[स] अर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम शिखण्डिनम अथॊवाच समभ्येहि पितामहम ॥ 1 ॥
न चापि भीस तवया कार्या भीष्माद अद्य कथं चन अहम एनं शरैस तीक्ष्णैः पातयिष्ये रथॊत्तमात ॥ 2 ॥
एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ अभ्यद्रवत गाङ्गेयं शरुत्वा पार्थस्य भाषितम ॥ 3 ॥
धृष्टद्युम्नस तथा राजन सौभद्रश च महारथः हृष्टाव आद्रवतां भीष्मं शरुत्वा पार्थस्य भाषितम ॥ 4 ॥
विराटद्रुपदौ वृद्धौ कुन्तिभॊजश च दंशितः अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥ 5 ॥
नकुलः सहदेवश च धर्मराजश च वीर्यवान तथेतराणि सैन्यानि सर्वाण्य एव विशां पते समाद्रवन्त गाङ्गेयं शरुत्वा पार्थस्य भाषितम ॥ 6 ॥
परत्युद्ययुस तावकाश च समेतास तान महारथान यथाशक्ति यथॊत्साहं तन मे निगदतः शृणु ॥ 7 ॥
चित्रसेनॊ महाराज चेकितानं समभ्ययात भीष्म परेप्सुं रणे यान्तं वृषं वयाघ्रशिशुर यथा ॥ 8 ॥
धृष्टद्युम्नं महाराज भीष्मान्तिकम उपागमम तवरमाणॊ रणे यत्तं कृतवर्मा नयवारयत ॥ 9 ॥
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम तवरमाणॊ महाराज सौमदत्तिर नयवारयत ॥ 10 ॥
तथैव नकुलं वीरं किरन्तं सायकान बहून विकर्णॊ वारयाम आस इच्छन भीष्मस्य जीवितम ॥ 11 ॥
सहदेवं तथा यान्तं यत्तं भीष्मरथं परति वारयाम आस संक्रुद्धः कृपः शारद्वतॊ युधि ॥ 12 ॥
राक्षसं करूरकर्माणं भैमसेनिं महाबलम भीष्मस्य निधनं परेप्सुं दुर्मुखॊ ऽभयद्रवद बली ॥ 13 ॥
सात्यकिं समरे करुद्धम आर्श्यशृङ्गिर अवारयत अभिमन्युं महाराज यान्तं भीष्मरथं परति सुदक्षिणॊ महाराज काम्बॊजः परत्यवारयत ॥ 14 ॥
विराटद्रुपदौ वृद्धौ समेताव अरिमर्दनौ अश्वत्थामा ततः करुद्धॊ वारयाम आस भारत ॥ 15 ॥
तथा पाण्डुसुतं जयेष्ठं भीष्मस्य वधकाङ्क्षिणम भारद्वाजॊ रणे यत्तॊ धर्मपुत्रम अवारयत ॥ 16 ॥
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम भीष्म परेप्सुं महाराज तापयन्तं दिशॊ दश दुःशासनॊ महेष्वासॊ वारयाम आस संयुगे ॥ 17 ॥
अन्ये च तावका यॊधाः पाण्डवानां महारथान भीष्मायाभिमुखं यातान वारयाम आसुर आहवे ॥ 18 ॥
धृष्टद्युम्नस तु सैन्यानि पराक्रॊशत पुनः पुनः अभिद्रवत संरब्धा भीष्मम एकं महाबलम ॥ 19 ॥
एषॊ ऽरजुनॊ रणे भीष्मं परयाति कुरुनन्दनः अभिद्रवत मा भैष्ट भीष्मॊ न पराप्स्यते हि वः ॥ 20 ॥
अर्जुनं समरे यॊद्धुं नॊत्सहेतापि वासवः किम उ भीष्मॊ रणे वीरा गतसत्त्वॊ ऽलपजीवितः ॥ 21 ॥
इति सेनापतेः शरुत्वा पाण्डवानां महारथाः अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं परति ॥ 22 ॥
आगच्छतस तान समरे वार्यॊघान परबलान इव नयवारयन्त संहृष्टास तावकाः पुरुषर्षभाः ॥ 23 ॥
