संजय उवाच एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ 1 ॥
शतघ्नीभिः सुघॊराभिः पट्टिशैः सपरश्वधैः मुद्गरैर मुसलैः परासैः कषेपणीभिश च सर्वशः ॥ 2 ॥
शरैः कनकपुङ्खैश च शक्तितॊमरकम्पनैः नाराचैर वत्सदन्तैश च भुशुण्डीभिश च भारत अताडयन रणे भीष्मे सहिताः सर्वसृञ्जयाः ॥ 3 ॥
स विशीर्णातनुत्राणः पीडितॊ बहुभिस तदा विव्यथे नैव गाङ्गेयॊ भिद्यमानेषु मर्मसु ॥ 4 ॥
स दीप्तशरचापार्चिर अस्त्रप्रसृतमारुतः नेमिनिर्ह्रादसंनादॊ महास्त्रॊदयपावकः ॥ 5 ॥
चित्रचापमहाज्वालॊ वीरक्षयमहेन्धनः युगान्ताग्निसमॊ भीष्मः परेषां समपद्यत ॥ 6 ॥
निपत्य रथसंघानाम अन्तरेण विनिःसृतः दृश्यते सम नरेन्द्राणां पुनर मध्यगतश चरन ॥ 7 ॥
ततः पाञ्चालराजं च धृष्टकेतुम अतीत्य च पाण्डवानीकिनीमध्यम आससाद स वेगितः ॥ 8 ॥
ततः सात्यकिभीमौ च पाण्डवं च धनंजयम दरुपदं च विराटं च धृष्टद्युम्नं च पार्षतम ॥ 9 ॥
भीमघॊषैर महावेगैर वैरिवारणभेदिभिः षड एतान षड्भिर आनर्छद भास्करप्रतिमैः शरैः ॥ 10 ॥
तस्य ते निशितान बाणान संनिवार्य महारथाः दशभिर दशभिर भीष्मम अर्दयाम आसुर ओजसा ॥ 11 ॥
शिखण्डी तु रणे बाणान यान मुमॊच महाव्रते ते भीष्मं विविशुस तूर्णं सवर्णपुङ्खाः शिलाशिताः ॥ 12 ॥
ततः किरीटी संरब्धॊ भीष्मम एवाभ्यवर्तत शिखण्डिनं पुरस्कृत्य धनुश चास्य समाच्छिनत ॥ 13 ॥
भीष्मस्य धनुषश छेदं नामृष्यन्त महारथाः दरॊणश च कृतवर्मा च सैन्धवश च जयद्रथः ॥ 14 ॥
भूरिश्रवाः शलः शल्यॊ भगदत्तस तथैव च सप्तैते परमक्रुद्धाः किरीटिनम अभिद्रुताः ॥ 15 ॥
उत्तमास्त्राणि दिव्यानि दर्शयन्तॊ महारथाः अभिपेतुर भृशं करुद्धाश छादयन्त सम पाण्डवान ॥ 16 ॥
तेषाम आपततां शब्दः शुश्रुवे फल्गुनं परति उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ॥ 17 ॥
हतानयत गृह्णीत युध्यतापि च कृन्तत इत्य आसीत तुमुलः शब्दः फल्गुनस्य रथं परति ॥ 18 ॥
तं शब्दं तुमुलं शरुत्वा पाण्डवानां महारथाः अभ्यधावन परीप्सन्तः फल्गुनं भरतर्षभ ॥ 19 ॥
सात्यकिर भीमसेनश च धृष्टद्युम्नश च पार्षतः विराटद्रुपदौ चॊभौ राक्षसश च घटॊत्कचः ॥ 20 ॥
अभिमन्युश च संक्रुद्धः सप्तैते करॊधमूर्छिताः समभ्यधावंस तवरिताश चित्रकार्मुकधारिणः ॥ 21 ॥
तेषां समभवद युद्धं तुमुलं लॊमहर्षणम संग्रामे भरतश्रेष्ठ देवानां दानवैर इव ॥ 22 ॥
शिखण्डी तु रथश्रेष्ठॊ रक्ष्यमाणः किरीटिना अविध्यद दशभिर भीष्मं छिन्नधन्वानम आहवे सारथिं दशभिश चास्य धवजं चैकेन चिच्छिदे ॥ 23 ॥
सॊ ऽनयत कार्मुकम आदाय गाङ्गेयॊ वेगवत्तरम तद अप्य अस्य शितैर भल्लैस तरिभिश चिच्छेद फल्गुनः ॥ 24 ॥
