संजय उवाच युध्यताम एव तेषां तु भास्करे ऽसतम उपागते संध्या समभवद घॊरा नापश्याम ततॊ रणम ॥ 1 ॥
ततॊ युधिष्ठिरॊ राजा संध्यां संदृश्य भारत वध्यमानं बलं चापि भीष्मेणामित्रघातिना ॥ 2 ॥
मुक्तशस्त्रं परावृत्तं पलायनपरायणम भीष्मं च युधि संरब्धम अनुयान्तं महारथान ॥ 3 ॥
सॊमकांश च जितान दृष्ट्वा निरुत्साहान महारथान चिन्तयित्वा चिरं धयात्वा अवहारम अरॊचयत ॥ 4 ॥
ततॊ ऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः तथैव तव सैन्यानाम अवहारॊ हय अभूत तदा ॥ 5 ॥
ततॊ ऽवहारं सैन्यानां कृत्वा तत्र महारथाः नयविशन्त कुरुश्रेष्ठ संग्रामे कषतविक्षताः ॥ 6 ॥
भीष्मस्य समरे कर्म चिन्तयानास तु पाण्डवाः नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ॥ 7 ॥
भीष्मॊ ऽपि समरे जित्वा पाण्डवान सह सृञ्जयैः पूज्यमानस तव सुतैर वन्द्यमानश च भारत ॥ 8 ॥
नयविशत कुरुभिः सार्धं हृष्टरूपैः समन्ततः ततॊ रात्रिः समभवत सर्वभूतप्रमॊहिनी ॥ 9 ॥
तस्मिन रात्रिमुखे घॊरे पाण्डवा वृष्णिभिः सह सृञ्जयाश च दुराधर्षा मन्त्राय समुपाविशन ॥ 10 ॥
आत्मनिःश्रेयसं सर्वे पराप्तकालं महाबलाः मन्त्रयाम आसुर अव्यग्रा मन्त्रनिश्चयकॊविदाः ॥ 11 ॥
ततॊ युधिष्ठिरॊ राजा मन्त्रयित्वा चिरं नृप वासुदेवं समुद्वीक्ष्य वाक्यम एतद उवाच ह ॥ 12 ॥
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम गजं नलवनानीव विमृद्नन्तं बलं मम ॥ 13 ॥
न चैवैनं महात्मानम उत्सहामॊ निरीक्षितुम लेलिह्यमानं सैन्येषु परवृद्धम इव पावकम ॥ 14 ॥
यथा घॊरॊ महानागस तक्षकॊ वै विषॊल्बणः तथा भीष्मॊ रणे कृष्ण तीष्क्णशस्त्रः परतापवान ॥ 15 ॥
गृहीतचापः समरे विमुञ्चंश च शिताञ शरान शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च देवराट ॥ 16 ॥
वरुणः पाशभृद वापि सगदॊ वा धनेश्वरः न तु भीष्मः सुसंक्रुद्धः शक्यॊ जेतुं महाहवे ॥ 17 ॥
सॊ ऽहम एवं गते कृष्ण निमग्नः शॊकसागरे आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य संयुगे ॥ 18 ॥
वनं यास्यामि दुर्धर्ष शरेयॊ मे तत्र वै गतम न युद्धं रॊचये कृष्ण हन्ति भीष्मॊ हि नः सदा ॥ 19 ॥
यथा परज्वलितं वह्निं पतंगः समभिद्रवन एकतॊ मृत्युम अभ्येति तथाहं भीष्मम ईयिवान ॥ 20 ॥
कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी भरातरश चैव मे शूराः सायकैर भृशपीडिताः ॥ 21 ॥
मत्कृते भरातृसौहार्दाद राज्यात परभ्रंशनं गताः परिक्लिष्टा यथा कृष्णा मत्कृते मधुसूदन ॥ 22 ॥
जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम जीवितस्याद्य शेषेण चरिष्ये धर्मम उत्तमम ॥ 23 ॥
यदि ते ऽहम अनुग्राह्यॊ भरातृभिः सह केशव सवधर्मस्याविरॊधेन तद उदाहर केशव ॥ 24 ॥
एतच छरुत्वा वचस तस्य कारुण्याद बहुविस्तरम परत्युवाच ततः कृष्णः सान्त्वयानॊ युधिष्ठिरम ॥ 25 ॥
धर्मपुत्र विषादं तवं मा कृथाः सत्यसंगर यस्य ते भरातरः शूरा दुर्जयाः शत्रुसूदनाः ॥ 26 ॥
अर्जुनॊ भीमसेनश च वाय्वग्निसमतेजसौ माद्रीपुत्रौ च विक्रान्तौ तरिदशानाम इवेश्वरौ ॥ 27 ॥
