संजय उवाच ततः पिता तव करुद्धॊ निशितैः सायकॊत्तमैः आजघान रणे पार्थान सहसेनान समन्ततः ॥ 1 ॥
भीमं दवादशभिर विद्ध्वा सात्यकिं नवभिः शरैः नकुलं च तरिभिर बाणैः सहदेवं च सप्तभिः ॥ 2 ॥
युधिष्ठिरं दवादशभिर बाह्वॊर उरसि चार्पयत धृष्टद्युम्नं ततॊ विद्ध्वा विननाद महाबलः ॥ 3 ॥
तं दवादशार्धैर नकुलॊ माधवश च तरिभिः शरैः धृष्टद्युम्नश च सप्तत्या भीमसेनश च पञ्चभिः युधिष्ठिरॊ दवादशभिः परत्यविध्यत पितामहम ॥ 4 ॥
दरॊणस तु सात्यकिं विद्ध्वा भीमसेनम अविध्यत एकैकं पञ्चभिर बाणैर यमदण्डॊपमैः शितैः ॥ 5 ॥
तौ च तं परत्यविध्येतां तरिभिस तरिभिर अजिह्मगैः तॊत्त्रैर इव महानागं दरॊणं बराह्मणपुंगवम ॥ 6 ॥
सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः संग्रामे नाजहुर भीष्मं वध्यमानाः शितैः शरैः ॥ 7 ॥
तथैवान्ये वध्यमानाः पाण्डवेयैर महात्मभिः पाण्डवान अभ्यवर्तन्त विविधायुधपाणयः तथैव पाण्डवा राजन परिवव्रुः पितामहम ॥ 8 ॥
स समन्तात परिवृतॊ रथौघैर अपराजितः गहने ऽगनिर इवॊत्सृष्टः परजज्वाल दहन परान ॥ 9 ॥
रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः शरस्फुलिङ्गॊ भीष्माग्निर ददाह कषत्रियर्षभान ॥ 10 ॥
सुवर्णपुङ्खैर इषुभिर गार्ध्रपक्षैः सुतेजनैः कर्णिनालीकनाराचैश छादयाम आस तद बलम ॥ 11 ॥
अपातयद धवजांश चैव रथिनश च शितैः शरैः मुण्डतालवनानीव चकार स रथव्रजान ॥ 12 ॥
निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे अकरॊत स महाबाहुः सर्वशस्त्रभृतां वरः ॥ 13 ॥
तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः निशम्य सर्वभूतानि समकम्पन्त भारत ॥ 14 ॥
अमॊघा हय अपतन बाणाः पितुस ते भरतर्षभ नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ 15 ॥
हतवीरान रथान राजन संयुक्ताञ जवनैर हयैः अपश्याम महाराज हरियमाणान रणाजिरे ॥ 16 ॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश महारथाः समाख्याताः कुलपुत्रास तनुत्यजः अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥ 17 ॥
संग्रामे भीष्मम आसाद्य वयादितास्यम इवान्तकम निमग्नाः परलॊकाय स वाजिरथकुञ्जराः ॥ 18 ॥
भग्नाक्षॊपस्करान कांश चिद भग्नचक्रांश च सर्वशः अपश्याम रथान राजञ शतशॊ ऽथ सहस्रशः ॥ 19 ॥
सवरूथै रथैर भग्नै रथिभिश च निपातितैः शरैः सुकवचैश छिन्नैः पट्टिशैश च विशां पते ॥ 20 ॥
गदाभिर मुसलैश चैव निस्त्रिंशैश च शिलीमुखैः अनुकर्षैर उपासङ्गैश चक्रैर भग्नैश च मारिष ॥ 21 ॥
बाहुभिः कार्मुकैः खड्गैः शिरॊभिश च सकुण्डलैः तलत्रैर अङ्गुलित्रैश च धवजैश च विनिपातितैः चापैश च बहुधा छिन्नैः समास्तीर्यत मेदिनी ॥ 22 ॥
हतारॊहा गजा राजन हयाश च हतसादिनः परिपेतुर दरुतं तत्र शतशॊ ऽथ सहस्रशः ॥ 23 ॥
यतमानाश च ते वीरा दरवमाणान महारथान नाशक्नुवन वारयितुं भीष्मबाणप्रपीडितान ॥ 24 ॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः अभज्यत महाराज न च दवौ सह धावतः ॥ 25 ॥