एवं स पाण्डवः करुद्ध आत्तम आत्तं पुनः पुनः धनुर भीष्मस्य चिच्छेद सव्यसाची परंतपः ॥ 25 ॥
स चछिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन शक्तिं जग्राह संक्रुद्धॊ गिरीणाम अपि दारणीम तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं परति ॥ 26 ॥
ताम आपतन्तीं संप्रेक्ष्य जवलन्तीम अशनीम इव समादत्त शितान भल्लान पञ्च पाण्डवनन्दनः ॥ 27 ॥
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः संक्रुद्धॊ भरतश्रेष्ठ भीष्मबाहुबलेरिताम ॥ 28 ॥
सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ॥ 29 ॥
छिन्नां तां शक्तिम आलॊक्य भीष्मः करॊधसमन्वितः अचिन्तयद रणे वीरॊ बुद्ध्या परपुरंजयः ॥ 30 ॥
शक्तॊ ऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान यद्य एषां न भवेद गॊप्ता विष्वक्सेनॊ महाबलः ॥ 31 ॥
कारणद्वयम आस्थाय नाहं यॊत्स्यामि पाण्डवैः अवध्यत्वाच च पाण्डूनां सत्रीभावाच च शिखण्डिनः ॥ 32 ॥
पित्रा तुष्टेन मे पूर्वं यदा कालीम उदावहत सवच्छन्दमरणं दत्तम अवध्यत्वं रणे तथा तस्मान मृत्युम अहं मन्ये पराप्तकालम इवात्मनः ॥ 33 ॥
एवं जञात्वा वयवसितं भीष्मस्यामिततेजसः ऋषयॊ वसवश चैव वियत्स्था भीष्मम अब्रुवन ॥ 34 ॥
यत ते वयवसितं वीर अस्माकं सुमहत परियम तत कुरुष्व महेष्वास युद्धाद बुद्धिं निवर्तय ॥ 35 ॥
तस्य वाक्यस्य निधने परादुर आसीच छिवॊ ऽनिलः अनुलॊमः सुगन्धी च पृषतैश च समन्वितः ॥ 36 ॥
देवदुन्दुभयश चैव संप्रणेदुर महास्वनाः पपात पुष्पवृष्टिश च भीष्मस्यॊपरि पार्थिव ॥ 37 ॥
न च तच छुश्रुवे कश चित तेषां संवदतां नृप ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ 38 ॥
संभ्रमश च महान आसीत तरिदशानां विशां पते पतिष्यति रथाद भीष्मे सर्वलॊकप्रिये तदा ॥ 39 ॥
इति देवगणानां च शरुत्वा वाक्यं महामनाः ततः शांतनवॊ भीष्मॊ बीभत्सुं नाभ्यवर्तत भिद्यमानः शितैर बाणैः सर्वावरणभेदिभिः ॥ 40 ॥
शिखण्डी तु महाराज भरतानां पितामहम आजघानॊरसि करुद्धॊ नवभिर निशितैः शरैः ॥ 41 ॥
स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः नाकम्पत महाराज कषितिकम्पे यथाचलः ॥ 42 ॥
ततः परहस्य बीभत्सुर वयाक्षिपन गाण्डिवं धनुः गाङ्गेयं पञ्चविंशत्या कषुद्रकाणां समर्पयत ॥ 43 ॥
पुनः शरशतेनैवं तवरमाणॊ धनंजयः सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्व अताडयत ॥ 44 ॥
एवम अन्यैर अपि भृशं वध्यमानॊ महारणे न चक्रुस ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥ 45 ॥
ततः किरीटी संरब्धॊ भीष्मम एवाभ्यवर्तत शिखण्डिनं पुरस्कृत्य धनुश चास्य समाच्छिनत ॥ 46 ॥
