[स] अभिमन्युर महाराज तव पुत्रम अयॊधयत महत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी ॥ 1 ॥
दुर्यॊधनॊ रणे कार्ष्णिं नवभिर नव पर्वभिः आजघान रणे करुद्धः पुनश चैनं तरिभिः शरैः ॥ 2 ॥
तस्य शक्तिं रणे कार्ष्णिर मृत्यॊर घॊराम इव सवसाम परेषयाम आस संक्रुद्धॊ दुर्यॊधन रथं परति ॥ 3 ॥
ताम आपतन्तीं सहसा घॊररूपां विशां पते दविधा चिच्छेद ते पुत्रः कषुरप्रेण महारथः ॥ 4 ॥
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकॊपनः दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत ॥ 5 ॥
पुनश चैनं शरैर घॊरैर आजघान सतनान्तरे दशभिर भरतश्रेष्ठ दुर्यॊधनम अमर्षणम ॥ 6 ॥
तद युद्धम अभवद घॊरं चित्ररूपं च भारत ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम ॥ 7 ॥
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च युयुधाते रणे वीरौ सौभद्र कुरुपुंगवौ ॥ 8 ॥
सात्यकिं रभसं युद्धे दरौणिर बराह्मणपुंगवः आजघानॊरसि करुद्धॊ नाराचेन परंतपः ॥ 9 ॥
शैनेयॊ ऽपि गुरॊः पुत्रं सर्वमर्मसु भारत अताडयद अमेयात्मा नवभिः कङ्कपत्रिभिः ॥ 10 ॥
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः तरिंशता च पुनस तूर्णं बाह्वॊर उरसि चार्पयत ॥ 11 ॥
सॊ ऽतिविद्धॊ महेष्वासॊ दरॊणपुत्रेण सात्वतः दरॊणपुत्रं तरिभिर बाणैर आजघान महायशाः ॥ 12 ॥
पौरवॊ धृष्टकेतुं च शरैर आसाद्य संयुगे बहुधा दारयां चक्रे महेष्वासं महारथम ॥ 13 ॥
तथैव पौरवं युद्धे धृष्टकेतुर महारथः तरिंशता निशितैर बाणैर विव्याध सुमहाबलः ॥ 14 ॥
पौरवस तु धनुश छित्त्वा धृष्टकेतॊर महारथः ननाद बलवन नादं विव्याध दशभिः शरैः ॥ 15 ॥
सॊ ऽनयत कार्मुकम आदाय पौरवं निशितैः शरैः आजघान महाराज तरिसप्तत्या शिलीमुखैः ॥ 16 ॥
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ महता शरवर्षेण परस्परम अवर्षताम ॥ 17 ॥
अन्यॊन्यस्य धनुश छित्त्वा हयान हत्वा च भारत विरथाव असियुद्धाय संगतौ तौ महारथौ ॥ 18 ॥
आर्षभे चर्मणी चित्रे शतचन्द्र परिष्कृते तारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥ 19 ॥
परगृह्य विमलौ राजंस ताव अन्यॊन्यम अभिद्रुतौ वाशिता संगमे यत्तौ सिंहाव इव महावने ॥ 20 ॥
मण्डलानि विचित्राणि गतप्रत्यागतानि च चेरतुर दर्शयन्तौ च परार्थयन्तौ परस्परम ॥ 21 ॥
पौरवॊ धृष्टकेतुं तु शङ्खदेशे महासिना ताडयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत ॥ 22 ॥
चेदिराजॊ ऽपि समरे पौरवं पुरुषर्षभम आजघान शिताग्रेण जत्रु देशे महासिना ॥ 23 ॥
ताव अन्यॊन्यं महाराज समासाद्य महाहवे अन्यॊन्यवेगाभिहतौ निपेततुर अरिंदमौ ॥ 24 ॥
ततः सवरथम आरॊप्य पौरवं तनयस तव जयत्सेनॊ रथे राजन्न अपॊवाह रणाजिरात ॥ 25 ॥
धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः अपॊवाह रणे राजन सहदेवः परतापवान ॥ 26 ॥
चित्रसेनः सुशर्माणं विद्ध्वा नवभिर आशुगैः पुनर विव्याध तं षष्ट्या पुनश च नवभिः शरैः ॥ 27 ॥
सुशर्मा तु रणे करुद्धस तव पुत्रं विशां पते दशभिर दशभिश चैव विव्याध निशितैः शरैः ॥ 28 ॥
चित्रसेनश च तं राजंस तरिंशता नतपर्वणाम आजघान रणे करुद्धः स च तं परत्यविध्यत भीष्मस्य समरे राजन यशॊ मानं च वर्धयन ॥ 29 ॥
