धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 105

  1. [धृ] कथं शिखण्डी गाङ्गेयम अभ्यधावत पितामहम पाञ्चाल्यः समरे करुद्धॊ धर्मात्मानं यतव्रतम ॥ 1 ॥

  2. के ऽरक्षन पाण्डवानीके शिखण्डिनम उदायुधम तवरमाणास तवरा काले जिगीषन्तॊ महारथाः ॥ 2 ॥

  3. कथं शांतनवॊ भीष्मः स तस्मिन दमशे ऽहनि अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥ 3 ॥

  4. न मृष्यामि रणे भीष्मं परत्युद्यातं शिखण्डिनम कच चिन न रथभङ्गॊ ऽसय धनुर वाशीर्यतास्यतः ॥ 4 ॥

  5. [स] नाशीर्यत धनुस तस्य रथभङ्गॊ नचाप्य अभूत युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ निघ्नतः समरे शत्रूञ शरैः संनतपर्वभिः ॥ 5 ॥

  6. अनेकशतसाहस्रास तावकानां महारथाः रथदन्ति गणा राजन हयाश चैव सुसज्जिताः अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम ॥ 6 ॥

  7. यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः पार्थानाम अकरॊद भीष्मः सततं समितिक्षयम ॥ 7 ॥

  8. युध्यमानं महेष्वासं विनिघ्नन्तं पराञ शरैः पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन ॥ 8 ॥

  9. दशमे ऽहनि संप्राप्ते तताप रिपुवाहिनीम कीर्यमाणां शितैर बाणैः शतशॊ ऽथ सहस्रशः ॥ 9 ॥

  10. न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज अशक्नुवन रणे जेतुं पाशहस्तम इवान्तकम ॥ 10 ॥

  11. अथॊपायान महाराज सव्यसाची परंतपः तरासयन रथिनः सर्वान बीभत्सुर अपराजितः ॥ 11 ॥

  12. सिन्हवद विनदन्न उच्चैर धनुर्ज्यां विक्षिपन मुहुः शरौघान विसृजन पार्थॊ वयचरत कालवद रणे ॥ 12 ॥

  13. तस्य शब्देन वित्रस्तास तावका भरतर्षभ सिंहस्येव मृगा राजन वयद्रवन्त महाभयात ॥ 13 ॥

  14. जयन्तं पाण्डवं दृष्ट्वा तवत सैन्यं चाभिपीडितम दुर्यॊधनस ततॊ भीष्मम अब्रवीद भृशपीडितः ॥ 14 ॥

  15. एष पाण्डुर उतस तात शवेताश्वः कृष्णसारथिः दहते मामकान सर्वान कृष्ण वर्त्मेव काननम ॥ 15 ॥

  16. पश्य सैन्यानि गाङ्गेय दरवमाणानि सर्वशः पाण्डवेन युधां शरेष्ठ काल्यमानानि संयुगे ॥ 16 ॥

  17. यथा पशुगणान आलः संकालयति कानने तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ 17 ॥

  18. धनंजय शरैर भग्नं दरवमाणम इतस ततः भीमॊ हय एष दुराधर्षॊ विद्रावयति मे बलम ॥ 18 ॥

  19. सात्यकिश चेकितानश च माद्रीपुत्रौ च पाण्डवौ अभिमन्युश च विक्रान्तॊ वाहिनीं दहते मम ॥ 19 ॥

  20. धृष्टद्युम्नस तथा शूरॊ राक्षसश च घटॊत्कचः वयद्रावयेतां सहसा सैन्यं मम महाबलौ ॥ 20 ॥

  21. वध्यमानस्य सैन्यस्य सर्वैर एतैर महाबलैः नान्यां गतिं परपश्यामि सथाने युद्धे च भारत ॥ 21 ॥

  22. ऋते तवां पुरुषव्याघ्र देवतुल्यपराक्रम पर्याप्तश च भवान कषिप्रं पीडितानां गतिर भव ॥ 22 ॥

  23. एवम उक्तॊ महाराज पिता देवव्रतस तव चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयम आत्मनः तव संधरयन पुत्रम अब्रवीच छंतनॊः सुतः ॥ 23 ॥

  24. दुर्यॊधन विजानीहि सथिरॊ भव विशां पते पूर्वकालं तव मया परतिज्ञातं महाबल ॥ 24 ॥

  25. हत्वा दशसहस्राणि कषत्रियाणां महात्मनाम संग्रामाद वयपयातव्यम एतत कर्म ममाह्निकम इति तत कृतवांश चाहं यथॊक्तं भरतर्षभ ॥ 25 ॥

  26. अद्य चापि महत कर्म परकरिष्ये महाहवे अहं वा निहतः शिष्ये हनिष्ये वाद्य पाण्डवान ॥ 26 ॥

  27. अद्य ते पुरुषव्याघ्र परतिमॊक्ष्ये ऋणं महत भर्तृपिण्ड कृतं राजन निहतः पृतना मुखे ॥ 27 ॥

  28. इत्य उक्त्वा भरतश्रेष्ठः कषत्रियान परतपञ शरैः आससाद दुराधर्षः पाण्डवानाम अनीकिनीम ॥ 28 ॥

  29. अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ आशीविषम इव करुद्धं पाण्डवाः पर्यवारयन ॥ 29 ॥

  30. दशमे ऽहनि तस्मिंस तु दर्शयञ शक्तिम आत्मनः राजञ शतसहस्राणि सॊ ऽवधीत कुरुनन्दन ॥ 30 ॥

  31. पञ्चालानां च ये शरेष्ठा राजपुत्रा महाबलाः तेषाम आदत्त तेजांसि जलं सूर्य इवांशुभिः ॥ 31 ॥

  32. हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम सारॊहणां महाराज हयानां चायुतं पुनः ॥ 32 ॥

  33. पूर्णे शतसहस्रे दवे पदातीनां नरॊत्तमः परजज्वाल रणे भीष्मॊ विधूम इव पावकः ॥ 33 ॥

  34. न चैनं पाण्डवेयानां के चिच छेकुर निरीक्षितुम उत्तरं मार्गम आस्थाय तपन्तम इव भास्करम ॥ 34 ॥

  35. ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः वधायाभ्यद्रवन भीष्मं सृञ्जयाश च महारथाः ॥ 35 ॥

  36. स युध्यमानॊ बहुभिर भीष्मः शांतनवस तदा अवकीर्णॊ महाबाहुः शैलॊ मेघैर इवासितैः ॥ 36 ॥

  37. पुत्रास तु तव गाङ्गेयं समन्तात पर्यवारयन महत्या सेनया सार्धं ततॊ युद्धम अवर्तत ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 106

Previous: अध्याय 104