[स] भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः विन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः ॥ 1 ॥
चित्रसेनॊ विकर्णश च तथा दुर्मर्षणॊ युवा दशैते तावका यॊधा भीमसेनम अयॊधयन ॥ 2 ॥
महत्या सेनया युक्ता नानादेशसमुत्थया भीष्मस्य समरे राजन परार्थयाना महद यशः ॥ 3 ॥
शल्यस तु नवभिर बाणैर भीमसेनम अताडयत कृतवर्मा तरिभिर बाणैः कृपश च नवभिः शरैः ॥ 4 ॥
चित्रसेनॊ विकर्णश च भगदत्तश च मारिष दशभिर दशभिर भल्लैर भीमसेनम अताडयन ॥ 5 ॥
सैन्धवश च तरिभिर बाणैर जत्रु देशे ऽभयतादयत विन्दानुविन्दाव आवन्त्यौ पञ्चभिः पञ्चभिः शरैः दुर्मर्षणश च विंशत्या पाण्डवं निशितैः शरैः ॥ 6 ॥
स तान सर्वान महाराज भराजमानान पृथक पृथक परवीरान सर्वलॊकस्य धार्तराष्ट्रान महारथान विव्याध बहुभिर बाणैर भीमसेनॊ महाबलः ॥ 7 ॥
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणम अष्टभिः कृपस्य स शरं चापं मध्ये चिच्छेद भारत अथैनं छिन्नधन्वानं पुनर विव्याध पञ्चभिः ॥ 8 ॥
विन्दानुविन्दौ च तथा तरिभिस तरिभिर अताटयत दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥ 9 ॥
विकर्णं दशभिर बाणैः पञ्चभिश च जयद्रथम विद्ध्वा भीमॊ ऽनदद धृष्टः सैन्धवं च पुनस तरिभिः ॥ 10 ॥
अथान्यद धनुर आदाय गौतमॊ रथिनां वरः भीमं विव्याध संरब्धॊ दशभिर निशितैः शरैः ॥ 11 ॥
स विद्धॊ बहुभिर बाणैस तॊत्त्रैर इव महाद्विपः ततः करुद्धॊ महाबाहुर भीमसेनः परतापवान गौतमं ताडयाम आस शरैर बहुभिर आहवे ॥ 12 ॥
सैन्धवस्य तथाश्वांश च सारथिं च तरिभिः शरैः पराहिणॊन मृत्युलॊकाय कालान्तकसमद्युतिः ॥ 13 ॥
हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः शरांश चिक्षेप निशितान भीमसेनस्य संयुगे ॥ 14 ॥
तस्य भीमॊ धनुर्मध्ये दवाभ्यां चिच्छेद भारत भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ 15 ॥
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः चित्रसेनरथं राजन्न आरुरॊह तवरान्वितः ॥ 16 ॥
अत्यद्भुतं रणे कर्मकृतवांस तत्र पाण्डवः महारथाञ शरैर विद्ध्वा वारयित्वा महारथः विरथं सैन्धवं चक्रे सर्वलॊकस्य पश्यतः ॥ 17 ॥
नातीव ममृषे शल्यॊ भीमसेनस्य विक्रमम स संधाय शरांस तीक्ष्णान कर्मार परिमार्जितान भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत ॥ 18 ॥
कृपश च कृतवर्मा च भगदत्तश च मारिष विन्दानुविन्दाव आवन्त्यौ चित्रसेनश च संयुगे ॥ 19 ॥
दुर्मर्षणॊ विकर्णश च सिन्धुराजश च वीर्यवान भीमं ते विव्यधुस तूर्णं शल्य हेतॊर अरिंदमाः ॥ 20 ॥
स तु तान परतिविव्याध पञ्चभिः पञ्चभिः शरैः शल्यं विव्याध सप्तत्या पुनश च दशभिः शरैः ॥ 21 ॥
तं शल्यॊ नवभिर विद्ध्वा पुनर विव्याध पञ्चभिः सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ 22 ॥
विशॊकं वीक्ष्य निर्भिन्नं भीमसेनः परतापवान मद्रराजं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत ॥ 23 ॥
