व] निहतं पितरं शरुत्वा धृतराष्ट्रॊ जनाधिपः लेभे न शान्तिं कौरव्यश चिन्ताशॊकपरायणः ॥ 5 ॥

  6. तस्य चिन्तयतॊ दुःखम अनिशं पार्थिवस्य तत आजगाम विशुद्धात्मा पुनर गावल्गणिस तदा ॥ 6 ॥

  7. शिबिरात संजयं पराप्तं निशि गानाह्वयं पुरम आम्बिकेयॊ महाराज धृतराष्ट्रॊ ऽनवपृच्छत ॥ 7 ॥

  8. शरुवा भीष्मस्य निधनम अप्रहृष्टमना भृशम पुत्राणां जयम आकाङ्क्षन विललापातुरॊ यथा ॥ 8 ॥

  9. [धृ] संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम किम अकार्षुः परं तात कुरवः कालचॊदिताः ॥ 9 ॥

  10. तस्मिन विनिहते शूरे दुराधर्षे महौजसि किं नु सवित कुरवॊ ऽकार्षुर निमग्नाः शॊकसागरे ॥ 10 ॥

  11. तद उदीर्णं महत सैन्यं तरैलॊक्यस्यापि संजय भयम उत्पादयेत तीव्रं पाण्डवानां महात्मनाम ॥ 11 ॥

  12. देवव्रते तु निहते कुरूणाम ऋषभे तदा यद अकार्षुर नृपतयस तन ममाचक्ष्व संजय ॥ 12 ॥

  13. [स] शृणु राजन्न एकमना वचनं बरुवतॊ मम यत ते पुत्रास तदाकार्षुर हते देवव्रते मृधे ॥ 13 ॥

  14. निहते तु तदा भीष्मे राजन सत्यपराक्रमे तावकाः पाण्डवेयाश च पराध्यायन्त पृथक पृथक ॥ 14 ॥

  15. विस्मिताश च परहृष्टाश च कषत्रधर्मं निशाम्य ते सवधर्मं निन्दमानाश च परणिपत्य महात्मने ॥ 15 ॥

  16. शयनं कल्पयाम आसुर भीष्मायामित तेजसे सॊपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥ 16 ॥

  17. विधाय रक्षां भीष्माय समाभाष्य परस्परम अनुमान्य च गाङ्गेयं कृत्वा चापि परदक्षिणम ॥ 17 ॥

  18. करॊधसंरक्तनयनाः समवेक्ष्य परस्परम पुनर युद्धाय निर्जग्मुः कषत्रियाः कालचॊदिताः ॥ 18 ॥

  19. ततस तूर्यनिनादैश च भेरीणां च महास्वनैः तावकानाम अनीकानि परेषां चापि निर्ययुः ॥ 19 ॥

  20. वयावृत्ते ऽहनि राजेन्द्र पतिते जाह्नवीसुते अमर्षवशम आपन्नाः कालॊपहतचेतसः ॥ 20 ॥

  21. अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः निर्ययुर भरतश्रेष्ठः शस्त्राण्य आदाय सर्वशः ॥ 21 ॥

  22. मॊहात तव सपुत्रस्य वधाच छांतनवस्य च कौरव्या मृत्युसाद भूताः सहिताः सर्वजारभिः ॥ 22 ॥

  23. अजावय इवागॊपा वने शवापद संकुले भृशम उद्विग्नमनसॊ हीना देवव्रतेन ते ॥ 23 ॥

  24. पतिते भरतश्रेष्ठे बभूव कुरु वाहिनी दयौर इवापेत नक्षत्रा हीनं खम इव वायुना ॥ 24 ॥

  25. विपन्नसस्येव मही वाक चैवासंस्कृता यथा आसुरीव यथा सेना निगृहीते पुरा बलौ ॥ 25 ॥

  26. विधवेव वरारॊहा शुष्कतॊयेव निम्नगा वृकैर इव वने रुद्धा पृषती हतयूथपा ॥ 26 ॥

  27. सवाधर्ष हतसिंहेव महती गिरिकन्दरा भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ॥ 27 ॥

