धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 110

  1. [स] अर्जुनस तु रणे शल्यं यतमानं महारथम छादयाम आस समरे शरैः संनतपर्वभिः ॥ 1 ॥

  2. सुशर्माणं कृपं चैव तरिभिस तरिभिर अविध्यत पराग्ज्यॊतिषं च समरे सैन्धवं च जयद्रथम ॥ 2 ॥

  3. चित्रसेनं विकर्णं च कृतवर्माणम एव च दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥ 3 ॥

  4. एकैकं तरिभिर आनर्छत कङ्कबर्हिण वाजितैः शरैर अतिरथॊ युद्धे पीडयन वाहिनीं तव ॥ 4 ॥

  5. जयद्रथॊ रणे पार्थं भित्त्वा भारत सायकैः भीमं विव्याध तरसा चित्रसेन रथे सथितः ॥ 5 ॥

  6. शल्यश च समरे जिष्णुं कृपश च रथिनां वरः विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥ 6 ॥

  7. चित्रसेनादयश चैव पुत्रास तव विशां पते पञ्चभिः पञ्चभिस तूर्णं संयुगे निशितैः शरैः आजघ्नुर अर्जुनं संख्ये भीमसेनं च मारिष ॥ 7 ॥

  8. तौ तत्र रथिनां शरेष्ठौ कौन्तेयौ भरतर्षभौ अपीडयेतां समरे तरिगर्तानां महद बलम ॥ 8 ॥

  9. सुशर्मापि रणे पार्थं विद्ध्वा बहुभिर आयसैः ननाद बलवन नादं नादयन वै नभस्तलम ॥ 9 ॥

  10. अन्ये च रथिनः शूरा भीमसेनधनंजयौ विव्यधुर निशितैर बाणै रुक्मपुङ्खैर अजिह्मगैः ॥ 10 ॥

  11. तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ करीडमानौ रथॊदारौ चित्ररूपौ वयरॊचताम आमिषेप्सू गवां मध्ये सिंहाव इव बलॊत्कटौ ॥ 11 ॥

  12. छित्त्वा धनूंषि वीराणां शरांश च बहुधा रणे पातयाम आसतुर वीरौ शिरांसि शतशॊ नृणाम ॥ 12 ॥

  13. रथाश च बहवॊ भग्ना हयाश च शतशॊ हताः गजाश च स गजारॊहाः पेतुर उर्व्यां महामृधे ॥ 13 ॥

  14. रथिनः सादिनश चैव तत्र तत्र निसूदिताः दृश्यन्ते बहुधा राजन वेष्टमानाः समन्ततः ॥ 14 ॥

  15. हतैर गजपदात्य ओघैर वाजिभिश च निसूदितैः रथैश च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ 15 ॥

  16. छत्रैश च बहुधा छिन्नैर धवजैश च विनिपातितैः अङ्कुशैर अपविद्धैश च परिस्तॊमैश च भारत ॥ 16 ॥

  17. केयूरैर अङ्गदैर हारै राङ्कवैर मृदितैस तथा उष्णीषैर अपविद्धैश च चामरव्यजनैर अपि ॥ 17 ॥

  18. तत्र तत्रापविद्धैश च बाहुभिश चन्दनॊक्षितैः ऊरुभिश च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ 18 ॥

  19. तत्राद्भुतम अपश्याम रणे पार्थस्य विक्रमम शरैः संवार्य तान वीरान निजघान बलं तव ॥ 19 ॥

  20. पुत्रस तु तव तं दृष्ट्वा भीमार्जुनसमागमम गाङ्गेयस्य रथाभ्याशम उपजग्मे महाभये ॥ 20 ॥

  21. कृपश च कृतवर्मा च सैन्धवश च जयद्रथः विन्दानुविन्दाव आवन्त्याव आजग्मुः संयुगं तदा ॥ 21 ॥

  22. ततॊ भीमॊ महेष्वासः फल्गुनश च महारथः कौरवाणां चमूं घॊरां भृशं दुद्रुवतू रणे ॥ 22 ॥

