[स] अथ वीरॊ महेष्वासॊ मत्तवारणविक्रमः समादाय महच चापं मत्तवारणवारणम ॥ 1 ॥
विधुन्वानॊ धनुःश्रेष्ठं दरावयाणॊ महारथान पृतनां पाण्डवेयानां पातयानॊ महारथः ॥ 2 ॥
निमित्तानि निमित्तज्ञः सर्वतॊ वीक्ष्य वीर्यवान परतपन्तम अनीकानि दरॊणः पुत्रम अभाषत ॥ 3 ॥
अयं स दिवसस तात यत्र पार्थॊ महारथः जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ 4 ॥
उत्पतन्ति हि मे बाणा धनुः परस्फुरतीव मे यॊगम अस्ताणि गच्छन्ति करूरे मे वर्तते मतिः ॥ 5 ॥
दिक्षु शान्तासु घॊराणि वयाहरन्ति मृगद्विजाः नीचैर गृध्रा निलीयन्ते भारतानां चमूं परति ॥ 6 ॥
नष्टप्रभ इवादित्यः सर्वतॊ लॊहिता दिशः रसते वयथते भूमिर अनुष्टनति वाहनम ॥ 7 ॥
कङ्का गृध्रा बलाकाश च वयाहरन्ति मुहुर मुहुः शिवाश चाशिव निर्घॊषा वेदयन्त्यॊ महद भयम ॥ 8 ॥
पपात महती चॊक्ला मध्येनादित्य मण्डलात स कबन्धश च परिघॊ भानुम आवृत्य तिष्ठति ॥ 9 ॥
परिवेषस तथा घॊरश चन्द्रभास्करयॊर अभूत वेदयानॊ भयं घॊरं राज्ञां देहावकर्तनम ॥ 10 ॥
देवतायतनस्थाश च कौरवेन्द्रस्य देवताः कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ 11 ॥
अपसव्यं गरहाश चक्रुर अलक्ष्माणं निशाकरम अवाक्शिराश च भगवान उदतिष्ठत चन्द्रमाः ॥ 12 ॥
वपूंषि च नरेन्द्राणां विगतानीव लक्षये धार्तराष्ट्रस्य सैन्येषु न च भराजन्ति दंशितः ॥ 13 ॥
सेनयॊर उभयॊश चैव समन्ताच छरूयते महान पाञ्चजन्यस्य निर्घॊषॊ गाण्डीवस्य च निस्वनः ॥ 14 ॥
धरुवम आस्थाय बीभत्सुर उत्तमास्त्राणि संयुगे अपास्यान्यान रणे यॊधान अभ्यस्यति पितामहम ॥ 15 ॥
हृष्यन्ति रॊमकूपानि सीदतीव च मे मनः चिन्तयित्वा महाबाहॊ भीष्मार्जुनसमागमम ॥ 16 ॥
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम पुरस्कृत्य रणे पार्थॊ भीष्मस्यायॊधनं गतः ॥ 17 ॥
अब्रवीच च पुरा भीष्मॊ नाहं हन्यां शिखण्डिनम सत्री हय एषा विहिता धात्रा दैवाच च स पुनः पुमान ॥ 18 ॥
अमङ्गल्यध्वजश चैव याज्ञसेनिर महारथः न चामङ्गल केतॊः स परहरेद आपगा सुतः ॥ 19 ॥
एतद विचिन्तयानस्य परज्ञा सीदति मे भृशम अद्यैव तु रणे पार्थः कुरुवृद्धम उपाद्रवत ॥ 20 ॥
युधिष्ठिरस्य च करॊधॊ भीष्मार्जुनसमागमः मम चास्त्राभिसंरम्भः परजानाम अशुभं धरुवम ॥ 21 ॥
मनस्वी बलवाञ शूरः कृतास्त्रॊ दृढविक्रमः दूरपाती दृढेषुश च निमित्तज्ञश च पाण्डवः ॥ 22 ॥
अजेयः समरे चैव देवैर अपि स वासवैः बलवान बुद्धिमांश चैव जितक्लेशॊ युधां वरः ॥ 23 ॥
विजयी च रणे नित्यं भैरवास्त्रश च पाण्डवः तस्य मार्गं परिहरन दरुतं गच्छ यतव्रतम ॥ 24 ॥
पश्य चैतन महाबाहॊ वैशसं समुपस्थितम हेमचित्राणि शूराणां महान्ति च शुभानि च ॥ 25 ॥
कवचान्य अवदीर्यन्ते शरैः संनतपर्वभिः छिद्यन्ते च धवजाग्राणि तॊमराणि धनूंषि च ॥ 26 ॥
परासाश च विमलास तीक्ष्णाः शक्त्यश च कनकॊज्ज्वलाः वैजयन्त्यश च नागानां संक्रुद्धेन किरीटिना ॥ 27 ॥
नायं संरक्षितुं कालः पराणान पुत्रॊपजीविभिः याहि सवर्गं पुरस्कृत्य यशसे विजयाय च ॥ 28 ॥
हयनागरथावर्तां महाघॊरां सुदुस्तराम रथेन संग्रामनदीं तरत्य एष कपिध्वजः ॥ 29 ॥
बरह्मण्यता दमॊ दानं तपश च चरितं महत इहैव दृश्यते राज्ञॊ भराता यस्य धनंजयः ॥ 30 ॥
भीमसेनश च बलवान माद्रीपुत्रौ च पाण्डवौ वासुदेवश च वार्ष्णेयॊ यस्य नाथॊ वयवस्थितः ॥ 31 ॥
तस्यैष मन्युप्रभवॊ धार्तराष्ट्रस्य दुर्मतेः तपॊ दग्धशरीरस्य कॊपॊ दहति भारतान ॥ 32 ॥
एष संदृश्यते पार्थॊ वासुदेव वयपाश्रयः दारयन सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ 33 ॥
एतद आलॊक्यते सैन्यं कषॊभ्यमाणं किरीटिना महॊर्मिनद्धं सुमहत तिमिनेव नदी मुखम ॥ 34 ॥
हाहा किल किला शब्दाः शरूयन्ते च चमूमुखे याहि पाञ्चाल दायादम अहं यास्ये युधिष्ठिरम ॥ 35 ॥
दुर्लभं हय अन्तरं राज्ञॊ वयूहस्यामित तेजसः समुद्रकुक्षिपतिमं सर्वतॊ ऽतिरथैः सथितैः ॥ 36 ॥
सात्यकिश चाभिमन्युश च धृष्टद्युम्नवृकॊदरौ परिरक्षन्ति राजानं यमौ च मनुजेश्वरम ॥ 37 ॥
उपेन्द्र सदृशः शयामॊ महाशाल इवॊद्गतः एष गच्छत्य अनीकानि दवितीय इव फल्गुनः ॥ 38 ॥
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन महद धनुः पार्श्वतॊ याहि राजानं युध्यस्व च वृकॊदरम ॥ 39 ॥
कॊ हि नेच्छेत परियं पुत्रं जीवन्तं शाश्वतीः समाः कषत्रधर्मं पुरस्कृत्य ततस तवा विनियुज्महे ॥ 40 ॥
एष चापि रणे भीष्मॊ दहते वै महाचमूम युद्धे सुसदृशस तात यमस्य वरुणस्य च ॥ 41 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 108
Reach this point to mark the section finished.
Continue to अध्याय 109