मां वा नियुङ्क्ष्व सौहार्दाद यॊत्स्ये भीष्मेण पाण्डव तवत्प्रयुक्तॊ हय अहं राजन किं न कुर्यां महाहवे ॥ 28 ॥
हनिष्यामि रणे भीष्मम आहूय पुरुषर्षभम पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ 29 ॥
यदि भीष्मे हते राजञ जयं पश्यसि पाण्डव हन्तास्म्य एकरथेनाद्य कुरुवृद्धं पितामहम ॥ 30 ॥
पश्य मे विक्रमं राजन महेन्द्रस्येव संयुगे विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात ॥ 31 ॥
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः मदर्था भवदर्था ये ये मदीयास तवैव ते ॥ 32 ॥
तव भराता मम सखा संबन्धी शिष्य एव च मांसान्य उत्कृत्य वै दद्याम अर्जुनार्थे महीपते ॥ 33 ॥
एष चापि नरव्याघ्रॊ मत्कृते जीवितं तयजेत एष नः समयस तात तारयेम परस्परम स मां नियुङ्क्ष्व राजेन्द्र यावद दवीपॊ भवाम्य अहम ॥ 34 ॥
परतिज्ञातम उपप्लव्ये यत तत पार्थेन पूर्वतः घातयिष्यामि गाङ्गेयम इत्य उलूकस्य संनिधौ ॥ 35 ॥
परिरक्ष्यं च मम तद वचः पार्थस्य धीमतः अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ॥ 36 ॥
अथ वा फल्गुनस्यैष भारः परिमितॊ रणे निहनिष्यति संग्रामे भीष्मं परपुरंजयम ॥ 37 ॥
अशक्यम अपि कुर्याद धि रणे पार्थः समुद्यतः तरिदशान वा समुद्युक्तान सहितान दैत्यदानवैः निहन्याद अर्जुनः संख्ये किम उ भीष्मं नराधिप ॥ 38 ॥
विपरीतॊ महावीर्यॊ गतसत्त्वॊ ऽलपजीवितः भीष्मः शांतनवॊ नूनं कर्तव्यं नावबुध्यते ॥ 39 ॥
युधिष्ठिर उवाच एवम एतन महाबाहॊ यथा वदसि माधव सर्वे हय एते न पर्याप्तास तव वेगनिवारणे ॥ 40 ॥
नियतं समवाप्स्यामि सर्वम एव यथेप्सितम यस्य मे पुरुषव्याघ्र भवान नाथॊ महाबलः ॥ 41 ॥
सेन्द्रान अपि रणे देवाञ जयेयं जयतां वर तवया नाथेन गॊविन्द किम उ भीष्मं महाहवे ॥ 42 ॥
न तु तवाम अनृतं कर्तुम उत्सहे सवार्थगौरवात अयुध्यमानः साहाय्यं यथॊक्तं कुरु माधव ॥ 43 ॥
समयस तु कृतः कश चिद भीष्मेण मम माधव मन्त्रयिष्ये तवार्थाय न तु यॊत्स्ये कथं चन दुर्यॊधनार्थे यॊत्स्यामि सत्यम एतद इति परभॊ ॥ 44 ॥
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव तस्माद देवव्रतं भूयॊ वधॊपायार्थम आत्मनः भवता सहिताः सर्वे पृच्छामॊ मधुसूदन ॥ 45 ॥
तद वयं सहिता गत्वा भीष्मम आशु नरॊत्तमम रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम ॥ 46 ॥
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ 47 ॥
स नॊ जयस्य दाता च मन्त्रस्य च धृतव्रतः बालाः पित्रा विहीनाश च तेन संवर्धिता वयम ॥ 48 ॥
तं चेत पितामहं वृद्धं हन्तुम इच्छामि माधव पितुः पितरम इष्टं वै धिग अस्तु कषत्रजीविकाम ॥ 49 ॥
संजय उवाच ततॊ ऽबरवीन महाराज वार्ष्णेयः कुरुनन्दनम रॊचते मे महाबाहॊ सततं तव भाषितम ॥ 50 ॥
देवव्रतः कृती भीष्मः परेक्षितेनापि निर्दहेत गम्यतां स वधॊपायं परष्टुं सागरगासुतः वक्तुम अर्हति सत्यं स तवया पृष्टॊ विशेषतः ॥ 51 ॥
