धृतराष्ट्र उवाच कथम आसंस तदा यॊधा हीना भीष्मेण संजय बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा ॥ 1 ॥
तदैव निहतान मन्ये कुरून अन्यांश च पार्थिवान न पराहरद यदा भीष्मॊ घृणित्वाद दरुपदात्मजे ॥ 2 ॥
ततॊ दुःखतरं मन्ये किम अन्यत परभविष्यति यद अद्य पितरं शरुत्वा निहतं मम दुर्मतेः ॥ 3 ॥
अश्मसारमयं नूनं हृदयं मम संजय शरुत्वा विनिहतं भीष्मं शतधा यन न दीर्यते ॥ 4 ॥
पुनः पुनर न मृष्यामि हतं देवव्रतं रणे न हतॊ जामदग्न्येन दिव्यैर अस्त्रैः सम यः पुरा ॥ 5 ॥
यद अद्य निहतेनाजौ भीष्मेण जयम इच्छता चेष्टितं नरसिंहेन तन मे कथय संजय ॥ 6 ॥
संजय उवाच सायाह्ने नयपतद भूमौ धार्तराष्ट्रान विषादयन पाञ्चालानां ददद धर्षं कुरुवृद्धः पितामहः ॥ 7 ॥
स शेते शरतल्पस्थॊ मेदिनीम अस्पृशंस तदा भीष्मॊ रथात परपतितः परच्युतॊ धरणीतले ॥ 8 ॥
हाहेति तुमुलः शब्दॊ भूतानां समपद्यत सीमावृक्षे निपतिते कुरूणां समितिक्षये ॥ 9 ॥
उभयॊः सेनयॊ राजन कषत्रियान भयम आविशत भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम कुरवः पर्यवर्तन्त पाण्डवाश च विशां पते ॥ 10 ॥
खं तमॊवृतम आसीच च नासीद भानुमतः परभा ररास पृथिवी चैव भीष्मे शांतनवे हते ॥ 11 ॥
अयं बरह्मविदां शरेष्ठॊ अयं बरह्मविदां गतिः इत्य अभाषन्त भूतानि शयानं भरतर्षभम ॥ 12 ॥
अयं पितरम आज्ञाय कामार्तं शंतनुं पुरा ऊर्ध्वरेतसम आत्मानं चकार पुरुषर्षभः ॥ 13 ॥
इति सम शरतल्पस्थं भरतानाम अमध्यमम ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ॥ 14 ॥
हते शांतनवे भीष्मे भरतानां पितामहे न किं चित परत्यपद्यन्त पुत्रास तव च भारत ॥ 15 ॥
विवर्णवदनाश चासन गतश्रीकाश च भारत अतिष्ठन वरीडिताश चैव हरिया युक्ता हय अधॊमुखाः ॥ 16 ॥
पाण्डवाश च जयं लब्ध्वा संग्रामशिरसि सथिताः सर्वे दध्मुर महाशङ्खान हेमजालपरिष्कृतान ॥ 17 ॥
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ अपश्याम रणे राजन भीमसेनं महाबलम आक्रीडमानं कौन्तेयं हर्षेण महता युतम ॥ 18 ॥
निहत्य समरे शत्रून महाबलसमन्वितान संमॊहश चापि तुमुलः कुरूणाम अभवत तदा ॥ 19 ॥
कर्णदुर्यॊधनौ चापि निःश्वसेतां मुहुर मुहुः तथा निपतिते भीष्मे कौरवाणां धुरंधरे हाहाकारम अभूत सर्वं निर्मर्यादम अवर्तत ॥ 20 ॥
दृष्ट्वा च पतितं भीष्मं पुत्रॊ दुःशासनस तव उत्तमं जवम आस्थाय दरॊणानीकं समाद्रवत ॥ 21 ॥
भरात्रा परस्थापितॊ वीरः सवेनानीकेन दंशितः परययौ पुरुषव्याघ्रः सवसैन्यम अभिचॊदयन ॥ 22 ॥
तम आयान्तम अभिप्रेक्ष्य कुरवः पर्यवारयन दुःशासनं महाराज किम अयं वक्ष्यतीति वै ॥ 23 ॥
