वैशंपायन उवाच तथैव राजा कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः धृष्टद्युम्नमुखान वीरांश चॊदयाम आस भारत ॥ 1 ॥
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम सेनापतिम अमित्रघ्नं धृष्टकेतुम अथादिशत ॥ 2 ॥
विराटं दरुपदं चैव युयुधानं शिखण्डिनम पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥ 3 ॥
ते शूराश चित्रवर्माणस तप्तकुण्डलधारिणः आज्यावसिक्ता जवलिता धिष्ण्येष्व इव हुताशनाः अशॊभन्त महेष्वासा गरहाः परज्वलिता इव ॥ 4 ॥
सॊ ऽथ सैन्यं यथायॊगं पूजयित्वा नरर्षभः दिदेश तान्य अनीकानि परयाणाय महीपतिः ॥ 5 ॥
अभिमन्युं बृहन्तं च दरौपदेयांश च सर्वशः धृष्टद्युम्नमुखान एतान पराहिणॊत पाण्डुनन्दनः ॥ 6 ॥
भीमं च युयुधानं च पाण्डवं च धनंजयम दवितीयं परेषयाम आस बलस्कन्धं युधिष्ठिरः ॥ 7 ॥
भाण्डं समारॊपयतां चरतां संप्रधावताम हृष्टानां तत्र यॊधानां शब्दॊ दिवम इवास्पृशत ॥ 8 ॥
सवयम एव ततः पश्चाद विराटद्रुपदान्वितः तथान्यैः पृथिवीपालैः सह परायान महीपतिः ॥ 9 ॥
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता गङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत ॥ 10 ॥
ततः पुनर अनीकानि वययॊजयत बुद्धिमान मॊहयन धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम ॥ 11 ॥
दरौपदेयान महेष्वासान अभिमन्युं च पाण्डवः नकुलं सहदेवं च सर्वांश चैव परभद्रकान ॥ 12 ॥
दश चाश्वसहस्राणि दविसाहस्रं च दन्तिनः अयुतं च पदातीनां रथाः पञ्चशतास तथा ॥ 13 ॥
भीमसेनं च दुर्धर्षं परथमं परादिशद बलम मध्यमे तु विराटं च जयत्सेनं च मागधम ॥ 14 ॥
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ अन्वयातां ततॊ मध्ये वासुदेवधनंजयौ ॥ 15 ॥
बभूवुर अतिसंरब्धाः कृतप्रहरणा नराः तेषां विंशतिसाहस्रा धवजाः शूरैर अधिष्ठिताः ॥ 16 ॥
पञ्च नागसहस्राणि रथवंशाश च सर्वशः पदातयश च ये शूराः कार्मुकासिगदाधराः सहस्रशॊ ऽनय्वयुः पश्चाद अग्रतश च सहस्रशः ॥ 17 ॥
युधिष्ठिरॊ यत्र सैन्ये सवयम एव बलार्णवे तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥ 18 ॥
तत्र नागसहस्राणि हयानाम अयुतानि च तथा रथसहस्राणि पदातीनां च भारत यद आश्रित्याभियुयुधे धार्तराष्ट्रं सुयॊधनम ॥ 19 ॥
ततॊ ऽनये शतशः पश्चात सहस्रायुतशॊ नराः नदन्तः परययुस तेषाम अनीकानि सहस्रशः ॥ 20 ॥
तत्र भेरीसहस्राणि शङ्खानाम अयुतानि च वादयन्ति सम संहृष्टाः सहस्रायुतशॊ नराः ॥ 21 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 197
Reach this point to mark the section finished.
Continue to अध्याय 1