संजय उवाच वयुष्टायां तु महाराज रजन्यां सर्वपार्थिवाः पाण्डवा धार्तराष्ट्राश च अभिजग्मुः पितामहम ॥ 1 ॥
तं वीरशयने वीरं शयानं कुरुसत्तमम अभिवाद्यॊपतस्थुर वै कषत्रियाः कषत्रियर्षभम ॥ 2 ॥
कन्याश चन्दनचूर्णैश च लाजैर माल्यैश च सर्वशः सत्रियॊ बालास तथा वृद्धाः परेक्षकाश च पृथग्जनाः समभ्ययुः शांतनवं भूतानीव तमॊनुदम ॥ 3 ॥
तूर्याणि गणिका वारास तथैव नटनर्तकाः उपानृत्यञ जगुश चैव वृद्धं कुरुपितामहम ॥ 4 ॥
उपारम्य च युद्धेभ्यः संनाहान विप्रमुच्य च आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ 5 ॥
अन्वासत दुराधर्षं देवव्रतम अरिंदमम अन्यॊन्यं परीतिमन्तस ते यथापूर्वं यथावयः ॥ 6 ॥
सा पार्थिवशताकीर्णा समितिर भीष्मशॊभिता शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम ॥ 7 ॥
विबभौ च नृपाणां सा पितामहम उपासताम देवानाम इव देवेशं पितामहम उपासताम ॥ 8 ॥
भीष्मस तु वेदनां धैर्यान निगृह्य भरतर्षभ अभितप्तः शरैश चैव नातिहृष्टमनाब्रवीत ॥ 9 ॥
शराभितप्तकायॊ ऽहं शरसंतापमूर्छितः पानीयम अभिकाङ्क्षे ऽहं राज्ञस तान परत्यभाषत ॥ 10 ॥
ततस ते कषत्रिया राजन समाजह्रुः समन्ततः भक्ष्यान उच्चावचांस तत्र वारिकुम्भांश च शीतलान ॥ 11 ॥
उपनीतं च तद दृष्ट्वा भीष्मः शांतनवॊ ऽबरवीत नाद्य तात मया शक्यं भॊगान कांश चन मानुषान ॥ 12 ॥
उपभॊक्तुं मनुष्येभ्यः शरशय्यागते हय अहम परतीक्षमाणस तिष्ठामि निवृत्तिं शशिसूर्ययॊः ॥ 13 ॥
एवम उक्त्वा शांतनवॊ दीनवाक सर्वपार्थिवान धनंजयं महाबाहुम अभ्यभाषत भारत ॥ 14 ॥
अथॊपेत्य महाबाहुर अभिवाद्य पितामहम अतिष्ठत पराञ्जलिः परह्वः किं करॊमीति चाब्रवीत ॥ 15 ॥
तं दृष्ट्वा पाण्डवं राजन्न अभिवाद्याग्रतः सथितम अभ्यभाषत धर्मात्मा भीष्मः परीतॊ धनंजयम ॥ 16 ॥
दह्यते ऽदः शरीरं मे संस्यूतॊ ऽसमि महेषुभिः मर्माणि परिदूयन्ते वदनं मम शुष्यति ॥ 17 ॥
हलादनार्थं शरीरस्य परयच्छापॊ ममार्जुन तवं हि शक्तॊ महेष्वास दातुम अम्भॊ यथाविधि ॥ 18 ॥
अर्जुनस तु तथेत्य उक्त्वा रथम आरुह्य वीर्यवान अधिज्यं बलवत कृत्वा गाण्डीवं वयाक्षिपद धनुः ॥ 19 ॥
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः वित्रेसुः सर्वभूतानि शरुत्वा सर्वे च पार्थिवाः ॥ 20 ॥
ततः परदक्षिणं कृत्वा रथेन रथिनां वरः शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम ॥ 21 ॥
संधाय च शरं दीप्तम अभिमन्त्र्य महायशाः पर्जन्यास्त्रेण संयॊज्य सर्वलॊकस्य पश्यतः अविध्यत पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ॥ 22 ॥
उत्पपात ततॊ धारा विमला वारिणः शिवा शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ॥ 23 ॥
अतर्पयत ततः पार्थः शीतया वारिधारया भीष्मं कुरूणाम ऋषभं दिव्यकर्मपराक्रमः ॥ 24 ॥
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः विस्मयं परमं जग्मुस ततस ते वसुधाधिपाः ॥ 25 ॥
तत कर्म परेक्ष्य बीभत्सॊर अतिमानुषम अद्भुतम संप्रावेपन्त कुरवॊ गावः शीतार्दिता इव ॥ 26 ॥
विस्मयाच चॊत्तरीयाणि वयाविध्यन सर्वतॊ नृपाः शङ्खदुन्दुभिनिर्घॊषैस तुमुलं सर्वतॊ ऽभवत ॥ 27 ॥
तृप्तं शांतनवश चापि राजन बीभत्सुम अब्रवीत सर्वपार्थिववीराणां संनिधौ पूजयन्न इव ॥ 28 ॥
नैतच चित्रं महाबाहॊ तवयि कौरवनन्दन कथितॊ नारदेनासि पूर्वर्षिर अमितद्युतिः ॥ 29 ॥