सौभद्रॊ राजपुत्रं तु बृहद्बलम अयॊधयत आर्जुनिं कॊसलेन्द्रस तु विद्ध्वा पञ्चभिर आयसैः पुनर विव्याध विंशत्या शरैः संनतपर्वभिः ॥ 30 ॥
बृहद्बलं च सौभद्रॊ विद्ध्वा नवभिर आयसैः नाकम्पयत संग्रामे विव्याध च पुनः पुनः ॥ 31 ॥
कौसल्यस्य पुनश चापि धनुश चिच्छेद फाल्गुणिः आजघान शरैश चैव तरिंशता कङ्कपत्रिभिः ॥ 32 ॥
सॊ ऽनयत कार्मुकम आदाय राजपुत्रॊ बृहद्बलः फाल्गुणिं समरे करुद्धॊ विव्याधबहुभिः शरैः ॥ 33 ॥
तयॊर युद्धं समभवद भीष्महेतॊः परंतप संरब्धयॊर महाराज समरे चित्रयॊधिनॊः यथा देवासुरे युद्धे मय वासवयॊर अभूत ॥ 34 ॥
भीमसेनॊ गजानीकं यॊधयन बह्व अशॊभत यथा शक्रॊ वज्रपाणिर दारयन पर्वतॊत्तमान ॥ 35 ॥
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः निपेतुर उर्व्यां सहिता नादयन्तॊ वसुंधराम ॥ 36 ॥
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयॊपमाः विरेजुर वसुधां पराप्य विकीर्णा इव पर्वतः ॥ 37 ॥
युधिष्ठिरॊ महेष्वासॊ मद्रराजानम आहवे महत्या सेनया गुप्तं पीडयाम आस संगतः ॥ 38 ॥
मद्रेश्वरश च समरे धर्मपुत्रं महारथम पीडयाम आस संरब्धॊ भीष्महेतॊः पराक्रमी ॥ 39 ॥
विराटं सैन्धवॊ राजा विद्ध्वा संनतपर्वभिः नवभिः सायकैस तीक्ष्णैस तरिंशता पुनर अर्दयत ॥ 40 ॥
विराटश च महाराज सैन्धवं वाहिनीमुखे तरिंशता निशितैर बाणैर आजघान सतनान्तरे ॥ 41 ॥
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध धवजौ रेजतुश चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥ 42 ॥
दरॊणः पाञ्चाल पुत्रेण समागम्य महारणे महासमुदयं चक्रे शरैः संनतपर्वभिः ॥ 43 ॥
ततॊ दरॊणॊ महाराज पार्षतस्य महद धनुः छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥ 44 ॥
सॊ ऽनयत कार्मुकम आदाय पार्षतः परवीरहा दरॊणस्य मिषतॊ युद्धे परेषयाम आस सायकान ॥ 45 ॥
ताञ शराञ शरसंघैस तु संनिवार्य महारथः दरॊणॊ दरुपदपुत्राय पराहिणॊत पञ्च सायकान ॥ 46 ॥
तस्य करुद्धॊ महाराज पार्षतः परवीरहा दरॊणाय चिक्षेप गदां यमदण्डॊपमं रणे ॥ 47 ॥
ताम आपतन्तीं सहसा हेमपट्ट विभूषिताम शरैः पञ्चाशता दरॊणॊ वारयाम आस संयुगे ॥ 48 ॥
सा छिन्ना बहुधा राजन दरॊण चापच्युतैः शरैः चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ 49 ॥
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः दरॊणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम ॥ 50 ॥
तां दरॊणॊ नवभिर बाणैश चिच्छेद युधि भारत पार्षतं च महेष्वासं पीडयाम आस संयुगे ॥ 51 ॥
एवम एतन महद युद्धं दरॊण पार्षतयॊर अभूत भीष्मं परति महाराज घॊररूपां भयानकम ॥ 52 ॥
अर्जुनः पराप्य गाङ्गेयं पीडयन निशितैः शरैः अभ्यद्रवत संयत्तं वने मत्तम इव दविपम ॥ 53 ॥
परत्युद्ययौ च तं पार्थं भगदत्तः परतापवान तरिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ 54 ॥
तम आपतन्तं सहसा महेन्द्र गजसंनिभम परं यत्नं समास्थाय बीभत्सुः परत्यपद्यत ॥ 55 ॥
ततॊ गजगतॊ राजा भगदत्तः परतापवान अर्जुनं शरवर्षेण वारयाम आस संयुगे ॥ 56 ॥
