[स] सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा आर्श्यशृङ्गिर महेष्वासॊ वारयाम आस संयुगे ॥ 1 ॥
माधवस तु सुसंक्रुद्धॊ राक्षसं नवभिः शरैः आजघान रणे राजन परहसन्न इव भारत ॥ 2 ॥
तथैव राक्षसॊ राजन माधवं निशितैः शरैः अर्दयाम आस राजेन्द्र संक्रुद्धः शिनिपुंगवम ॥ 3 ॥
शैनेयः शरसंघं तु परेषयाम आस संयुगे राक्षसाय सुसंक्रुद्धॊ माधवः परि वीरहा ॥ 4 ॥
ततॊ रक्षॊ महाबाहुं सात्यक्तिं सत्यविक्रमम विव्याध विशिखैर तीक्ष्णैः सिंहनादं ननाद च ॥ 5 ॥
माधवस तु भृशं विद्धॊ राक्षसेन रणे तदा धैर्यम आलम्ब्य तेजस्वी जहास च ननाद च ॥ 6 ॥
भगदत्तस ततः करुद्धॊ माधवं निशितैः शरैः ताडयाम आस समरे तॊत्त्रैर इव महागजम ॥ 7 ॥
विहाय राक्षसं युद्धे शैनेयॊ रथिनां वरः पराग्ज्यॊतिषाय चिक्षेप शरान संनतपर्वणः ॥ 8 ॥
तस्य पराग्ज्यॊतिषॊ राजा माधवस्य महद धनुः चिच्छेद शितधारेण भल्लेन हृतहस्तवत ॥ 9 ॥
अथान्यद धनुर आदाय वेगवत परवीरहा भगदत्तं रणे करुद्धॊ विव्याध निशितैः शरैः ॥ 10 ॥
सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी संलिहन मुहुः शक्तिं कनकवैडूर्य भूषिताम आयसी दृढाम यमदण्डॊपमां घॊरां पराहिणॊत सात्यकाय वै ॥ 11 ॥
ताम आपतन्तां सहसा तस्य बाहॊर बलेरिताम सात्यकिः समरे राजंस तरिधा चिच्छेद सायकैः सा पपात तदा भूमौ महॊल्केव हतप्रभा ॥ 12 ॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते महता रथवंशेन वारयाम आस माधवम ॥ 13 ॥
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम दुर्यॊधनॊ भृशं हृष्टॊ भरातॄन सर्वान उवाच ह ॥ 14 ॥
तथा कुरुत कौरव्या यथा वः सात्यकॊ युधि न जीवन परतिनिर्याति महतॊ ऽसमाद रथव्रजात अस्मिन हते हतं मन्ये पाण्डवानां महद बलम ॥ 15 ॥
तत तथेति वचस तस्य परिगृह्य महारथाः शैनेयं यॊधयाम आसुर भीष्मस्य परमुखे तदा ॥ 16 ॥
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे काम्बॊजराजॊ बलवान वारयाम आस संयुगे ॥ 17 ॥
आर्जुनिर नृपतिं विद्ध्वा शैरः संनतपर्वभिः पुनर एव चतुःषष्ट्या राजन विव्याध तं नृपम ॥ 18 ॥
सुदक्षिणस तु समरे कार्ष्णिं विव्याध पञ्चभिः सारथिं चास्य नवभिर इच्छन भीष्मस्य जीवितम ॥ 19 ॥
तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे यद अभ्यधावद गाङ्गेयं शिखण्डी शत्रुतापनः ॥ 20 ॥
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम भीष्मं च युधि संरब्धाव आद्रवन्तौ महारथौ ॥ 21 ॥
अश्वत्थामा ततः करुद्धः समायाद रथसत्तमः ततः परववृते युद्धं तव तेषां च भारत ॥ 22 ॥
विराटॊ दशभिर भल्लैर आजघान परंतप यतमानं महेष्वासं दरौणिम आहवशॊभिनम ॥ 23 ॥
दरुपदश च तरिभिर बाणैर विव्याध निशितैस तथा गुरुपुत्रं समासाद्य भीष्मस्य पुरतः सथितम ॥ 24 ॥
अश्वत्थामा ततस तौ तु विव्याध दशभिः शरैः विराटद्रुपदौ वृद्धौ भीष्मं परति समुद्यतौ ॥ 25 ॥
तत्राद्भुतम अपश्याम वृद्धयॊश चरितं महत यद दरौणेः सायकान घॊरान परत्यवारयतां युधि ॥ 26 ॥
सहदेवं तथा यान्तं कृपः शारद्वतॊ ऽभययात यथा नागॊ वने नागं मत्तॊ मत्तम उपाद्रवत ॥ 27 ॥
कृपश च समरे राजन माद्रीपुत्रं महारथम आजघान शरैस तूर्णं सप्तत्या रुक्मभूषणैः ॥ 28 ॥