ततॊ दरॊणाय निहतं भीष्मम आचष्ट कौरवः दरॊणस तद अप्रियं शरुत्वा सहसा नयपतद रथात ॥ 24 ॥
स संज्ञाम उपलभ्याथ भारद्वाजः परतापवान निवारयाम आस तदा सवान्य अनीकानि मारिष ॥ 25 ॥
विनिवृत्तान कुरून दृष्ट्वा पाण्डवापि सवसैनिकान दूतैः शीघ्राश्वसंयुक्तैर अवहारम अकारयन ॥ 26 ॥
विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः विमुक्तकवचाः सर्वे भीष्मम ईयुर नराधिपाः ॥ 27 ॥
वयुपारम्य ततॊ युद्धाद यॊधाः शतसहस्रशः उपतस्थुर महात्मानं परजापतिम इवामराः ॥ 28 ॥
ते तु भीष्मं समासाद्य शयानं भरतर्षभम अभिवाद्य वयतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ 29 ॥
अथ पाण्डून कुरूंश चैव परणिपत्याग्रतः सथितान अभ्यभाषत धर्मात्मा भीष्मः शांतनवस तदा ॥ 30 ॥
सवागतं वॊ महाभागाः सवागतं वॊ महारथाः तुष्यामि दर्शनाच चाहं युष्माकम अमरॊपमाः ॥ 31 ॥
अभिनन्द्य स तान एवं शिरसा लम्बताब्रवीत शिरॊ मे लम्बते ऽतयर्थम उपधानं परदीयताम ॥ 32 ॥
ततॊ नृपाः समाजह्रुस तनूनि च मृदूनि च उपधानानि मुख्यानि नैच्छत तानि पितामहः ॥ 33 ॥
अब्रवीच च नरव्याघ्रः परहसन्न इव तान नृपान नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ 34 ॥
ततॊ वीक्ष्य नरश्रेष्ठम अभ्यभाषत पाण्डवम धनंजयं दीर्घबाहुं सर्वलॊकमहारथम ॥ 35 ॥
धनंजय महाबाहॊ शिरसॊ मे ऽसय लम्बतः दीयताम उपधानं वै यद युक्तम इह मन्यसे ॥ 36 ॥
स संन्यस्य महच चापम अभिवाद्य पितामहम नेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत ॥ 37 ॥
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर परेष्यॊ ऽहं तव दुर्धर्ष करियतां किं पितामह ॥ 38 ॥
तम अब्रवीच छांतनवः शिरॊ मे तात लम्बते उपधानं कुरुश्रेष्ठ फल्गुनॊपनयस्व मे शयनस्यानुरूपं हि शीघ्रं वीर परयच्छ मे ॥ 39 ॥
तवं हि पार्थ महाबाहॊ शरेष्ठः सर्वधनुष्मताम कषत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ॥ 40 ॥
फल्गुनस तु तथेत्य उक्त्वा वयवसायपुरॊजवः परगृह्यामन्त्र्य गाण्डीवं शरांश च नतपर्वणः ॥ 41 ॥
अनुमान्य महात्मानं भरतानाम अमध्यमम तरिभिस तीक्ष्णैर महावेगैर उदगृह्णाच छिरः शरैः ॥ 42 ॥
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना अतुष्यद भरतश्रेष्ठॊ भीष्मॊ धर्मार्थतत्त्ववित ॥ 43 ॥
उपधानेन दत्तेन परत्यनन्दद धनंजयम कुन्तीपुत्रं युधां शरेष्ठं सुहृदां परीतिवर्धनम ॥ 44 ॥
अनुरूपं शयानस्य पाण्डवॊपहितं तवया यद्य अन्यथा परवर्तेथाः शपेयं तवाम अहं रुषा ॥ 45 ॥
एवम एतन महाबाहॊ धर्मेषु परिनिष्ठितम सवप्तव्यं कषत्रियेणाजौ शरतल्पगतेन वै ॥ 46 ॥