अर्जुनस तु रणे नागम आयान्तं रजतॊपमम विमलैर आयसैस तीक्ष्णैर अविध्यत महारणे ॥ 57 ॥
शिखण्डिनं च कौन्तेयॊ याहि याहीत्य अचॊदयत भीष्मं परति महाराज जह्य एनम इति चाब्रवीत ॥ 58 ॥
पराग्ज्यॊतिषस ततॊ हित्वा पाण्डवं पाण्डुपूर्वज परययौ तवरितॊ राजन दरुपदस्य रथं परति ॥ 59 ॥
ततॊ ऽरजुनॊ महाराज भीष्मम अभ्यद्रवद दरुतम शिखण्डिनं पुरस्कृत्य ततॊ युद्धम अवर्तत ॥ 60 ॥
ततस ते तावकाः शूराः पाण्डवं रभसं रणे सर्वे ऽभयधावन करॊशन्तस तद अद्भुतम इवाभवत ॥ 61 ॥
नानाविधान्य अनीकानि पुत्राणां ते जनाधिप अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः ॥ 62 ॥
शिखण्डी तु समासाद्य भरतानां पितामहम इषुभिस तूर्णम अव्यग्रॊ बहुभिः स समाचिनॊत ॥ 63 ॥
सॊमकांश च रणे भीष्मॊ जघ्ने पार्थ पदानुगान नयवारयत सैन्यं च पाण्डवानां महारथः ॥ 64 ॥
रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः शरसंघ महाज्वालः कषत्रियान समरे ऽदहत ॥ 65 ॥
यथा हि सुमहान अग्निः कक्षे चरति सानिलः तथा जज्वाल भीष्मॊ ऽपि दिव्यान्य अस्त्राण्य उदीरयन ॥ 66 ॥
सुवर्णपुङ्खैर इषुभिः शितैः संनतपर्वभिः नादयन स दिशॊ भीष्मः परदिशश च महायशाः ॥ 67 ॥
पातयन रथिनॊ राजन गजांश च सह सादिभिः मुण्डतालवनानीव चकार स रथव्रजान ॥ 68 ॥
निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥ 69 ॥
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः निशम्य सर्वतॊ राजन समकम्पन्त सैनिकाः ॥ 70 ॥
अमॊघा हय अपतन बाणाः पितुस ते मनुजेश्वर नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ 71 ॥
निर्मनुष्यान रथान राजन सुयुक्ताञ जवनैर हयैः वातायमानान पश्याम हरियमाणान विशां पते ॥ 72 ॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश महारथाः समाख्याताः कुलु पुत्रास तनुत्यजः ॥ 73 ॥
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः संग्रामे भीष्मम आसाद्य स वाजिरथकुञ्जराः जग्मुस ते परलॊकाय वयादितास्यम इवान्तकम ॥ 74 ॥
न तत्रासीन महाराज सॊमकानां महारथः यः संप्राप्य रणे भीष्मं जीविते सम मनॊ दधे ॥ 75 ॥
तांश च सर्वान रणे यॊधान परेतराजपुरं परति नीतान अमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम ॥ 76 ॥
न कश चिद एनं समरे परत्युद्याति महारथः ऋते पाण्डुसुतं वीरं शवेताश्वं कृष्णसारथिम शिखण्डिनं च समरे पाञ्चाल्यम अमितौजसम ॥ 77 ॥
शिखण्डी तु रणे भीष्मम आसाद्य भरतर्षभ दशभिर दशभिर बाणैर आजघान महाहवे ॥ 78 ॥
शिखण्डिनं तु गाङ्गेयः करॊधदीप्तेन चक्षुषा अवैक्षत कटाक्षेण निर्दहन्न इव भारत ॥ 79 ॥
सत्रीत्वं तत संस्मरन राजन सर्वलॊकस्य पश्यतः न जघान रणे भीष्मः स च तं नावबुद्धवान ॥ 80 ॥
अर्जुनस तु महाराज शिखण्डिनम अभाषत अभित्वरस्व तवरितॊ जहि चैनं पितामहम ॥ 81 ॥
किं ते विवक्षया वीर जहि भीष्मं महारथम न हय अन्यम अनुपश्यामि कं चिद यौधिष्ठिरे बले ॥ 82 ॥
यः शक्तः समरे भीष्मं यॊधयेत पितामहम ऋते तवां पुरुषव्याघ्र सत्यम एतद बरवीमि ते ॥ 83 ॥
एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ शनैर नानाविधैस तूर्णं पितामहम उपाद्रवत ॥ 84 ॥