आविद्धरथनागाश्वं पतितध्वजकूबरम अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम ॥ 26 ॥
जघानात्र पिता पुत्रं पुत्रश च पितरं तथा परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ 27 ॥
विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत ॥ 28 ॥
तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथकुञ्जरम ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा ॥ 29 ॥
परभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम ॥ 30 ॥
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तव परहरास्मै नरव्याघ्र न चेन मॊहात परमुह्यसे ॥ 31 ॥
यत पुरा कथितं वीर तवया राज्ञां समागमे विराटनगरे पार्थ संजयस्य समीपतः ॥ 32 ॥
भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे ॥ 33 ॥
इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम कषत्रधर्मम अनुस्मृत्य युध्यस्व भरतर्षभ ॥ 34 ॥
इत्य उक्तॊ वासुदेवेन तिर्यग्दृष्टिर अधॊमुखः अकाम इव बीभत्सुर इदं वचनम अब्रवीत ॥ 35 ॥
अवध्यानां वधं कृत्वा राज्यं वा नरकॊत्तरम दुःखानि वनवासे वा किं नु मे सुकृतं भवेत ॥ 36 ॥
चॊदयाश्वान यतॊ भीष्मः करिष्ये वचनं तव पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम ॥ 37 ॥
ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माधवः यतॊ भीष्मस ततॊ राजन दुष्प्रेक्ष्यॊ रश्मिवान इव ॥ 38 ॥
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे ॥ 39 ॥
ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः धनंजयरथं शीघ्रं शरवर्षैर अवाकिरत ॥ 40 ॥
कषणेन स रथस तस्य सहयः सहसारथिः शरवर्षेण महता न परज्ञायत किं चन ॥ 41 ॥
वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सात्वतः चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः ॥ 42 ॥
ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम पातयाम आस भीष्मस्य धनुश छित्त्वा शितैः शरैः ॥ 43 ॥
स चछिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 44 ॥
विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः ॥ 45 ॥
तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः साधु पार्थ महाबाहॊ साधु कुन्तीसुतेति च ॥ 46 ॥
समाभाष्यैनम अपरं परगृह्य रुचिरं धनुः मुमॊच समरे भीष्मः शरान पार्थरथं परति ॥ 47 ॥
अदर्शयद वासुदेवॊ हययाने परं बलम मॊघान कुर्वञ शरांस तस्य मण्डलानि विदर्शयन ॥ 48 ॥
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ गॊवृषाव इव संरब्धौ विषाणॊल्लिखिताङ्कितौ ॥ 49 ॥
वासुदेवस तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि ॥ 50 ॥
परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान ॥ 51 ॥
युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले नामृष्यत महाबाहुर माधवः परवीरहा ॥ 52 ॥
उत्सृज्य रजतप्रख्यान हयान पार्थस्य मारिष करुद्धॊ नाम महायॊगी परचस्कन्द महारथात अभिदुद्राव भीष्मं स भुजप्रहरणॊ बली ॥ 53 ॥