ते वयं तत्र गच्छामः परष्टुं कुरुपितामहम परणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव स नॊ दास्यति यं मन्त्रं तेन यॊत्स्यामहे परान ॥ 52 ॥
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज जग्मुस ते सहिताः सर्वे वासुदेवश च वीर्यवान विमुक्तशस्त्रकवचा भीष्मस्य सदनं परति ॥ 53 ॥
परविश्य च तदा भीष्मं शिरॊभिः परतिपेदिरे पूजयन्तॊ महाराज पाण्डवा भरतर्षभ परणम्य शिरसा चैनं भीष्मं शरणम अन्वयुः ॥ 54 ॥
तान उवाच महाबाहुर भीष्मः कुरुपितामहः सवागतं तव वार्ष्णेय सवागतं ते धनंजय सवागतं धर्मपुत्राय भीमाय यमयॊस तथा ॥ 55 ॥
किं कार्यं वः करॊम्य अद्य युष्मत्प्रीतिविवर्धनम सर्वात्मना च कर्तास्मि यद्य अपि सयात सुदुष्करम ॥ 56 ॥
तथा बरुवाणं गाङ्गेयं परीतियुक्तं पुनः पुनः उवाच वाक्यं दीनात्मा धर्मपुत्रॊ युधिष्ठिरः ॥ 57 ॥
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि परजानां संक्षयॊ न सयात कथं तन मे वदाभिभॊ ॥ 58 ॥
भवान हि नॊ वधॊपायं बरवीतु सवयम आत्मनः भवन्तं समरे राजन विषहेम कथं वयम ॥ 59 ॥
न हि ते सूक्ष्मम अप्य अस्ति रन्ध्रं कुरुपितामह मण्डलेनैव धनुषा सदा दृश्यॊ ऽसि संयुगे ॥ 60 ॥
नाददानम संदधानं विकर्षन्तं धनुर न च पश्यामस तवा महाबाहॊ रथे सूर्यम इव सथितम ॥ 61 ॥
नराश्वरथनागानां हन्तारं परवीरहन क इवॊत्सहते हन्तुं तवां पुमान भरतर्षभ ॥ 62 ॥
वर्षता शरवर्षाणि महान्ति पुरुषॊत्तम कषयं नीता हि पृतना भवता महती मम ॥ 63 ॥
यथा युधि जयेयं तवां यथा राज्यं भवेन मम भवेत सैन्यस्य वा शान्तिस तन मे बरूहि पितामह ॥ 64 ॥
ततॊ ऽबरवीच छांतनवः पाण्डवान पाण्डुपूर्वज न कथं चन कौन्तेय मयि जीवति संयुगे युष्मासु दृश्यते वृद्धिः सत्यम एतद बरवीमि वः ॥ 65 ॥
निर्जिते मयि युद्धे तु धरुवं जेष्यथ कौरवान कषिप्रं मयि परहरत यदीच्छथ रणे जयम अनुजानामि वः पार्थाः परहरध्वं यथासुखम ॥ 66 ॥
एवं हि सुकृतं मन्ये भवतां विदितॊ हय अहम हते मयि हतं सर्वं तस्माद एवं विधीयताम ॥ 67 ॥
युधिष्ठिर उवाच बरूहि तस्माद उपायं नॊ यथा युद्धे जयेमहि भवन्तं समरे करुद्धं दण्डपाणिम इवान्तकम ॥ 68 ॥
शक्यॊ वज्रधरॊ जेतुं वरुणॊ ऽथ यमस तथा न भवान समरे शक्यः सेन्द्रैर अपि सुरासुरैः ॥ 69 ॥
भीष्म उवाच सत्यम एतन महाबाहॊ यथा वदसि पाण्डव नाहं शक्यॊ रणे जेतुं सेन्द्रैर अपि सुरासुरैः ॥ 70 ॥
आत्तशस्त्रॊ रणे यत्तॊ गृहीतवरकार्मुकः नयस्तशस्त्रं तु मां राजन हन्युर युधि महारथाः ॥ 71 ॥
निष्किप्तशस्त्रे पतिते विमुक्तकवचध्वजे दरवमाणे च भीते च तवास्मीति च वादिनि ॥ 72 ॥
सत्रियां सत्रीनामधेये च विकले चैकपुत्रके अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रॊचते मम ॥ 73 ॥
इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन ॥ 74 ॥
य एष दरौपदॊ राजंस तव सैन्ये महारथः शिखण्डी समराकाङ्क्षी शूरश च समितिंजयः ॥ 75 ॥
यथाभवच च सत्री पूर्वं पश्चात पुंस्त्वम उपागतः जानन्ति च भवन्तॊ ऽपि सर्वम एतद यथातथम ॥ 76 ॥
