धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 93

  1. [व] तेष्व आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु वाक्यम अभ्याददे कृष्णः सुदंष्ट्रॊ दुन्दुभिस्वनः ॥ 1 ॥

  2. जीमूत इव धर्मान्ते सर्वां संश्रावयन सभाम धृतराष्ट्रम अभिप्रेक्ष्य समभाषत माधवः ॥ 2 ॥

  3. कुरूणां पाण्डवानां च शमः सयाद इति भारत अप्रयत्नेन वीराणाम एतद यतितुम आगतः ॥ 3 ॥

  4. राजन नान्यत परवक्तव्यं तव निःश्रेयसं वचः विदितं हय एव ते सर्वं वेदितव्यम अरिंदम ॥ 4 ॥

  5. इदम अद्य कुलं शरेष्ठं सर्वराजसु पार्थिव शरुतवृत्तॊपसंपन्नं सर्वैः समुदितं गुणैः ॥ 5 ॥

  6. कृपानुकम्पा कारुण्यम आनृशंस्यं च भारत तथार्जवं कषमा सत्यं कुरुष्व एतद विशिष्यते ॥ 6 ॥

  7. तस्मिन्न एवंविधे राजन कुले महति तिष्ठति तवन्निमित्तं विशेषेण नेह युक्तम असांप्रतम ॥ 7 ॥

  8. तवं हि वारयिता शरेष्ठः कुरूणां कुरुसत्तम मिथ्या परचरतां तात बाह्येष्व आभ्यन्तरेषु च ॥ 8 ॥

  9. ते पुत्रास तव कौरव्य दुर्यॊधन पुरॊगमाः धर्मार्थौ पृष्ठतः कृत्वा परचरन्ति नृशंसवत ॥ 9 ॥

  10. अशिष्टा गतमर्यादा लॊभेन हृतचेतसः सवेषु बन्धुषु मुख्येषु तद वेत्थ भरतर्षभ ॥ 10 ॥

  11. सेयम आपन महाघॊरा कुरुष्व एव समुत्थिता उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥ 11 ॥

  12. शक्या चेयं शमयितुं तवं चेद इच्छसि भारत न दुष्करॊ हय अत्र शमॊ मतॊ मे भरतर्षभ ॥ 12 ॥

  13. तवय्य अधीनः शमॊ राजन मयि चैव विशां पते पुत्रान सथापय कौरव्य सथापयिष्याम्य अहं परान ॥ 13 ॥

  14. आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः हितं बलवद अप्य एषां तिष्ठतां तव शासने ॥ 14 ॥

  15. तव चैव हितं राजन पाण्डवानाम अथॊ हितम शमे परयतमानस्य मम शासनकाङ्क्षिणाम ॥ 15 ॥

  16. सवयं निष्कलम आलक्ष्य संविधत्स्व विशां पते सह भूतास तु भरतास तवैव सयुर जनेश्वर ॥ 16 ॥

  17. धर्मार्थयॊर तिष्ठ राजन पाण्डवैर अभिरक्षितः न हि शक्यास तथा भूता यत्नाद अपि नराधिप ॥ 17 ॥

  18. न हि तवां पाण्डवैर जेतुं रक्ष्यमाणं महात्मभिः इन्द्रॊ ऽपि देवैः सहितः परसहेत कुतॊ नृपाः ॥ 18 ॥

  19. यत्र भीष्मश च दरॊणश च कृपः कर्णॊ विविंशतिः अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः ॥ 19 ॥

  20. सैन्धवश च कलिङ्गश च काम्बॊजश च सुदक्षिणः युधिष्ठिरॊ भीमसेनः सव्यसाची यमौ तथा ॥ 20 ॥

  21. सात्यकिश च महातेजा युयुत्सुश च महारथ कॊ नु तान विपरीतात्मा युध्येत भरतर्षभ ॥ 21 ॥

  22. लॊकस्येश्वरतां भूयः शत्रुभिश चाप्रधृष्यताम पराप्स्यसि तवम अमित्रघ्न सहितः कुरुपाण्डवैः ॥ 22 ॥

  23. तस्य ते पृथिवीपालास तवत्समाः पृथिवीपते शरेयांसश चैव राजानः संधास्यन्ते परंतप ॥ 23 ॥

  24. स तवं पुत्रैश च पौत्रैश च भरातृभिः पितृभिस तथा सुहृद्भिः सर्वतॊ गुप्तः सुखं शक्ष्यसि जीवितुम ॥ 24 ॥

  25. एतान एव पुरॊधाय सत्कृत्य च यथा पुरा अखिलां भिक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥ 25 ॥

  26. एतैर हि सहितः सर्वैः पाण्डवैः सवैश च भारत अन्यान विजेष्यसे शत्रून एष सवार्थस तवाखिलः ॥ 26 ॥

  27. तैर एवॊपार्जितां भूमिं भॊक्ष्यसे च परंतप यदि संपत्स्यसे पुत्रैः सहामात्यैर नराधिप ॥ 27 ॥

  28. संयुगे वै महाराज दृश्यते सुमहान कषयः कषये चॊभयतॊ राजन कं धर्मम अनुपश्यसि ॥ 28 ॥

  29. पाण्डवैर निहतैः संख्ये पुत्रैर वापि महाबलैः यद विन्देथाः सुखं राजंस तद बरूहि भरतर्षभ ॥ 29 ॥

  30. शूराश च हि कृतास्त्राश च सर्वे युद्धाभिकाङ्क्षिणः पाण्डवास तावकाश चैव तान रक्ष महतॊ भयात ॥ 30 ॥

