[स] दृष्ट्वा भीष्मं रणे करुद्धं पाण्डवैर अभिसंवृतम यथा मेघैर महाराज तपान्ते दिवि भास्करम ॥ 1 ॥
दुर्यॊधनॊ महाराज दुःशासनम अभाषत एष शूरॊ महेष्वासॊ भीष्मः शत्रुनिषूदनः ॥ 2 ॥
छादितः पाण्डवैः शूरैः समन्ताद भरतर्षभ तस्य कार्यं तवया वीर रक्षणं सुमहात्मनः ॥ 3 ॥
रक्ष्यमाणॊ हि समरे भीष्मॊ ऽसमाकं पितामहः निहन्यात समरे यत्तान पाञ्चालान पाण्डवैः सह ॥ 4 ॥
तत्र कार्यम अहं मन्ये भीष्मस्यैवाभिरक्षणम गॊप्ता हय एष महेष्वासॊ भीष्मॊ ऽसमाकं पितामहः ॥ 5 ॥
स भवान सर्वसैन्येन परिवार्य पितामहम समरे दुष्करं कर्म कुर्वाणं परिरक्षतु ॥ 6 ॥
एवम उक्तस तु समरे पुत्रॊ दुःशासनस तव परिवार्य सथितॊ भीष्मं सैन्येन महता वृतः ॥ 7 ॥
ततः शतसहस्रेण हयानां सुबलात्मजः विमलप्रासहस्तानाम ऋष्टितॊमरधारिणाम ॥ 8 ॥
दर्पितानां सुवेगानां बलस्थानां पताकिनाम शिक्षितैर युद्धकुशलैर उपेतानां नरॊत्तमैः ॥ 9 ॥
नकुलं सहदेवं च धर्मराजं च पाण्डवम नयवारयन नरश्रेष्ठं परिवार्य समन्ततः ॥ 10 ॥
ततॊ दुर्यॊधनॊ राजा शूराणां हयसादिनाम अयुतं परेषयाम आस पाण्डवानां निवारणे ॥ 11 ॥
तैः परविष्टैर महावेगैर गरुत्मद्भिर इवाहवे खुराहता धरा राजंश चकम्पे च ननाद च ॥ 12 ॥
खुरशब्दश च सुमहान वाजिनां शुश्रुवे तदा महावंशवनस्येव दह्यमानस्य पर्वते ॥ 13 ॥
उत्पतद्भिश च तैस तत्र समुद्धूतं महद रजः दिवाकरपथं पराप्य छादयाम आस भास्करम ॥ 14 ॥
वेगवद्भिर हयैस तैस तु कषॊभितं पाण्डवं बलम निपतद्भिर महावेगैर हंसैर इव महत सरः हेषतां चैव शब्देन न पराज्ञायत किं चन ॥ 15 ॥
ततॊ युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ परत्यघ्नंस तरसा वेगं समरे हयसादिनाम ॥ 16 ॥
उद्वृत्तस्य महाराज परावृट्कालेन पूर्यतः पौर्णमास्याम अम्बुवेगं यथा वेला महॊदधेः ॥ 17 ॥
ततस ते रथिनॊ राजञ शरैः संनतपर्वभिः नयकृन्तन्न उत्तमाङ्गानि कायेभ्यॊ हयसादिनाम ॥ 18 ॥
ते निपेतुर महाराज निहता दृढधन्विभिः नागैर इव महानागा यथा सयुर गिरिगह्वरे ॥ 19 ॥
ते ऽपि परासैः सुनिशितैः शरैः संनतपर्वभिः नयकृन्तन्न उत्तमाङ्गानि विचरन्तॊ दिशॊ दश ॥ 20 ॥
अत्यासन्ना हयारॊहा ऋष्टिभिर भरतर्षभ अच्छिनन्न उत्तमाङ्गानि फलानीव महाद्रुमात ॥ 21 ॥
स सादिनॊ हया राजंस तत्र तत्र निषूदिताः पतिताः पात्यमानाश च शतशॊ ऽथ सहस्रशः ॥ 22 ॥
वध्यमाना हयास ते तु पराद्रवन्त भयार्दिताः यथा सिंहान समासाद्य मृगाः पराणपरायणाः ॥ 23 ॥
पाण्डवास तु महाराज जित्वा शत्रून महाहवे दध्मुः शङ्खांश च भेरीश च ताडयाम आसुर आहवे ॥ 24 ॥
ततॊ दुर्यॊधनॊ दृष्ट्वा दीनं सैन्यम अवस्थितम अब्रवीद भरतश्रेष्ठ मद्रराजम इदं वचः ॥ 25 ॥
एष पाण्डुसुतॊ जयेष्ठॊ जित्वा मातुलमामकान पश्यतां नॊ महाबाहॊ सेनां दरावयते बली ॥ 26 ॥
तं वारय महाबाहॊ वेलेव मकरालयम तवं हि संश्रूयसे ऽतयर्थम असह्य बलविक्रमः ॥ 27 ॥
पुत्रस्य तव तद वाक्यं शरुत्वा शल्यः परतापवान परययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ 28 ॥
तद आपतद वै सहसा शल्यस्य सुमहद बलम महौघवेगं समरे वारयाम आस पाण्डवः ॥ 29 ॥
मद्रराजं च समरे धर्मराजॊ महारथः दशभिः सायकैस तूर्णम आजघान सतनान्तरे नकुलः सहदेवश च तरिभिस तरिभिर अजिह्मगैः ॥ 30 ॥
मद्रराजॊ ऽपि तान सर्वान आजघान तरिभिस तरिभिः युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः माद्रीपुत्रौ च संरब्धौ दवाभ्यां दवाभ्याम अताडयत ॥ 31 ॥
ततॊ भीमॊ महाबाहुर दृष्ट्वा राजानम आहवे मद्रराजवशं पराप्तं मृत्यॊर आस्य गतं यथा अभ्यद्रवत संग्रामे युधिष्ठिरम अमित्रजित ॥ 32 ॥
ततॊ युद्धं महाघॊरं परावर्तत सुदारुणम अपरां दिशम आस्थाय दयॊतमाने दिवाकरे ॥ 33 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 101
Reach this point to mark the section finished.
Continue to अध्याय 102