परतॊदपाणिस तेजस्वी सिंहवद विनदन मुहुः दारयन्न इव पद्भ्यां स जगतीं जगतीश्वरः ॥ 54 ॥
करॊधताम्रेक्षणः कृष्णॊ जिघांसुर अमितद्युतिः गरसन्न इव च चेतांसि तावकानां महाहवे ॥ 55 ॥
दृष्ट्वा माधवम आक्रन्दे भीष्मायॊद्यन्तम आहवे हतॊ भीष्मॊ हतॊ भीष्म इति तत्र सम सैनिकाः करॊशन्तः पराद्रवन सर्वे वासुदेवभयान नराः ॥ 56 ॥
पीतकौशेयसंवीतॊ मणिश्यामॊ जनार्दनः शुशुभे विद्रवन भीष्मं विद्युन्माली यथाम्बुदः ॥ 57 ॥
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम अभिदुद्राव तेजस्वी विनदन यादवर्षभः ॥ 58 ॥
तम आपतन्तं संप्रेक्ष्य पुण्डरीकाक्षम आहवे असंभ्रमं रणे भीष्मॊ विचकर्ष महद धनुः उवाच चैनं गॊविन्दम असंभ्रान्तेन चेतसा ॥ 59 ॥
एह्य एहि पुण्डरीकाक्ष देवदेव नमॊ ऽसतु ते माम अद्य सात्वतश्रेष्ठ पातयस्व महाहवे ॥ 60 ॥
तवया हि देव संग्रामे हतस्यापि ममानघ शरेय एव परं कृष्ण लॊके ऽमुष्मिन्न इहैव च संभावितॊ ऽसमि गॊविन्द तरैलॊक्येनाद्य संयुगे ॥ 61 ॥
अन्वग एव ततः पार्थस तम अनुद्रुत्य केशवम निजग्राह महाबाहुर बाहुभ्याम परिगृह्य वै ॥ 62 ॥
निगृह्यमाणः पार्थेन कृष्णॊ राजीवलॊचनः जगाम चैनम आदाय वेगेन पुरुषॊत्तमः ॥ 63 ॥
पार्थस तु विष्टभ्य बलाच चरणौ परवीरहा निजघ्राह हृषीकेशं कथं चिद दशमे पदे ॥ 64 ॥
तत एनम उवाचार्तः करॊधपर्याकुलेक्षणम निःश्वसन्तं यथा नागम अर्जुनः परवीरहा ॥ 65 ॥
निवर्तस्व महाबाहॊ नानृतं कर्तुम अर्हसि यत तवया कथितं पूर्वं न यॊत्स्यामीति केशव ॥ 66 ॥
मिथ्यावादीति लॊकस तवां कथयिष्यति माधव ममैष भारः सर्वॊ हि हनिष्यामि यतव्रतम ॥ 67 ॥
शपे माधव सख्येन सत्येन सुकृतेन च अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ॥ 68 ॥
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम तारापतिम इवापूर्णम अन्तकाले यदृच्छया ॥ 69 ॥
माधवस तु वचः शरुत्वा फल्गुनस्य महात्मनः न किं चिद उक्त्वा सक्रॊध आरुरॊह रथं पुनः ॥ 70 ॥
तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः ववर्ष शरवर्षेण मेघॊ वृष्ट्या यथाचलौ ॥ 71 ॥
पराणांश चादत्त यॊधानां पिता देवव्रतस तव गभस्तिभिर इवादित्यस तेजांसि शिशिरात्यये ॥ 72 ॥
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ 73 ॥
हतविद्रुतसैन्यास तु निरुत्साहा विचेतसः निरीक्षितुं न शेकुस ते भीष्मम अप्रतिमं रणे मध्यं गतम इवादित्यं परतपन्तं सवतेजसा ॥ 74 ॥
ते वध्यमाना भीष्मेण कालेनेव युगक्षये वीक्षां चक्रुर महाराज पाण्डवा भयपीडिताः ॥ 75 ॥
तरातारं नाध्यगच्छन्त गावः पङ्कगता इव पिपीलिका इव कषुण्णा दुर्बला बलिना रणे ॥ 76 ॥
महारथं भारत दुष्प्रधर्षं; शरौघिणं परतपन्तं नरेन्द्रान भीष्मं न शेकुः परतिवीक्षितुं ते; शरार्चिषं सूर्यम इवातपन्तम ॥ 77 ॥
विमृद्नतस तस्य तु पाण्डुसेनाम; अस्तं जगामाथ सहस्ररश्मिः ततॊ बलानां शरमकर्शितानां; मनॊ ऽवहारं परति संबभूव ॥ 78 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103