  28. विष्वग वातहता रुग्णा नौर इवासीन महार्णवे बलिभिः पाण्डवैर वीरैर लब्धलक्षैर भृशार्दिता ॥ 28 ॥

  29. सा तदासीद भृशं सेना वयाकुलाश्वरथद्विपा विषण्णभूयिष्ठ नरा कृपणा दरष्टुम आबभौ ॥ 29 ॥

  30. तस्यां तरस्ता नृपतयः सैनिकाश च पृथग्विधाः पाताल इव मज्जन्तॊ हीना देव वतेन ते कर्णं हि कुरवॊ ऽसमार्षुः स हि देवव्रतॊपमः ॥ 30 ॥

  31. सर्वशस्त्रभृतां शरेष्ठं रॊचमानम इवातिथिम बन्धुम आपद गतस्येव तम एवॊपागमन मनः ॥ 31 ॥

  32. चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः राधेयं हितम अस्माकं सूतपुत्रं तनुत्यजम ॥ 32 ॥

  33. स हि नायुध्यत तदा दशाहानि महायशाः सामात्यबन्धुः कर्णॊ वै तम आह्वयत माचिरम ॥ 33 ॥

  34. भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः रथेषु गण्यमानेषु बलविक्रम शालिषु संख्यातॊ ऽरधरथः कर्णॊ दविगुणः सन नरर्षभः ॥ 34 ॥

  35. रथातिरथ संखायां यॊ ऽगरणीः शूर संमतः पितृवित्ताम्बुदेवेषान अपि यॊ यॊद्धुम उत्सहेत ॥ 35 ॥

  36. स तु तेनैव कॊपेन राजन गाङ्गेयम उक्तवान तवयि जीवति कौरव्य नाहं यॊत्स्ये कथं चन ॥ 36 ॥

  37. तवया तु पाण्डवेयेषु निहतेषु महामृधे दुर्यॊधनम अनुज्ञाप्य वनं यास्यामि कौरव ॥ 37 ॥

  38. पाण्डवैर वा हते भीष्मे तवयि सवर्गम उपेयुषि हन्तास्म्य एकरथेनैव कृत्स्नान यान मन्यसे रथान ॥ 38 ॥

  39. एवम उक्त्वा महाराज दशाहानि महायशाः नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥ 39 ॥

  40. भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव जघान समरे यॊधान असंख्येयपराक्रमः ॥ 40 ॥

  41. तस्मिंस तु निहते शूरे सत्यसंधे महौजसि तवत्सुताः कर्णम अस्मार्षुस तर्तुकामा इव पलवम ॥ 41 ॥

  42. तावकास तव पुत्राश च सहिताः सर्वराजभिः का कर्ण इति चाक्रन्दन कालॊ ऽयम इति चाब्रुवन ॥ 42 ॥

  43. जामदग्न्याभ्यनुज्ञातम अस्त्रे दुर्वार पौरुषम अगमन नॊ मनःकर्णं बन्धुम आत्ययिकेष्व इव ॥ 43 ॥

  44. स हि शक्तॊ रणे राजंस तरातुम अस्मान महाभयात तरिदशान इव गॊविन्दः सततं सुमहाभयात ॥ 44 ॥

  45. [व] तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः आशीविषवद उच्छ्वस्य धृतराष्ट्रॊ ऽबरवीद इदम ॥ 45 ॥

  46. यत तद वैकर्तनं कर्णम अगमद वॊ मनस तदा अप्य अपश्यत राधेयं सूतपुत्रं तनुत्यजम ॥ 46 ॥

  47. अपि तन न मृषाकार्षीद युधि सत्यपराक्रमः संभ्रान्तानां तदार्तानां तरस्तानां तराणम इच्छताम ॥ 47 ॥

  48. अपि तत पूरयां चक्रे धनुर्धर वरॊ युधि यत तद विनिहते भीष्मे कौरवाणाम अपावृतम ॥ 48 ॥

  49. तत खण्डं पूरयाम आस परेषाम आदधद भयम कृतवान मम पुत्राणां जयाशां सफलाम अपि ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 117