  23. ततॊ बर्हिणवाजानाम अयुतान्य अर्बुदानि च धनंजयरथे तूर्णं पातयन्ति सम संयुगे ॥ 23 ॥

  24. ततस ताञ शरजालेन संनिवार्य महारथान पार्थः समन्तात समरे परेषयाम आस मृत्यवे ॥ 24 ॥

  25. शल्यस तु समरे जिष्णुं करीडन्न इव महारथः आजघानॊरसि करुद्धॊ भल्लैः संनतपर्वभिः ॥ 25 ॥

  26. तस्य पार्थॊ धनुश छित्त्वा हस्तावापं च पञ्चभिः अथैनं सायकैस तीक्ष्णैर भृशं विव्याध मर्मणि ॥ 26 ॥

  27. अथान्यद धनुर आदाय समरे भर साधनम मद्रेश्वरॊ रणे जिष्णुं ताडयाम आस रॊषितः ॥ 27 ॥

  28. तरिभिः शरैर महाराज वासुदेवं च पञ्चभिः भीमसेनं च नवभिर बाह्वॊर उरसि चार्पयत ॥ 28 ॥

  29. ततॊ दरॊणॊ महाराज मागधश च महारथः दुर्यॊधन समादिष्टौ तं देशम उपजग्मतुः ॥ 29 ॥

  30. यत्र पार्थॊ महाराज भीमसेनश च पाण्डवः कौरव्यस्य महासेनां जघ्नतुस तौ महारथौ ॥ 30 ॥

  31. जयत्सेनस तु समरे भीमं भीमायुधं युवा विव्याध निशितैर बाणैर अष्टभिर भरतर्षभ ॥ 31 ॥

  32. तं भीमॊ दशभिर विद्ध्वा पुनर विव्याध सप्तभिः सारथिं चास्य भल्लेन रथनीडाद अपाहरत ॥ 32 ॥

  33. उद्भ्रान्तैस तुरगैः सॊ ऽत दरवमाणैः समन्ततः मागधॊ ऽपहृतॊ राजा सर्वसैन्यस्य पश्यतः ॥ 33 ॥

  34. दरॊणस तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः विव्याध बाणैः सुशितैः पञ्चषष्ट्या तम आयसैः ॥ 34 ॥

  35. तं भीमः समरश्लाघी गुरुं पितृसमं रणे विव्याध नवभिर भल्लैस तथा षष्ट्या च भारत ॥ 35 ॥

  36. अर्जुनस तु सुशर्माणं विद्ध्वा बहुभिर आयसैः वयधमत तस्य तत सैन्यं महाभ्राणि यथानिलः ॥ 36 ॥

  37. ततॊ भीष्मश च राजा च सौबलश च बृहद्बलः अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ ॥ 37 ॥

  38. तथैव पाण्डवाः शूरा धृष्टद्युम्नश च पार्षतः अभ्यद्रवन रणे भीष्मं वयादितास्यम इवान्तकम ॥ 38 ॥

  39. शिखण्डी तु समासाद्य भारतानां पितामहम अभ्यद्रवत संहृष्टॊ भयं तयक्त्वा यतव्रतम ॥ 39 ॥

  40. युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम अयॊधयन रणे भीष्मं संहता सह सृञ्जयैः ॥ 40 ॥

  41. तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम शिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे ॥ 41 ॥

  42. ततः परववृते युद्धं कौरवाणां भयावहम तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं परति ॥ 42 ॥

  43. तावकानां रणे भीष्मॊ गलह आसीद विशां पते तत्र हि दयूतम आयातं विजयायेतराय वा ॥ 43 ॥

  44. धृष्टद्युम्नॊ महाराज सर्वसैन्यान्य अचॊदयत अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ॥ 44 ॥

  45. सेनापतिवचः शरुत्वा पाण्डवानां वरूथिनी भीष्मम एवाभ्ययात तूर्णं पराणांस तयक्त्वा महाहवे ॥ 45 ॥

  46. भीष्मॊ ऽपि रथिनां शरेष्ठः परतिजग्राह तां चमूम आपतन्तीं महाराज वेलाम इव महॊदधिः ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 111

Previous: अध्याय 109