धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 95

  1. [व] जामदग्न्यवचः शरुत्वा कण्वॊ ऽपि भगवान ऋषिः दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि ॥ 1 ॥

  2. अक्षयश चाव्ययश चैव बरह्मा लॊकपितामहः तथैव भगवन्तौ तौ नरनारायणाव ऋषी ॥ 2 ॥

  3. आदित्यानां हि सर्वेषां विष्णुर एकः सनातनः अजय्यश चाव्ययश चैव शाश्वतः परभुर ईश्वरः ॥ 3 ॥

  4. निमित्तमरणास तव अन्ये चन्द्रसूर्यौ मही जलम वायुर अग्निस तथाकाशं गरहास तारागणास तथा ॥ 4 ॥

  5. ते च कषयान्ते जगतॊ हित्वा लॊकत्रयं सदा कषयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥ 5 ॥

  6. मुहूर्तमरणास तव अन्ये मानुषा मृगपक्षिणः तरियग यॊन्यश च ये चान्ये जीवलॊकचराः समृताः ॥ 6 ॥

  7. भूयिष्ठेन तु राजानः शरियं भुक्त्वायुषः कषये मरणं परतिगच्छन्ति भॊक्तुं सुकृतदुष्कृतम ॥ 7 ॥

  8. स भवान धर्मपुत्रेण शम कर्तुम इहार्हति पाण्डवाः कुरवश चैव पालयन्तु वसुंधराम ॥ 8 ॥

  9. बलवान अहम इत्य एव न मन्तव्यं सुयॊधन बलवन्तॊ हि बलिभिर दृश्यन्ते पुरुषर्षभ ॥ 9 ॥

  10. न बलं बलिनां मध्ये बलं भवति कौरव बलवन्तॊ हि ते सर्वे पाण्डवा देव विक्रमाः ॥ 10 ॥

  11. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मातलेर दातुकामस्य कन्यां मृगयतॊ वरम ॥ 11 ॥

  12. मतस तरैलॊक्यराजस्य मातलिर नाम सारथिः तस्यैकैव कुले कन्या रूपतॊ लॊकविश्रुता ॥ 12 ॥

  13. गुणकेशीति विख्याता नाम्ना सा देवरूपिणी शरिया च वपुषा चैव सत्रियॊ ऽनयाः सातिरिच्यते ॥ 13 ॥

  14. तस्याः परदानसमयं मातलिः सह भार्यया जञात्वा विममृशे राजंस तत्परः परिचिन्तयन ॥ 14 ॥

  15. धिक खल्व अलघु शीलानाम उच्छ्रितानां यशस्विनाम नराणाम ऋद्धसत्त्वानां कुले कन्या पररॊहणम ॥ 15 ॥

  16. मातुः कुलं पितृकुलं यत्र चैव परदीयते कुलत्रयं संशयितं कुरुते कन्यका सताम ॥ 16 ॥

  17. देव मानुषलॊकौ दवौ मानसेनैव चक्षुषा अवगाह्यैव विचितौ न च मे रॊचते वरः ॥ 17 ॥

  18. न देवान नैव दितिजान न गन्धर्वान न मानुषान अरॊचयं वरकृते तथैव बहुलान ऋषीन ॥ 18 ॥

  19. भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया मातलिर नागलॊकाय चकार गमने मतिम ॥ 19 ॥

  20. न मे देवमनुष्येषु गुणकेश्याः समॊ वरः रूपतॊ दृश्यते कश चिन नागेषु भविता धरुवम ॥ 20 ॥

  21. इत्य आमन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम कन्यां शिरस्य उपाघ्राय परविवेश महीतलम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 96

Previous: अध्याय 94