धृतराष्ट्र उवाच कथं शांतनवॊ भीष्मॊ दशमे ऽहनि संजय अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ॥ 1 ॥
कुरवश च कथं युद्धे पाण्डवान परत्यवारयन आचक्ष्व मे महायुद्धं भीष्मस्याहवशॊभिनः ॥ 2 ॥
संजय उवाच कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत यथा च तद अभूद युद्धं तत ते वक्ष्यामि शृण्वतः ॥ 3 ॥
परेषिताः परलॊकाय परमास्त्रैः किरीटिना अहन्य अहनि संप्राप्तास तावकानां रथव्रजाः ॥ 4 ॥
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः पार्थानाम अकरॊद भीष्मः सततं समितिक्षयम ॥ 5 ॥
कुरुभिः सहितं भीष्मं युध्यमानं महारथम अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ 6 ॥
दशमे ऽहनि तस्मिंस तु भीष्मार्जुनसमागमे अवर्तत महारौद्रः सततं समितिक्षयः ॥ 7 ॥
तस्मिन्न अयुतशॊ राजन भूयश च स परंतपः भीष्मः शांतनवॊ यॊधाञ जघान परमास्त्रवित ॥ 8 ॥
येषाम अज्ञातकल्पानि नामगॊत्राणि पार्थिव ते हतास तत्र भीष्मेण शूराः सर्वे ऽनिवर्तिनः ॥ 9 ॥
दशाहानि ततस तप्त्वा भीष्मः पाण्डववाहिनीम निरविद्यत धर्मात्मा जीवितेन परंतपः ॥ 10 ॥
स कषिप्रं वधम अन्विच्छन्न आत्मनॊ ऽभिमुखं रणे न हन्यां मानवश्रेष्ठान संग्रामे ऽभिमुखान इति ॥ 11 ॥
चिन्तयित्वा महाबाहुः पिता देवव्रतस तव अभ्याशस्थं महाराज पाण्डवं वाक्यम अब्रवीत ॥ 12 ॥
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद शृणु मे वचनं तात धर्म्यं सवर्ग्यं च जल्पतः ॥ 13 ॥
निर्विण्णॊ ऽसमि भृशं तात देहेनानेन भारत घनतश च मे गतः कालः सुबहून पराणिनॊ रणे ॥ 14 ॥
तस्मात पार्थं पुरॊधाय पाञ्चालान सृञ्जयांस तथा मद्वधे करियतां यत्नॊ मम चेद इच्छसि परियम ॥ 15 ॥
तस्य तन मतम आज्ञाय पाण्डवः सत्यदर्शनः भीष्मं परतिययौ यत्तः संग्रामे सह सृञ्जयैः ॥ 16 ॥
धृष्टद्युम्नस ततॊ राजन पाण्डवश च युधिष्ठिरः शरुत्वा भीष्मस्य तां वाचं चॊदयाम आसतुर बलम ॥ 17 ॥
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना ॥ 18 ॥
अयं चापि महेष्वासः पार्षतॊ वाहिनीपतिः भीमसेनश च समरे पालयिष्यति वॊ धरुवम ॥ 19 ॥
न वै भीष्माद भयं किं चित कर्तव्यं युधि सृञ्जयाः धरुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम ॥ 20 ॥
तथा तु समयं कृत्वा दशमे ऽहनि पाण्डवाः बरह्मलॊकपरा भूत्वा संजग्मुः करॊधमूर्छिताः ॥ 21 ॥
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ 22 ॥
ततस तव सुतादिष्टा नानाजनपदेश्वराः दरॊणेन सहपुत्रेण सहसेना महाबलाः ॥ 23 ॥
दुःशासनश च बलवान सह सर्वैः सहॊदरैः भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ॥ 24 ॥
ततस तु तावकाः शूराः पुरस्कृत्य यतव्रतम शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे ॥ 25 ॥
चेदिभिश च सपाञ्चालैः सहितॊ वानरध्वजः ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम ॥ 26 ॥
दरॊणपुत्रं शिनेर नप्ता धृष्टकेतुस तु पौरवम युधामन्युः सहामात्यं दुर्यॊधनम अयॊधयत ॥ 27 ॥
विराटस तु सहानीकः सहसेनं जयद्रथम वृद्धक्षत्रस्य दायादम आससाद परंतपः ॥ 28 ॥
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः भीमसेनाभिगुप्तश च नागानीकम उपाद्रवत ॥ 29 ॥
अप्रधृष्यम अनावार्यं सर्वशस्त्रभृतां वरम दरॊणं परति ययौ यत्तः पाञ्चाल्यः सह सॊमकैः ॥ 30 ॥
कर्णिकारध्वजं चापि सिंहकेतुर अरिंदमः परत्युज्जगाम सौभद्रं राजपुत्रॊ बृहद्बलः ॥ 31 ॥
शिखण्डिनं च पुत्रास ते पाण्डवं च धनंजयम राजभिः समरे सार्धम अभिपेतुर जिघांसवः ॥ 32 ॥
तस्मिन्न अतिमहाभीमे सेनयॊर वै पराक्रमे संप्रधावत्स्व अनीकेषु मेदिनी समकम्पत ॥ 33 ॥
तान्य अनीकान्य अनीकेषु समसज्जन्त भारत तावकानां परेषां च दृष्ट्वा शांतनवं रणे ॥ 34 ॥
ततस तेषां परयतताम अन्यॊन्यम अभिधावताम परादुरासीन महाञ शब्दॊ दिक्षु सर्वासु भारत ॥ 35 ॥
शङ्खदुन्दुभिघॊषैश च वारणानां च बृंहितैः सिंहनादैश च सैन्यानां दारुणः समपद्यत ॥ 36 ॥
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी परभा वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ 37 ॥
रजॊमेघाश च संजज्ञुः शस्त्रविद्युद्भिर आवृताः धनुषां चैव निर्घॊषॊ दारुणः समपद्यत ॥ 38 ॥
बाणशङ्खप्रणादाश च भेरीणां च महास्वनाः रथगॊषश च संजग्मुः सेनयॊर उभयॊर अपि ॥ 39 ॥
परासशक्त्यृष्टिसंघैश च बाणौघैश च समाकुलम निष्प्रकाशम इवाकाशं सेनयॊः समपद्यत ॥ 40 ॥
अन्यॊन्यं रथिनः पेतुर वाजिनश च महाहवे कुञ्जराः कुञ्जराञ जघ्नुः पदातींश च पदातयः ॥ 41 ॥
तद आसीत सुमहद युद्धं कुरूणां पाण्डवैः सह भीष्महेतॊर नरव्याघ्र शयेनयॊर आमिषे यथा ॥ 42 ॥
तयॊः समागमॊ घॊरॊ बभूव युधि भारत अन्यॊन्यस्य वधार्थाय जिगीषूणां रणाजिरे ॥ 43 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 111
Reach this point to mark the section finished.
Continue to अध्याय 112