तथेतरान महेष्वासांस तरिभिर तरिभिर अजिह्मगैः ताडयाम आस समरे सिंहवच च ननाद च ॥ 24 ॥
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम तरिभिस तरिभिर अकुण्ठाग्रैर भृशं मर्मस्व अताडयन ॥ 25 ॥
तॊ ऽतिविद्धॊ महेष्वासॊ भीमसेनॊ न विव्यथे पर्वतॊ वारिधाराभिर वर्षमाणैर इवाम्बुदैः ॥ 26 ॥
शल्यं च नवभिर बाणैर भृशं विद्ध्वा महायशाः पराग्ज्यॊतिषं शतेनाजौ राजन विव्याध वै दृढम ॥ 27 ॥
ततस तु स शरं चापं सात्वतस्य महात्मनः कषुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत ॥ 28 ॥
अथान्यद धनुर आदाय कृतवर्मा वृकॊदरम आजघान भरुवॊर मध्ये नाराचेन परंतप ॥ 29 ॥
भीमस तु समरे विद्ध्वा शल्यं नवभिर आयसैः भगदत्तं तरिभिश चैव कृतवर्माणम अष्टभिः ॥ 30 ॥
दवाभ्यां दवाभ्यां च विव्याध गौतमप्रभृतीन रथान ते तु तं समरे राजन विव्यधुर निशितैः शरैः ॥ 31 ॥
स तथा पीड्यमानॊ ऽपि सर्वतस तैर महारथैः मत्वा तृणेन तांस तुल्यान विचचार गतव्यथः ॥ 32 ॥
ते चापि रथिनां शरेष्ठा भीमाय निशिताञ शरान परेषयाम आसुर अव्यग्राः शतशॊ ऽथ सहस्रशः ॥ 33 ॥
तस्य शक्तिं महावेगं भगदत्तॊ महारथः चिक्षेप समरे वीरः सवर्णदण्डां महाधनाम ॥ 34 ॥
तॊमरं सैन्धवॊ राजा पट्टिषं च महाभुवः शतघ्नीं च कृपॊ राजञ शरं शल्यश च संयुगे ॥ 35 ॥
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान भीमसेनं समुद्दिश्य परेषयाम आसुर ओजसा ॥ 36 ॥
तॊमरं स दविधा चक्रे कषुरप्रेणानिलात्मजः पट्टिशं च तरिभिर बाणैश चिच्छेद तिलकाण्डवत ॥ 37 ॥
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥ 38 ॥
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे तथेतराञ शरान घॊराञ शरैः संनतपर्वभिः ॥ 39 ॥
भीमसेनॊ रणश्लाघी तरिधैकैकं समाच्छिनत तांश च सर्वान महेष्वासांस तरिभिस तरिभिर अताडयत ॥ 40 ॥
ततॊ धनंजयस तत्र वर्तमाने महारणे जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम निघ्नन्तं समरे शत्रून यॊधयानं च सायकैः ॥ 41 ॥
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ नाशशंसुर जयं तत्र तावकाः पुरुषर्षभ ॥ 42 ॥
अथार्जुनॊ रणे भीष्मं यॊधयन वै महारथम भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम ॥ 43 ॥
आससाद रणे यॊधांस तावकान दश भारत ये सम भीमं रणे राजन यॊधयन्तॊ वयवस्थिताः बीभत्सुस तान अथाविध्यद भीमस्य परियकाम्यया ॥ 44 ॥
ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत अर्जुनस्य वधार्थाय भीमसेनस्य चॊभयॊः ॥ 45 ॥
सुशर्मन गच्छ शीघ्रं तवं बलौघैः परिवारितः जहि पाण्डुसुताव एतौ धनंजय वृकॊदरौ ॥ 46 ॥
तच छरुत्वा शासनं तस्य तरिगर्तः परस्थलाधिपः अभिद्रुत्य रणे भीमम अर्जुनं चैव धन्विनौ ॥ 47 ॥
रथैर अनेकसाहस्रैः परिवव्रे समन्ततः ततः परववृते युद्धम अर्जुनस्य परैः सह ॥ 48 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 109
Reach this point to mark the section finished.
Continue to अध्याय 110