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम माम एव विशिखैस तूर्णम अभिद्रवतु दंशितः ॥ 77 ॥
अमङ्गल्यध्वजे तस्मिन सत्रीपूर्वे च विशेषतः न परहर्तुम अभीप्सामि गृहीतेषुं कथं चन ॥ 78 ॥
तद अन्तरं समासाद्य पाण्डवॊ मां धनंजयः शरैर घातयतु कषिप्रं समन्ताद भरतर्षभ ॥ 79 ॥
न तं पश्यामि लॊकेषु यॊ मां हन्यात समुद्यतम ऋते कृष्णान महाभागात पाण्डवाद वा धनंजयात ॥ 80 ॥
एष तस्मात पुरॊधाय कं चिद अन्यं ममाग्रतः मां पातयतु बीभत्सुर एवं ते विजयॊ भवेत ॥ 81 ॥
एतत कुरुष्व कौन्तेय यथॊक्तं वचनं मम ततॊ जेष्यसि संग्रामे धार्तराष्ट्रान समागतान ॥ 82 ॥
संजय उवाच ते ऽनुज्ञातास ततः पार्था जग्मुः सवशिबिरं परति अभिवाद्य महात्मानं भीष्मं कुरुपितामहम ॥ 83 ॥
तथॊक्तवति गाङ्गेये परलॊकाय दीक्षिते अर्जुनॊ दुःखसंतप्तः सव्रीडम इदम अब्रवीत ॥ 84 ॥
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता पितामहेन संग्रामे कथं यॊत्स्यामि माधव ॥ 85 ॥
करीडता हि मया बाल्ये वासुदेव महामनाः पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥ 86 ॥
यस्याहम अधिरुह्याङ्कं बालः किल गदाग्रज तातेत्य अवॊचं पितरं पितुः पाण्डॊर महात्मनः ॥ 87 ॥
नाहं तातस तव पितुस तातॊ ऽसमि तव भारत इति माम अब्रवीद बाल्ये यः स वध्यः कथं मया ॥ 88 ॥
कामं वध्यतु मे सैन्यं नाहं यॊत्स्ये महात्मना जयॊ वास्तु वधॊ वा मे कथं वा कृष्ण मन्यसे ॥ 89 ॥
शरीकृष्ण उवाच परतिज्ञाय वधं जिष्णॊ पुरा भीष्मस्य संयुगे कषत्रधर्मे सथितः पार्थ कथं नैनं हनिष्यसि ॥ 90 ॥
पातयैनं रथात पार्थ वज्राहतम इव दरुमम नाहत्वा युधि गाङ्गेयं विजयस ते भविष्यति ॥ 91 ॥
दिष्टम एतत पुरा देवैर भविष्यत्य अवशस्य ते हन्ता भीष्मस्य पूर्वेन्द्र इति तन न तद अन्यथा ॥ 92 ॥
न हि भीष्मं दुराधर्षं वयात्ताननम इवान्तकम तवदन्यः शक्नुयाद धन्तुम अपि वज्रधरः सवयम ॥ 93 ॥
जहि भीष्मं महाबाहॊ शृणु चेदं वचॊ मम यथॊवाच पुरा शक्रं महाबुद्धिर बृहस्पतिः ॥ 94 ॥
जयायांसम अपि चेच छक्र गुणैर अपि समन्वितम आततायिनम आमन्त्र्य हन्याद घातकम आगतम ॥ 95 ॥
शाश्वतॊ ऽयं सथितॊ धर्मः कषत्रियाणां धनंजय यॊद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥ 96 ॥
अर्जुन उवाच शिखण्डी निधनं कृष्ण भीष्मस्य भविता धरुवम दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ 97 ॥
ते वयं परमुखे तस्य सथापयित्वा शिखण्डिनम गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥ 98 ॥
अहम अन्यान महेष्वासान वारयिष्यामि सायकैः शिखण्ड्य अपि युधां शरेष्ठॊ भीष्मम एवाभियास्यतु ॥ 99 ॥
शरुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम कन्या हय एषा पुरा जाता पुरुषः समपद्यत ॥ 100 ॥
संजय उवाच इत्य एवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ॥ 101 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 103
Reach this point to mark the section finished.
Continue to अध्याय 104