एवम उक्त्वा तु बीभत्सुं सर्वांस तान अब्रवीद वचः राज्ञश च राजपुत्रांश च पाण्डवेनाभि संस्थितान ॥ 47 ॥
शयेयम अस्यां शय्यायां यावद आवर्तनं रवेः ये तदा पारयिष्यन्ति ते मां दरक्ष्यन्ति वै नृपाः ॥ 48 ॥
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः अर्चिष्मान परतपँल लॊकान रथेनॊत्तमतेजसा विमॊष्क्ये ऽहं तदा पराणान सुहृदः सुप्रियान अपि ॥ 49 ॥
परिखा खन्यताम अत्र ममावसदने नृपाः उपासिष्ये विवस्वन्तम एवं शरशताचितः उपारमध्वं संग्रामाद वैराण्य उत्सृज्य पार्थिवाः ॥ 50 ॥
उपातिष्ठन्न अथॊ वैद्याः शल्यॊद्धरणकॊविदाः सर्वॊपकरणैर युक्ताः कुशलास ते सुशिक्षिताः ॥ 51 ॥
तान दृष्ट्वा जाह्नवीपुत्रः परॊवाच वचनं तदा दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ 52 ॥
एवंगते न हीदानीं वैद्यैः कार्यम इहास्ति मे कषत्रधर्मप्रशस्तां हि पराप्तॊ ऽसमि परमां गतिम ॥ 53 ॥
नैष धर्मॊ महीपालाः शरतल्पगतस्य मे एतैर एव शरैश चाहं दग्धव्यॊ ऽनते नराधिपाः ॥ 54 ॥
तच छरुत्वा वचनं तस्य पुत्रॊ दुर्यॊधनस तव वैद्यान विसर्जयाम आस पूजयित्वा यथार्हतः ॥ 55 ॥
ततस ते विस्मयं जग्मुर नानाजनपदेश्वराः सथितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ 56 ॥
उपधानं ततॊ दत्त्वा पितुस तव जनेश्वर सहिताः पाण्डवाः सर्वे कुरवश च महारथाः ॥ 57 ॥
उपगम्य महात्मानं शयानं शयने शुभे ते ऽभिवाद्य ततॊ भीष्मं कृत्वा चाभिप्रदक्षिणम ॥ 58 ॥
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः वीराः सवशिबिराण्य एव धयायन्तः परमातुराः निवेशायाभ्युपागच्छन सायाह्ने रुधिरॊक्षिताः ॥ 59 ॥
निविष्टान पाण्डवांश चापि परीयमाणान महारथान भीष्मस्य पतनाद धृष्टान उपगम्य महारथान उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम ॥ 60 ॥
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मॊ निपातितः अवध्यॊ मानुषैर एष सत्यसंधॊ महारथः ॥ 61 ॥
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः तवां तु चक्षुर्हणं पराप्य दग्धॊ घॊरेण चक्षुषा ॥ 62 ॥
एवम उक्तॊ धर्मराजः परत्युवाच जनार्दनम तव परसादाद विजयः करॊधात तव पराजयः तवं हि नः शरणं कृष्ण भक्तानाम अभयंकरः ॥ 63 ॥
अनाश्चर्यॊ जयस तेषां येषां तवम असि केशव रष्किता समरे नित्यं नित्यं चापि हिते रतः सर्वथा तवां समासाद्य नाश्चर्यम इति मे मतिः ॥ 64 ॥
एवम उक्तः परत्युवाच समयमानॊ जनार्दनः तवय्य एवैतद युक्तरूपं वचनं पार्थिवॊत्तम ॥ 65 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 115
Reach this point to mark the section finished.
Continue to अध्याय 116