धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 113

  1. [स] एवं वयूढेष्व अनीकेषु भूयिष्ठम अनुवर्तिषु बरह्मलॊकपराः सर्वे समपद्यन्त भारत ॥ 1 ॥

  2. न हय अनीकम अनीकेन समसज्जत संकुले न रथा रथिभिः सार्धं न पदाताः पदातिभिः ॥ 2 ॥

  3. अश्वा नाश्वैर अयुध्यन्त न गजा गजयॊधिभिः महान वयतिकरॊ रौद्रः सेनयॊः समपद्यत ॥ 3 ॥

  4. नरनागरथेष्व एवं वयवकीर्णेषु सर्वशः कषये तस्मिन महारौद्रे निर्विशेषम अजायत ॥ 4 ॥

  5. ततः शल्यः कृपश चैव चित्रसेनश च भारत दुःशासनॊ विकर्णश च रथान आस्थाय स तवराः पाण्डवानां रणे शूरा धवजिनीं समकम्पयन ॥ 5 ॥

  6. सा वध्यमाना समरे पाण्डुसेना महात्मभिः तरातारं नाध्यगच्छद वै मज्जमानेव नैर जले ॥ 6 ॥

  7. यथा हि शैशिरः कालॊ गवां मर्माणि कृन्तति तथा पाण्डुसुतानां वै भीष्मॊ मर्माण्य अकृन्तत ॥ 7 ॥

  8. अतीव तव सैन्यस्य पार्थेन च महात्मना नगमेघप्रतीकाशाः पतिता बहुधा गजाः ॥ 8 ॥

  9. मृद्यमानाश च दृश्यन्ते पार्थेन नरयूथपाः इषुभिस ताड्यमानाश च नाराचैश च सहस्रशः ॥ 9 ॥

  10. पेतुर आर्तस्वरं कृत्वा तत्र तत्र महागजाः आबद्धाभरणैः कायैर निहतानां महात्मनाम ॥ 10 ॥

  11. छन्नम आयॊधनं रेजे शिरॊभिश च सकुण्डलैः तस्मिन्न अतिमहाभीमे राजन वीरवरक्षये भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये ॥ 11 ॥

  12. ते पराक्रान्तम आलॊक्य राजन युधि पितामहम न नयवर्तन्त कौरव्या बरह्मलॊकपुरस्कृताः ॥ 12 ॥

  13. इच्छन्तॊ निधनं युद्धे सवर्गं कृत्वा परायणम पाण्डवान अभ्यवर्तन्त तस्मिन वीरवरक्षये ॥ 13 ॥

  14. पाण्डवापि महाराज समरन्तॊ विविधान बहून कलेशान कृतान सपुत्रेण तवया पूर्वं नराधिप ॥ 14 ॥

  15. भयं तयक्त्वा रणे शूरा बरह्मलॊकपुरस्कृताः तावकांस तव पुत्रांश च यॊधयन्ति सम हृष्टवत ॥ 15 ॥

  16. सेनापतिस तु समरे पराह सेनां महारथः अभिद्रवत गाङ्गेयं सॊमकाः सृञ्जयैः सह ॥ 16 ॥

  17. सेनापतिवचः शरुत्वा सॊमकाः सह सृञ्जयैः अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ 17 ॥

  18. वध्यमानस ततॊ राजन पिता शांतनवस तव अमर्षवशम आपन्नॊ यॊधयाम आस सृञ्जयान ॥ 18 ॥

  19. तस्य कीर्तिमतस तात पुरा राणेम धीमता संप्रदत्तास्त्र शिक्षा वै परानीक विनाशिनी ॥ 19 ॥

  20. स तां शिक्षाम अधिष्ठाय कृत्वा परबलक्षयम अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः भीष्मॊ दशसहस्राणि जघान परवीरहा ॥ 20 ॥

  21. तस्मिंस तु दिवसे पराप्ते दशमे भरतर्षभ भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे गजाश्वम अमितं हत्वा हताः सप्त महारथाः ॥ 21 ॥

  22. हत्वा पञ्च सहस्राणि रथिनां परपितामहः नराणां च महायुद्धे सहस्राणि चतुर्दश ॥ 22 ॥

  23. तथा दन्ति सहस्रं च हयानाम अयुतं पुनः शिक्षा बलेन निहतं पित्रा तव विशां पते ॥ 23 ॥

  24. ततः सर्वमहीपानां कषॊभयित्वा वरूथिनीम विराटस्य परियॊ भराता शतानीकॊ निपातितः ॥ 24 ॥

  25. शतानीकं च समरे हत्वा भीष्मः परतापवान सहस्राणि महाराज राज्ञां भल्लैर नयपातयत ॥ 25 ॥