अचिन्तयित्वा तान बाणान पिता देवव्रतस तव अर्जुनं समरे करुद्धं वारयाम आस सायकैः ॥ 85 ॥
तथैव च चमूं सर्वां पाण्डवानां महारथः अप्रैषीत समरे तीक्ष्णैः परलॊकाय मारिष ॥ 86 ॥
तथैव पाण्डवा राजन सैन्येन महता वृताः भीष्मं परच्छादयाम आसुर मेघा इव दिवाकरम ॥ 87 ॥
स समन्तात परिवृतॊ भारतॊ भरतर्षभ निर्ददाह रणे शूरान वनं वह्निर इव जवलन ॥ 88 ॥
तताद्भुतम अपश्याम तव पुत्रस्य पौरुषम अयॊधयत यत पार्थं जुगॊप च यतव्रतम ॥ 89 ॥
कर्मणा तेन समरे तव पुत्रस्य धन्विनः दुःशासनस्य तुतुषुः सर्वे लॊका महात्मनः ॥ 90 ॥
यद एकः समरे पार्थान सानुगान समयॊधयत न चैनं पाण्डवा युद्धे वायराम आसुर उल्बणम ॥ 91 ॥
दुःशासनेन समरे रथिनॊ विरथी कृताः सादिनश च महाराज दन्तिनश च महाबलाः ॥ 92 ॥
विनिर्भिन्नाः शरैस तीक्ष्णैर निपेतुर धरणीतले शरातुरास तथैवान्ये दन्तिनॊ विद्रुता दिशः ॥ 93 ॥
यथाग्निर इन्धनं पराप्य जवलेद दीप्तार्चिर उल्बणः तथा जज्वाल पुत्रस ते पाण्डवान वै विनिर्दहन ॥ 94 ॥
तं भारत महामात्रं पाण्डवानां महारथः जेतुं नॊत्सहते कश चिन नाप्य उद्यातुं कथं चन ऋते महेन्द्र तनयं शवेताश्वं कृष्णसारथिम ॥ 95 ॥
स हि तं समरे राजन विजित्य विजयॊ ऽरजुनः भीष्मम एवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥ 96 ॥
विजितस तव पुत्रॊ ऽपि भीष्म बाहुव्यपाश्रयः पुनः पुनः समाश्वस्य परायुध्यत रणॊत्कटः अर्जुनं च रणे राजन यॊधयन स वयराजत ॥ 97 ॥
शिखण्डी तु रणे राजन विव्याधैव पितामहम शरैर अशनिसंस्पर्शैस तथा सर्पविषॊपमैः ॥ 98 ॥
न च ते ऽसय रुजं चक्रुः पितुस तव जनेश्वर समयमानश च गाङ्गेयस तान बाणाञ जगृहे तदा ॥ 99 ॥
उष्णार्थॊ हि नरॊ यद्वज जलधाराः पतीच्छति तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ 100 ॥
तं कषत्रिया महाराज ददृशुर घॊरम आहवे भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम ॥ 101 ॥
ततॊ ऽबरवीत तव सुतः सर्वसैन्यानि मारिष अभिद्रवत संग्रामे फल्गुनं सर्वतॊ रथैः ॥ 102 ॥
भीष्मॊ वः समरे सर्वान पलयिष्यति धर्मवित ते भयं सुमहत तवक्त्वा पाण्डवान परतियुध्यत ॥ 103 ॥
एष तालेन दीप्तेन भीष्मस तिष्ठति पालयन सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥ 104 ॥
तरिदशापि समुद्युक्ता नालं भीष्मं समासितुम किम उ पार्था महात्मानं मर्त्यभूतास तथाबलाः तस्माद दरवत हे यॊधाः फल्गुनं पराप्य संयुगे ॥ 105 ॥
अहम अद्य रणे यत्तॊ यॊधयिष्यामि फल्गुनम सहितः सर्वतॊ यत्तैर भवद्भिर वसुधाधिपाः ॥ 106 ॥
तच छरुत्वा तु वचॊ राजंस तव पुत्रस्य धन्विनः अर्जुनं परति संयत्ता बलवन्ति महारथाः ॥ 107 ॥
ते विदेहाः कलिङ्गाश च दाशेरक गणैः सह अभिपेतुर निषादाश च सौवीराश च महारणे ॥ 108 ॥
बाह्लिका दरदाश चैव पराच्यॊदीच्याश च मालवाः अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः ॥ 109 ॥
शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह अभिपेतू रणे पार्थं पतंगा इव पावकम ॥ 110 ॥
स तान सर्वान सहानीकान महाराज महारथान दिव्यान्य अस्त्राणि संचिन्त्य परसंधाय धनंजयः ॥ 111 ॥
स तैर अस्त्रैर महावेगैर ददाहाशु महाबलः शरप्रतापैर बीभत्सुः पतंगान इव पावकः ॥ 112 ॥
