[व] तस्मिन्न अभिहिते वाक्ये केशवेन महात्मना सतिमिता हृष्टरॊमाण आसन सर्वे सभासदः ॥ 1 ॥
कः सविद उत्तरम एतस्माद वक्तुम उत्सहते पुमान इति सर्वे मनॊभिस ते चिन्तयन्ति सम पार्थिवाः ॥ 2 ॥
तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु जामदग्न्य इदं वाक्यम अब्रवीत कुरुसंसदि ॥ 3 ॥
इमाम एकॊपमां राजञ शृणु सत्याम अशङ्कितः तां शरुत्वा शरेय आदत्स्व यदि साध्व इति मन्यसे ॥ 4 ॥
राजा दम्भॊद्भवॊ नाम सार्वभौमः पुराभवत अखिलां बुभुजे सर्वां पृथिवीम इति नः शरुतम ॥ 5 ॥
स सम नित्यं निशापाये परातर उत्थाय वीर्यवान बराह्मणान कषत्रियांश चैव पृच्छन्न आस्ते महारथः ॥ 6 ॥
अस्ति कश चिद विशिष्टॊ वा मद्विधॊ वा भवेद युधि शुद्रॊ वैश्यः कषत्रियॊ वा बराह्मणॊ वापि शस्त्रभृत ॥ 7 ॥
इति बरुवन्न अन्वचरत स राजा पृथिवीम इमाम दर्पेण महता मत्तः कं चिद अन्यम अचिन्तयन ॥ 8 ॥
तं सम वैद्या अकृपणा बराह्मणाः सर्वतॊ ऽभयाः परत्यषेधन्त राजानं शलाघमानं पुनः पुनः ॥ 9 ॥
परतिषिध्यमानॊ ऽपय असकृत पृच्छत्य एव स वै दविजान अभिमानी शरिया मत्तस तम ऊचुर बराह्मणास तदा ॥ 10 ॥
तपस्विनॊ महात्मानॊ वेद वरतसमन्विताः उदीर्यमाणं राजानं करॊधदीप्ता दविजातयः ॥ 11 ॥
अनेकजननं सख्यं ययॊः पुरुषसिंहयॊः तयॊस तवं न समॊ राजन भवितासि कदा चन ॥ 12 ॥
एवम उक्तः स राजा तु पुनः पप्रच्छ तान दविजान कव तौ वीरौ कव जन्मानौ किं कर्माणौ च कौ च तौ ॥ 13 ॥
[बराह्मणाह] नरॊ नारायणश चैव तापसाव इति नः शरुतम आयातौ मानुषे लॊके ताभ्यां युध्यस्व पार्थिव ॥ 14 ॥
शरूयते तौ महात्मानौ नरनारायणाव उभौ तपॊ घॊरम अनिर्देश्यं तप्येते गन्धमादने ॥ 15 ॥
[राम] स राजा महतीं सेनां यॊजयित्वा षडङ्गिनीम अमृष्यमाणः संप्रायाद यत्र ताव अपराजितौ ॥ 16 ॥
स गत्वा विषमं घॊरं पर्वतं गन्धमादनम मृगयाणॊ ऽनवगच्छत तौ तापसाव अपराजितौ ॥ 17 ॥
तौ दृष्ट्वा कषुत्पिपासाभ्यां कृशौ धमनि संततौ शीतवातातपैश चैव कर्शितौ पुरुषॊत्तमौ अभिगम्यॊपसंगृह्य पर्यपृच्छद अनामयम ॥ 18 ॥
तम अर्चित्वा मूलफलैर आसनेनॊदकेन च नयमन्त्रयेतां राजानं किं कार्यं करियताम इति ॥ 19 ॥
[दम्भौद्भव] बाहुभ्यां मे जिता भूमिर निहताः सर्वशत्रवः भवद्भ्यां युद्धम आकाङ्क्षन्न उपयातॊ ऽसमि पर्वतम आतिथ्यं दीयताम एतत काङ्क्षितं मे चिरं परति ॥ 20 ॥
[नरनारायणौ] अपेतक्रॊधलॊभॊ ऽयम आश्रमॊ राजसत्तम न हय अस्मिन्न आश्रमे युद्धं कुतः शस्त्रं कुतॊ ऽनृजुः अन्यत्र युद्धम आकाङ्क्ष्व बहवः कषत्रिया कषितौ ॥ 21 ॥
[र] उच्यमानस तथापि सम भूय एवाभ्यभाषत पुनः पुनः कषम्यमाणः सान्त्व्यमानश च भारत दम्भॊद्भवॊ युद्धम इच्छन्न आह्वयत्य एव तापसौ ॥ 22 ॥