  26. ये च के चन पार्थानाम अभियाता धनंजयम राजानॊ भीष्मम आसाद्य गतास ते यमसादनम ॥ 26 ॥

  27. एवं दश दिशॊ भीष्मः शरजालैः समन्ततः अतीत्य सेनां पार्थानाम अवतस्थे चमूमुखे ॥ 27 ॥

  28. स कृता सुमहत कर्म तस्मिन वै दशमे ऽहनि सेनयॊर अन्तरे तिष्ठन परगृहीतशरासनः ॥ 28 ॥

  29. न चैनं पाथिवा राजञ शेकुः के चिन निरीक्षितुम मध्यं पराप्तं यथा गरीष्मे तपन्तं भास्करं दिवि ॥ 29 ॥

  30. यथा दैत्य चमूं शक्रस तापयाम आस संयुगे तथा भीष्मः पाण्डवेयांस तापयाम आस भारत ॥ 30 ॥

  31. तथा च तं पराक्रान्तम आलॊक्य मधुसूदनः उवाच देवकीपुत्रः परीयमाणॊ धनंजयम ॥ 31 ॥

  32. एष शांतनवॊ भीष्मः सेनयॊर अन्तरे सथितः नानिहत्य बलाद एनं विजयस ते भविष्यति ॥ 32 ॥

  33. यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः न हि भीष्म शरान अन्यः सॊढुम उत्सहते विभॊ ॥ 33 ॥

  34. ततस तस्मिन कषणे राजंश चॊदितॊ वानरध्वजः स धवजं स रथं साश्वं भीष्मम अन्तर्दधे शरैः ॥ 34 ॥

  35. स चापि कुरुमुख्यानाम ऋषभः पाण्डवेरितान शरव्रातैः शरव्रातान बहुधा विदुधाव तान ॥ 35 ॥

  36. तेन पाञ्चालराजश च धृष्टकेतुश च वीर्यवान पाण्डवॊ भीमसेनश च धृष्टद्युम्नश च पार्षतः ॥ 36 ॥

  37. यमौ च चेकितानश च केकयाः पञ्च चैव ह सात्यकिश च महाराज सौभद्रॊ ऽथ घटॊत्कचः ॥ 37 ॥

  38. दरौपदेयाः शिखण्डी च कुन्तिभॊजश च वीर्यवान सुशर्मा च विराटश च पाण्डवेया महाबलाः ॥ 38 ॥

  39. एत चान्ये च बहवः पीडिता भीष्मसायकैः समुद्धृताः फल्गुनेन निमग्नाः शॊकसागरे ॥ 39 ॥

  40. ततः शिखण्डी वेगेन परगृह्य परमायुधम भीष्मम एवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ 40 ॥

  41. ततॊ ऽसयानुचरान हत्व सर्वान रणविभागवित भीष्मम एवाभिदुद्राव बीभत्सुर अपराजितः ॥ 41 ॥

  42. सात्यकिश चेकितानश च धृष्टद्युम्नश च पार्षतः विराटॊ दरुपदश चैव माद्रीपुत्रौ च पाण्डवौ दुद्रुवुर भीष्मम एवाजौ रक्षिता दृढधन्वना ॥ 42 ॥

  43. अभिमन्युश च समरे दरौपद्याः पञ्च चात्मजाः दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ॥ 43 ॥

  44. ते सर्वे दृढधन्वानः संयुगेष्व अपलायिनः बहुधा भीष्मम आनर्छन मार्गणैः कृतमार्गणाः ॥ 44 ॥

  45. विधूय तान बाणगणान ये मुक्ताः पार्थिवॊत्तमैः पाण्डवानाम अदीनात्मा वयगाहत वरूथिनीम कृत्वा शरविघातं च करीडन्न इव पितामहः ॥ 45 ॥

  46. नाभिसंधत्त पाञ्चाल्यं समयमानॊ मुहुर मुहुः सत्रीत्वं तस्यानुसंस्मृत्य भीष्मॊ बाणाञ शिखण्डिनः जघान दरुपदानीके रथान सप्त महारथः ॥ 46 ॥

  47. ततः किल किला शब्दः कषणेन समपद्यत मत्स्यपाञ्चाल चेदीनां तम एकम अभिधावताम ॥ 47 ॥

  48. ते वराश्वरथव्रातैर वारणैः स पदातिभिः तम एकं छादयाम आसुर मेघा इव दिवाकरम भीष्मं भागिरथी पुत्रं परतपन्तं रणे रिपून ॥ 48 ॥

  49. ततस तस्य च तेषां च युद्धे देवासुरॊपमे किरीटी भीष्मम आनर्छत पुरस्कृत्य शिखण्डिनम ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 114

Previous: अध्याय 112