तस्य माद्री सुतश चापं दविधा चिच्छेद सायकैः अथैनं चिन्न धन्वानं विव्याध नवभिः शरैः ॥ 29 ॥
सॊ ऽनयत कार्मुकम आदाय समरे भारसाधनम माद्रीपुत्रं सुसंहृष्टॊ दशभिर निशितैः शरैः आजघानॊरसि करुद्ध इच्छन भीष्मस्य जीवितम ॥ 30 ॥
तथैव पाण्डवॊ राजञ शारद्वतम अमर्षणम आजघानॊरसि करुद्धॊ भीष्मस्य वधकाङ्क्षया तयॊर युद्धं समभवद घॊररूपं भयावहम ॥ 31 ॥
नकुलं तु रणे करुद्धं विकर्णः शत्रुतापनः विव्याध सायकैः षष्ट्या रक्षन भीष्मस्य जीवितम ॥ 32 ॥
नकुलॊ ऽपि भृशं विद्धस तव पुत्रेण धन्विना विकर्णं सप्त सप्तत्या निर्बिभेद शिलीमुखैः ॥ 33 ॥
तत्र तौ नरशार्दूलौ गॊष्ठे गॊवृषभाव इव अन्यॊन्यं जघ्नतुर वीरौ गॊष्ठे गॊवृषभाव इव ॥ 34 ॥
घटॊत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम दुर्मुखः समरे परायाद भीष्महेतॊः पराक्रमी ॥ 35 ॥
हैडिम्बस तु ततॊ राजन दुर्मुखं शत्रुतापनम आजघानॊरसि करुद्धॊ नवत्या निशितैः शरैः ॥ 36 ॥
भीमसेन सुतं चापि दुर्मुखः सुमुखैः शरैः षष्ट्या वीरॊ नदन हृष्टॊ विव्याध रणमूर्धनि ॥ 37 ॥
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम हार्दिक्यॊ वारयाम आस रक्षन भीष्मस्य जीवितम ॥ 38 ॥
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिर आयसैः पुनः पञ्चाशता तूर्णम आजघान सतनान्तरे ॥ 39 ॥
तथैव पार्षतॊ राजन हार्दिक्यं नवभिः शरैः विव्याध निशितैस तीक्ष्णैः कङ्कपत्र परिच्छदैः ॥ 40 ॥
तयॊः समभवद युद्धं भीष्महेतॊर महारणे अन्यॊन्यातिशयैर युक्तं यथा वृत्र महेन्द्रयॊः ॥ 41 ॥
भीमसेनम अथायान्तं भीष्मं परति महाबलम भूरिश्रवाभ्ययात तूर्णं तिष्ठ तिष्ठेति चाब्रवीत ॥ 42 ॥
सौमदत्तिर अथॊ भीमम आजघान सतनान्तरे नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥ 43 ॥
उरःस्थेन बभौ तेन भीमसेनः परतापवान सकन्द शक्त्या यथा करौञ्चः पुरा नृपतिसत्तम ॥ 44 ॥
तौ शरान सूर्यसंकाशान कर्मार परिमार्जितान अन्यॊन्यस्य रणे करुद्धौ चिक्षिपाते मुहुर मुहुः ॥ 45 ॥
भीमॊ भीष्म वधाकान्ष्की सौमदत्तिं महारथम तथा भीष्म जये गृध्नुः सौमदत्तिश च पाण्डवम कृतप्रतिकृते यत्तौ यॊधयाम आसतू रणे ॥ 46 ॥
युधिष्ठिरं महाराज महत्या सेनया वृतम भीष्मायाभिमुखं यान्तं भारद्वाजॊ नयवारयत ॥ 47 ॥
दरॊणस्य रथनिर्घॊषं पर्जन्यनिनदॊपमम शरुत्वा परभद्रका राजन समकम्पन्त मारिष ॥ 48 ॥
सा सेना महती राजन पाण्डुपुत्रस्य संयुगे दरॊणेन वारिता यत्ता न चचाल पदात पदम ॥ 49 ॥
चेकितानं रणे करुद्धं भीष्मं परति जनेश्वर चित्रसेनस तव सुतः करुद्ध रूपम अवारयत ॥ 50 ॥
भीष्महेतॊः पराक्रान्तश चित्रसेनॊ महारथः चेकितानं परं शक्त्या यॊधयाम आस भारत ॥ 51 ॥
तथैव चेकितानॊ ऽपि चित्रसेनम अयॊधयत तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे ॥ 52 ॥
अर्जुनॊ वार्यमाणस तु बहुशस तनयेन ते विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥ 53 ॥
दुःशासनॊ ऽपि परया शक्त्या पार्थम अवारयत कथं भीष्मं परॊ हन्याद इति निश्चित्य भारत ॥ 54 ॥
सा वध्यमाना समरे पुत्रस्य तव वाहिनी लॊड्यते रथिभिः शरेष्ठैस तत्र तत्रैव भारत ॥ 55 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 107
Reach this point to mark the section finished.
Continue to अध्याय 108