ततॊ नरस तव इषीकाणां मुष्टिम आदाय कौरव अब्रवीद एहि युध्यस्व युद्धकामुक कषत्रिय ॥ 23 ॥
सर्वशस्त्राणि चादत्स्व यॊजयस्व च वाहिनीम अहं हि ते विनेष्यामि युद्धश्रद्धाम इतः परम ॥ 24 ॥
[द] यद्य एतद अस्त्रम अस्मासु युक्तं तापस मन्यसे एतेनापि तवया यॊत्स्ये युद्धार्थी हय अहम आगतः ॥ 25 ॥
[र] इत्य उक्त्वा शरवर्षेण सर्वतः समवाकिरत दम्भॊद्भवस तापसं तं जिघांसुः सह सैनिकः ॥ 26 ॥
तस्य तान अस्यतॊ घॊरान इषून परतनुच छिदः कदर्थी कृत्यस मुनिर इषीकाभिर अपानुदत ॥ 27 ॥
ततॊ ऽसमै परासृजद घॊरम ऐषीकम अपराजितः अस्त्रम अप्रतिसंधेयं तद अद्भुतम इवाभवत ॥ 28 ॥
तेषाम अक्षीणि कर्णांश च नस्तकांश चैव मायया निमित्तवेधी स मुनिर इषीकाभिः समर्पयत ॥ 29 ॥
स दृष्ट्वा शवेतम आकाशम इषीकाभिः समाचितम पादयॊर नयपतद राजा सवस्ति मे ऽसत्व इति चाब्रवीत ॥ 30 ॥
तम अब्रवीन नरॊ राजञ शरण्यः शरणैषिणाम बरह्मण्यॊ भव धर्मात्मा मा च समैवं पुनः कृथाः ॥ 31 ॥
मा च दर्पसमाविष्टः कषेप्सीः कांश चित कदा चन अल्पीयांसं विशिष्टं वा तत ते राजन परं हितम ॥ 32 ॥
कृतप्रज्ञॊ वीतलॊभॊ निरहंकार आत्मवान दान्तः कषान्तॊ मृदुः कषेमः परजाः पालय पार्थिव ॥ 33 ॥
अनुज्ञातः सवस्ति गच्छ मैवं भूयः समाचरेः कुशलं बराह्मणान पृच्छेर आवयॊर वचनाद भृशम ॥ 34 ॥
ततॊ राजा तयॊः पादाव अभिवाद्य महात्मनॊः परत्याजगाम सवपुरं धर्मं चैवाचिनॊद भृशम ॥ 35 ॥
सुमहच चापि तत कर्म यन नरेण कृतं पुरा ततॊ गुणैः सुबहुभिः शरेष्ठॊ नारायणॊ ऽभवत ॥ 36 ॥
तस्माद यावद धनुःश्रेष्ठे गाण्डीवे ऽसव्रं न युज्यते तावत तवं मानम उत्सृज्य गच्छ राजन धनंजयम ॥ 37 ॥
काकुदीकं शुकं नाकम अक्षिसंतर्जनं तथा संतानं नर्तनं घॊरम आस्यम ओदकम अष्टमम ॥ 38 ॥
एतैर विद्धाः सर्व एव मरणं यान्ति मानवाः उन्मत्ताश च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥ 39 ॥
सवपन्ते च पलवन्ते च छर्दयन्ति च मानवाः मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥ 40 ॥
असंख्येया गुणाः पार्थे तद विशिष्टॊ जनार्दनः तवम एव भूयॊ जानासि कुन्तीपुत्रं धनंजयम ॥ 41 ॥
नरनारायणौ यौ तौ ताव एवार्जुन केशवौ विनाजीहि महाराज परवीरौ पुरुषर्षभौ ॥ 42 ॥
यद्य एतद एवं जानासि न च माम अतिशङ्कसे आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥ 43 ॥
अथ चेन मन्यसे शरेयॊ न मे भेदॊ भवेद इति परशाम्य भरत शरेष्ठॊ मा च युद्धे मनः कृथाः ॥ 44 ॥
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि तत तथैवास्तु भद्रं ते सवार्थम एवानुचिन्तय ॥ 45 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 94
Reach this point to mark the section finished.
Continue to अध्याय 95