दुःशासनॊ महाराज भयं तयक्त्वा महारथः भीष्मस्य जीविताकाङ्क्षी धनंजयम उपाद्रवत ॥ 24 ॥
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं परति अभ्यद्रवन्त संग्रामे तव पुत्रान महारथान ॥ 25 ॥
तत्राद्भुतम अपश्याम चित्ररूपं विशां पते दुःशासन रथं पराप्तॊ यत पार्थॊ नात्यवर्तत ॥ 26 ॥
यथा वारयते वेला कषुभितं वै महार्णवम तथैव पाण्डवं करुद्धं तव पुत्रॊ नयवारयत ॥ 27 ॥
उभौ हि रथिनां शरेष्ठाव उभौ भारत दुर्जयौ उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ॥ 28 ॥
तौ तथा जातसंरम्भाव अन्यॊन्यवधकाङ्क्षिणौ समीयतुर महासंख्ये मय शक्रौ यथा पुरा ॥ 29 ॥
दुःशासनॊ महाराज पाण्डवं विशिखैस तरिभिः वासुदेवं च विंशत्या ताडयाम आस संयुगे ॥ 30 ॥
ततॊ ऽरजुनॊ शतेनाजौ नाराचानां समार्पयत ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे ॥ 31 ॥
दुःशासनस ततः करुद्धः पार्थं विव्याध पञ्चभिः ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ॥ 32 ॥
ललटस्थैस तु तैर बाणैः शुशुभे पाण्डवॊत्तमः यथा मेरुर महाराज शृङ्गैर अत्यर्थम उच्छ्रितैः ॥ 33 ॥
सॊ ऽतिविद्धॊ महेष्वासः पुत्रेण तव धन्विना वयराजत रणे पार्थः किंशुकः पुष्पवान इव ॥ 34 ॥
दुःशासनं ततः करुद्धः पीडयाम आस पाण्डवः पर्वणीव सुसंक्रुद्धॊ राहुर उग्रॊ निशाकरम ॥ 35 ॥
पीड्यमानॊ बलवता पुत्रस तव विशां पते विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ 36 ॥
तस्य पार्थॊ धनुश छित्त्वा तवरमाणः पराक्रमी आजघान ततः पश्चात पुत्रं ते नवभिः शरैः ॥ 37 ॥
सॊ ऽनयत कार्मुकम आदाय भीष्मस्य परमुखे सथितः अर्जुनं पञ्चविंशत्या बाह्वॊर उरसि चार्पयत ॥ 38 ॥
तस्य करुद्धॊ महाराज पाण्डवः शत्रुकर्शनः अप्रैषीद विशिखान घॊरान यमदण्डॊपमान बहून ॥ 39 ॥
अप्राप्तान एव तान बाणांश चिच्छेद तनयस तव यतमानस्य पार्थस्य तद अद्भुतम इवाभवत पार्थं च निशितैर बाणैर अविध्यत तनयस तव ॥ 40 ॥
ततः करुद्धॊ रणे पार्थः शरान संधाय कार्मुके परेषयाम आस समरे सवर्णपुङ्खाञ शिलाशितान ॥ 41 ॥
नयमज्जंस ते महाराज तस्य काये महात्मनः यथा हंसा महाराज तडागं पराप्य भारत ॥ 42 ॥
पीडितश चैव पुत्रस ते पाण्डवेन महात्मना हित्वा पार्थं रणे तूर्णं भीष्मस्य रथम आश्रयत अगाधे मज्जतस तस्य दवीपॊ भीष्मॊ ऽभवत तदा ॥ 43 ॥
परतिलभ्य ततः संज्ञां पुत्रस तव विशां पते अवारयत ततः शूरॊ भूय एव पराक्रमी ॥ 44 ॥
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम निर्बिभेद महावीर्यॊ विव्यथे नैव चार्जुनात ॥ 45 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 106
Reach this point to mark the section finished.
Continue to अध्याय 107