वासुदेवसहायस तवं महत कर्म करिष्यसि यन नॊत्सहति देवेन्द्रः सह देवैर अपि धरुवम ॥ 30 ॥
विदुस तवां निधनं पार्थ सर्वक्षत्रस्य तद्विदः धनुर्धराणाम एकस तवं पृथिव्यां परवरॊ नृषु ॥ 31 ॥
मनुष्या जगति शरेष्ठाः पक्षिणां गरुडॊ वरः सरसां सागरः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम ॥ 32 ॥
आदित्यस तेजसां शरेष्ठॊ गिरीणां हिमवान वरः जातीनां बराह्मणः शरेष्ठः शरेष्ठस तवम असि धन्विनाम ॥ 33 ॥
न वै शरुतं धार्तराष्ट्रेण वाक्यं; संबॊध्यमानं विदुरेण चैव दरॊणेन रामेण जनार्दनेन; मुहुर मुहुः संजयेनापि चॊक्तम ॥ 34 ॥
परीतबुद्धिर हि विसंज्ञकल्पॊ; दुर्यॊधनॊ नाभ्यनन्दद वचॊ मे स शेष्यते वै निहतश चिराय; शास्तातिगॊ भीमबलाभिभूतः ॥ 35 ॥
ततः शरुत्वा तद वचः कौरवेन्द्रॊ; दुर्यॊधनॊ दीनमना बभूव तम अब्रवीच छांतनवॊ ऽभिवीक्ष्य; निबॊध राजन भव वीतमन्युः ॥ 36 ॥
दृष्टं दुर्यॊधनेदं ते यथा पार्थेन धीमता जलस्य धारा जनिता शीतस्यामृतगन्धिनः एतस्य कर्ता लॊके ऽसमिन नान्यः कश चन विद्यते ॥ 37 ॥
आग्नेयं वारुणं सौम्यं वायव्यम अथ वैष्णवम ऐन्द्रं पाशुपतं बराह्मं पारमेष्ठ्यं परजापतेः धातुस तवष्टुश च सवितुर दिव्यान्य अस्त्राणि सर्वशः ॥ 38 ॥
सर्वस्मिन मानुषे लॊके वेत्त्य एकॊ हि धनंजयः कृष्णॊ वा देवकीपुत्रॊ नान्यॊ वै वेद कश चन न शक्याः पाण्डवास तात युद्धे जेतुं कथं चन ॥ 39 ॥
अमानुषाणि कर्माणि यस्यैतानि महात्मनः तेन सत्त्ववता संख्ये शूरेणाहवशॊभिना कृतिना समरे राजन संधिस ते तात युज्यताम ॥ 40 ॥
यावत कृष्णॊ महाबाहुः सवाधीनः कुरुसंसदि तावत पार्थेन शूरेण संधिस ते तात युज्यताम ॥ 41 ॥
यावच चमूं न ते शेषां शरैः संनतपर्वभिः नाशयत्य अर्जुनस तावत संधिस ते तात युज्यताम ॥ 42 ॥
यावत तिष्ठन्ति समरे हतशेषाः सहॊदराः नृपाश च बहवॊ राजंस तावत संधिः परयुज्यताम ॥ 43 ॥
न निर्दहति ते यावत करॊधदीप्तेक्षणश चमूम युधिष्ठिरॊ हि तावद वै संधिस ते तात युज्यताम ॥ 44 ॥
नकुलः सहदेवश च भीमसेनश च पाण्डवः यावच चमूं महाराज नाशयन्ति न सर्वशः तावत ते पाण्डवैः सार्धं सौभ्रात्रं तात रॊचताम ॥ 45 ॥
युद्धं मदन्तम एवास्तु तात संशाम्य पाण्डवैः एतत ते रॊचतां वाक्यं यद उक्तॊ ऽसि मयानघ एतत कषेमम अहं मन्ये तव चैव कुलस्य च ॥ 46 ॥
तयक्त्वा मन्युम उपशाम्यस्व पार्थैः; पर्याप्तम एतद यत कृतं फल्गुनेन भीष्मस्यान्ताद अस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन परसीद ॥ 47 ॥
राज्यस्यार्धं दीयतां पाण्डवानाम; इन्द्रप्रस्थं धर्मराजॊ ऽनुशास्तु मा मित्रध्रुक पार्थिवानां जघन्यः; पापां कीर्तिं पराप्स्यसे कौरवेन्द्र ॥ 48 ॥
ममावसानाच छान्तिर अस्तु परजानां; संगच्छन्तां पार्थिवाः परीतिमन्तः पिता पुत्रं मातुलं भागिनेयॊ; भराता चैव भरातरं परैतु राजन ॥ 49 ॥
न चेद एवं पराप्तकालं वचॊ मे; मॊहाविष्टः परतिपत्स्यस्य अबुद्ध्या भीष्मस्यान्ताद एतदन्ताः सथ सर्वे; सत्याम एतां भारतीम ईरयामि ॥ 50 ॥
एतद वाक्यं सौहृदाद आपगेयॊ; मध्ये राज्ञां भारतं शरावयित्वा तूष्णीम आसीच छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य ॥ 51 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 116
Reach this point to mark the section finished.
Continue to अध्याय 117