अथैनं दशभिर विद्ध्वा धवजम एकेन चिच्छिदे सारथिं विशिखैश चास्य दशभिः समकम्पयत ॥ 47 ॥
सॊ ऽनयत कार्मुकम आदत्त गाङ्गेयॊ बलवत्तरम तद अप्य अस्य शितैर भल्लैस तरिधा तरिभिर उपानुदत निमेषान्तरमात्रेण आत्तम आत्तं महारणे ॥ 48 ॥
एवम अस्य धनूंष्य आजौ चिच्छेद सुबहून्य अपि ततः शांतनवॊ भीष्मॊ बीभत्सुं नाभ्यवर्तत ॥ 49 ॥
अथैनं पञ्चविंशत्या कषुद्रकाणां समर्दयत सॊ ऽतिविद्धॊ महेष्वासॊ दुःशासनम अभाषत ॥ 50 ॥
एष पार्थॊ रणे करुद्धः पाण्डवानां महारथः शरैर अनेकसाहस्रैर माम एवाभ्यसते रणे ॥ 51 ॥
न चैष शक्यः समरे जेतुं वज्रभृता अपि न चापि सहिता वीरा देवदानवराक्षसाः मां चैव शक्ता निर्जेतुं किम उ मर्त्याः सुदुर्बलाः ॥ 52 ॥
एवं तयॊः संवदतॊः फल्गुनॊ निशितैः शरैः शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ 53 ॥
ततॊ दुःशासनं भूयः समयमानॊ ऽभयभाषत अतिविद्धः शितैर बाणैर भृशं गाण्डीवधन्वना ॥ 54 ॥
वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ॥ 55 ॥
निकृन्तमाना मर्माणि दृढावरणभेदिनः मुसलानीव मे घनन्ति नेमे बाणाः शिखण्डिनः ॥ 56 ॥
बरह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः मम पराणान आरुजन्ति नेमे बाणाः शिखण्डिनः ॥ 57 ॥
भुजगा इव संक्रुद्धा लेलिहाना विषॊल्बणाः ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ 58 ॥
नाशयन्तीव मे पराणान यमदूता इवाहिताः गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ 59 ॥
कृन्तन्ति मम गात्राणि माघमासे गवाम इव अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥ 60 ॥
सर्वे हय अपि न मे दुःखं कुर्युर अन्ये नराधिपाः वीरं गण्डीवधन्वानम ऋते जिष्णुं कपिध्वजम ॥ 61 ॥
इति बरुवञ शांतनवॊ दिधक्षुर इव पाण्डवम सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ॥ 62 ॥
ताम अस्य विशिखैश छित्त्वा तरिधा तरिभिर अपातयत पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ 63 ॥
चर्माथादत्त गाङ्गेयॊ जातरूपपरिष्कृतम खड्गं चान्यतरं परेप्सुर मृत्यॊर अग्रे जयाय वा ॥ 64 ॥
तस्य तच छतधा चर्म वयधमद दंशितात्मनः रथाद अनवरूढस्य तद अद्भुतम इवाभवत ॥ 65 ॥
विनद्यॊच्चैः सिंह इव सवान्य अनीकान्य अचॊदयत अभिद्रवत गाङ्गेयं मां वॊ ऽसतु भयम अण्व अपि ॥ 66 ॥
अथ ते तॊमरैः परासैर बाणौघैश च समन्ततः पट्टिशैश च सनिस्त्रिंशैर नानाप्रहरणैस तथा ॥ 67 ॥
वत्सदन्तैश च भल्लैश च तम एकम अभिदुद्रुवुः सिंहनादस ततॊ घॊरः पाण्डवानाम अजायत ॥ 68 ॥
तथैव तव पुत्राश च राजन भीष्मजयैषिणः तम एकम अभ्यवर्तन्त सिंहनादांश च नेदिरे ॥ 69 ॥