तस्य बाणसहस्राणि सृजतॊ दृढधन्विनः दीप्यमानम इवाकाशे गाण्डीवं समदृश्यत ॥ 113 ॥
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः नाब्यवर्तन्त राजानः सहिता वानरध्वजम ॥ 114 ॥
स धवजा रथिनः पेतुर हयारॊहा हयैः सह गजाः सह गजारॊहैः किरीटिशरताडिताः ॥ 115 ॥
ततॊ ऽरजुन भुजॊत्सृष्टैर आवृतासीद वसुंधरा विद्रवद्भिश च बहुधा बलै राज्ञां समन्ततः ॥ 116 ॥
अथ पार्थॊ महाबाहुर दरावयित्वा वरूथिनीम दुःशासनाय समरे परेषयाम आस सायकान ॥ 117 ॥
ते तु भित्त्वा तव सुतं दुःषासनम अयॊमुखाः धरणीं विविशुः सर्वे वल्मीकम इव पन्नगाः हयांश चास्य ततॊ जघ्ने सारथिं चन्यपातयत ॥ 118 ॥
विविंशतिं च विंशत्या विरथं कृतवान परभॊ आजघान भृशं चैव पञ्चभिर नतपर्वभिः ॥ 119 ॥
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिर आयसैः चकार विरथांश चैव कौन्तेयः शवेतवाहनः ॥ 120 ॥
एवं ते विरथाः पञ्च कृपः शल्यश च मारिष दुःशासनॊ विकर्णश च तथैव च विविंशतिः संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥ 121 ॥
पूर्वाह्णे तु तथा राजन पराजित्य महारथान परजज्वाल रणे पार्थॊ विधूम इव पावकः ॥ 122 ॥
तथैव शरवर्षेण भास्करॊ रश्मिवान इव अन्यान अपि महाराज पातयाम आस पार्थिवान ॥ 123 ॥
पराङ्मुखी कृत्यतदा शरवर्षैर महारथान परावर्तयत संग्रामे शॊणितॊदां महानदीम मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ 124 ॥
गजाश च रथसंघाश च बहुधा रथिभिर हताः रथाश च निहता नागैर नागा हयपदातिभिः ॥ 125 ॥
अन्तरा छिध्यमानानि शरीराणि शिरांसि च निपेतुर दिक्षु सर्वासु गजाश्वरथयॊधिनाम ॥ 126 ॥
छन्नम आयॊधनं रेजे कुण्डलाङ्गद धारिभिः पतितैः पात्यमानैश च राजपुत्रैर महारथैः ॥ 127 ॥
रथनेमि निकृत्ताश च गजैश चैवावपॊथिताः पादाताश चाप्य अदृश्यन्त साश्वाः सहयसादिनः ॥ 128 ॥
गजाश्वरथसंघाश च परिपेतुः समन्ततः विशीर्णाश च रथा भूमौ भग्नचक्रयुगध्वजाः ॥ 129 ॥
तद गजाश्वरथौघानां रुधिरेण समुक्षितम छन्नम आयॊधनं रेजे रक्ताभ्रम इव शारदम ॥ 130 ॥
शवानः काकाश च गृध्राश च वृका गॊमायुभिः सह परणेदुर भक्ष्यम आसाद्य विकृताश च मृगद्विजाः ॥ 131 ॥
ववुर बहुविधाश चैव दिक्षु सर्वासु मारुताः दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥ 132 ॥
काञ्चनानि च दामानि पताकाश च महाधनाः धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥ 133 ॥
शवेतच छत्रसहस्राणि स धवजाश च महारथाः विनिकीर्णाः सम दृश्यन्ते शतशॊ ऽथ सहस्रशः स पताकाश च मातङ्गा दिशॊ जग्मुः शरातुराः ॥ 134 ॥
कषत्रियाश च मनुष्येन्द्र गदा शक्तिधनुर्धराः समन्ततॊ वयदृश्यन्त पतिता धरणीतले ॥ 135 ॥
ततॊ भीष्मॊ महाराज दिव्यम अस्त्रम उदीरयन अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम ॥ 136 ॥
तं शिखण्डी रणे यत्तम अभ्यधावत दंशितः संजहार ततॊ भीष्मस तद अस्त्रं पावकॊपमम ॥ 137 ॥
एतस्मिन्न एव काले तु कौन्तेयः शवेतवाहनः निजघ्ने तावकं सैन्यं मॊहयित्वा पितामहम ॥ 138 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 112
Reach this point to mark the section finished.
Continue to अध्याय 113