तत्रासीत तुमुलं युद्धं तावकानां परैः सह दशमे ऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ 70 ॥
आसीद गाङ्ग इवावर्तॊ मुहूर्तम उदधेर इव सैन्यानां युध्यमानानां निघ्नताम इतरेतरम ॥ 71 ॥
अगम्यरूपा पृथिवी शॊणिताक्ता तदाभवत समं च विषमं चैव न पराज्ञायत किं चन ॥ 72 ॥
यॊधानाम अयुतं हत्वा तस्मिन स दशमे ऽहनि अतिष्ठद आहवे भीष्मॊ भिद्यमानेषु मर्मसु ॥ 73 ॥
ततः सेनामुखे तस्मिन सथितः पार्थॊ धनंजयः मध्येन कुरुसैन्यानां दरावयाम आस वाहिनीम ॥ 74 ॥
वयं शवेतहयाद भीताः कुन्तीपुत्राद धनंजयात पीड्यमानाः शितैः शस्त्रैः परद्रवाम महारणात ॥ 75 ॥
सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः ॥ 76 ॥
शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह दवादशैते जनपदाः शरार्ता वरणपीडिताः संग्रामे न जहुर भीष्मं युध्यमानं किरीटिना ॥ 77 ॥
ततस तम एकं बहवः परिवार्य समन्ततः परिकाल्य कुरून सर्वाञ शरवर्षैर अवाकिरन ॥ 78 ॥
निपातयत गृह्णीत विध्यताथ च कर्षत इत्य आसीत तुमुलः शब्दॊ राजन भीष्मरथं परति ॥ 79 ॥
अभिहत्य शरौघैस तं शतशॊ ऽथ सहस्रशः न तस्यासीद अनिर्भिन्नं गात्रेष्व अङ्गुलमात्रकम ॥ 80 ॥
एवंविभॊ तव पिता शरैर विशकली कृतः शिताग्रैः फल्गुनेनाजौ पराक्शिराः परापतद रथात किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम ॥ 81 ॥
हाहेति दिवि देवानां पार्थिवानां च सर्वशः पतमाने रथाद भीष्मे बभूव सुमहान सवनः ॥ 82 ॥
तं पतन्तम अभिप्रेक्ष्य महात्मानं पितामहम सह भीष्मेण सर्वेषां परापतन हृदयानि नः ॥ 83 ॥
स पपात महाबाहुर वसुधाम अनुनादयन इन्द्रध्वज इवॊत्सृष्टः केतुः सर्वधनुष्मताम धरणीं नास्पृशच चापि शरसंघैः समाचितः ॥ 84 ॥
शरतल्पे महेष्वासं शयानं पुरुषर्षभम रथात परपतितं चैनं दिव्यॊ भावः समाविशत ॥ 85 ॥
अभ्यवर्षत पर्जन्यः पराकम्पत च मेदिनी पतन स ददृशे चापि खर्वितं च दिवाकरम ॥ 86 ॥
संज्ञां चैवालभद वीरः कालं संचिन्त्य भारत अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ॥ 87 ॥
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥ 88 ॥
सथितॊ ऽसमीति च गाङ्गेयस तच छरुत्वा वाक्यम अब्रवीत धारयाम आस च पराणान पतितॊ ऽपि हि भूतले उत्तरायणम अन्विच्छन भीष्मः कुरुपितामहः ॥ 89 ॥
तस्य तन मतम आज्ञाय गङ्गा हिमवतः सुता महर्षीन हंसरूपेण परेषयाम आस तत्र वै ॥ 90 ॥
ततः संपातिनॊ हंसास तवरिता मानसौकसः आजग्मुः सहिता दरष्टुं भीष्मं कुरुपितामहम यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ 91 ॥
ते तु भीष्मं समासाद्य मुनयॊ हंसरूपिणः अपश्यञ शरतल्पस्थं भीष्मं कुरुपितामहम ॥ 92 ॥
ते तं दृष्ट्वा महात्मानं कृत्वा चापि परदक्षिणम गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम ॥ 93 ॥
इतरेतरम आमन्त्र्य पराहुस तत्र मनीषिणः भीष्म एव महात्मा सन संस्थाता दक्षिणायने ॥ 94 ॥
इत्य उक्त्वा परस्थितान हंसान दक्षिणाम अभितॊ दिशम संप्रेक्ष्य वै महाबुद्धिश चिन्तयित्वा च भारत ॥ 95 ॥
तान अब्रवीच छांतनवॊ नाहं गन्ता कथं चन दक्षिणावृत्त आदित्य एतन मम मनैः सथितम ॥ 96 ॥
गमिष्यामि सवकं सथानम आसीद यन मे पुरातनम उदगावृत्त आदित्ये हंसाः सत्यं बरवीमि वः ॥ 97 ॥
धारयिष्याम्य अहं पराणान उत्तरायणकाङ्क्षया ऐश्वर्यभूतः पराणानाम उत्सर्गे नियतॊ हय अहम तस्मात पराणान धारयिष्ये मुमूर्षुर उदगायने ॥ 98 ॥
यश च दत्तॊ वरॊ मह्यं पित्रा तेन महात्मना छन्दतॊ मृत्युर इत्य एवं तस्य चास्तु वरस तथा ॥ 99 ॥
धारयिष्ये ततः पराणान उत्सर्गे नियते सति इत्य उक्त्वा तांस तदा हंसान अशेत शरतल्पगः ॥ 100 ॥
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि पाण्डवाः सृञ्जयाश चैव सिंहनादं परचक्रिरे ॥ 101 ॥
तस्मिन हते महासत्त्वे भरतानाम अमध्यमे न किं चित परत्यपद्यन्त पुत्रास ते भरतर्षभ संमॊहश चैव तुमुलः कुरूणाम अभवत तदा ॥ 102 ॥
नृपा दुर्यॊधनमुखा निःश्वस्य रुरुदुस ततः विषादाच च चिरं कालम अतिष्ठन विगतेन्द्रियाः ॥ 103 ॥
दध्युश चैव महाराज न युद्धे दधिरे मनः ऊरुग्राहगृहीताश च नाभ्यधावन्त पाण्डवान ॥ 104 ॥
अवध्ये शंतनॊः पुत्रे हते भीष्मे महौजसि अभावः सुमहान राजन कुरून आगाद अतन्द्रितः ॥ 105 ॥
हतप्रवीराश च वयं निकृत्ताश च शितैः शरैः कर्तव्यं नाभिजानीमॊ निर्जिताः सव्यसाचिना ॥ 106 ॥
पाण्डवास तु जयं लब्ध्वा परत्र च परां गतिम सर्वे दध्मुर महाशङ्खाञ शूराः परिघबाहवः सॊमकाश च सपञ्चालाः पराहृष्यन्त जनेश्वर ॥ 107 ॥
ततस तूर्यसहस्रेषु नदत्सु सुमहाबलः आस्फॊटयाम आस भृशं भीमसेनॊ ननर्त च ॥ 108 ॥
सेनयॊर उभयॊश चापि गाङ्गेये विनिपातिते संन्यस्य वीराः शस्त्राणि पराध्यायन्त समन्ततः ॥ 109 ॥
पराक्रॊशन परापतंश चान्ये जग्मुर मॊहं तथापरे कषत्रं चान्ये ऽभयनिन्दन्त भीष्मं चैके ऽभयपूजयन ॥ 110 ॥
ऋषयः पितरश चैव परशशंसुर महाव्रतम भरतानां च ये पूर्वे ते चैनं परशशंसिरे ॥ 111 ॥
महॊपनिषदं चैव यॊगम आस्थाय वीर्यवान जपञ शांतनवॊ धीमान कालाकाङ्क्षी सथितॊ ऽभवत ॥ 112 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 114
Reach this point to mark the section finished.
Continue to अध्याय 115