  31. न पश्येम कुरून सर्वान पाण्डवांश चैव संयुगे कषीणान उभयतः शूरान रथेभ्यॊ रथिभिर हतान ॥ 31 ॥

  32. समवेताः पृथिव्यां हि राजानॊ राजसत्तम अमर्षवशम आपन्ना नाशयेयुर इमाः परजाः ॥ 32 ॥

  33. तराहि राजन्न इमं लॊकं न नश्येयुर इमाः परजाः तवयि परकृतिम आपन्ने शेषं सयात कुरुनन्दन ॥ 33 ॥

  34. शुक्ला वदान्या हरीमन्त आर्याः पुण्याभिजातयः अन्यॊन्यसचिवा राजंस तान पाहि महतॊ भयात ॥ 34 ॥

  35. शिवेनेमे भूमिपालाः समागम्य परस्परम सह भुक्त्वा च पीत्वा च परतियान्तु यथा गृहम ॥ 35 ॥

  36. सुवाससः सरग्विणश च सत्कृत्य भरतर्षभ अमर्षांश च निराकृत्य वैराणि च परंतप ॥ 36 ॥

  37. हार्दं यत पाण्डवेष्व आसीत पराप्ते ऽसमिन्न आयुषः कषये तद एव ते भवत्य अद्य शश्वच च भरतर्षभ ॥ 37 ॥

  38. बाला विहीनाः पित्रा ते तवयैव परिवर्धिताः तान पालय यथान्यायं पुत्रांश च भरतर्षभ ॥ 38 ॥

  39. भवतैव हि रक्ष्यास ते वयसनेषु विशेषतः मा ते धर्मस तथैवार्थॊ नश्येत भरतर्षभ ॥ 39 ॥

  40. आहुस तवां पाण्डवा राजन्न अभिवाद्य परसाद्य च भवतः शासनाद दुःखम अनुभूतं सहानुगैः ॥ 40 ॥

  41. दवादशेमानि वर्षाणि वने निर्व्युषितानि नः तरयॊदशं तथाज्ञातैः सजने परिवत्सरम ॥ 41 ॥

  42. सथाता नः समये तस्मिन पितेति कृतनिश्चयाः नाहास्म समयं तात तच च नॊ बराह्मणा विदुः ॥ 42 ॥

  43. तस्मिन नः समये तिष्ठ सथितानां भरतर्षभ नित्यं संक्लेशिता राजन सवराज्यांशं लभेमहि ॥ 43 ॥

  44. तवं धर्मम अर्थं युञ्जानः सम्यङ नस तरातुम अर्हसि गुरुत्वं भवति परेक्ष्य बहून कलेशांस तितिक्ष्महे ॥ 44 ॥

  45. स भवान मातृपितृवद अस्मासु परतिपद्यताम गुरॊर गरीयसी वृत्तिर या च शिष्यस्य भारत ॥ 45 ॥

  46. पित्रा सथापयितव्या हि वयम उत्पथम आस्थिताः संस्थापय पथिष्व अस्मांस तिष्ठ राजन सववर्त्मनि ॥ 46 ॥

  47. आहुश चेमां परिषदं पुत्रास ते भरतर्षभ धर्मज्ञेषु सभासत्सु नेह युक्तम असांप्रतम ॥ 47 ॥

  48. यत्र धर्मॊ हय अधर्मेण सत्यं यत्रानृतेन च हन्यते परेक्षमाणानां हतास तत्र सभासदः ॥ 48 ॥

  49. विद्धॊ धर्मॊ हय अधर्मेण सभां यत्र परपद्यते न चास्य शल्यं कृन्तन्ति विद्धास तत्र सभासदः धर्म एतान आरुजति यथा नद्य अनुकूलजान ॥ 49 ॥

  50. ये धर्मम अनुपश्यन्तस तूष्णीं धयायन्त आसते ते सत्यम आहुर धर्मं च नयाय्यं च भरतर्षभ ॥ 50 ॥

  51. शक्यं किम अन्यद वक्तुं ते दानाद अन्यज जनेश्वर बरुवन्तु वा महीपालाः सभायां ये समासते धर्मार्थौ संप्रधार्यैव यदि सत्यं बरवीम्य अहम ॥ 51 ॥

  52. परमुञ्चेमान मृत्युपाशात कषत्रियान कषत्रियर्षभ परशाम्य भरतश्रेष्ठ मा मन्युवशम अन्वगाः ॥ 52 ॥

  53. पित्र्यं तेभ्यः परदायांशं पाण्डवेभ्यॊ यथॊचितम ततः सपुत्रः सिद्धार्थॊ भुङ्क्ष्व भॊगान परंतप ॥ 53 ॥

  54. अजातशत्रुं जानीषे सथितं धर्मे सतां सदा सपुत्रे तवयि वृत्तिं च वर्तते यां नराधिप ॥ 54 ॥

  55. दाहितश च निरस्तश च तवाम एवॊपाश्रितः पुनः इन्द्रप्रस्थं तवयैवासौ सपुत्रेण विवासितः ॥ 55 ॥

  56. स तत्र निवसन सर्वान वशम आनीय पार्थिवान तवन मुखान अकरॊद राजन न च तवाम अत्यवर्तत ॥ 56 ॥

  57. तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता राष्ट्राणि धनधान्यं च परयुक्तः परमॊपधिः ॥ 57 ॥

  58. स ताम अवस्थां संप्राप्य कृष्णां परेक्ष्य सभा गताम कषत्रधर्माद अमेयात्मा नाकम्पत युधिष्ठिरः ॥ 58 ॥

  59. अहं तु तव तेषां च शरेय इच्छामि भारत धर्माद अर्थात सुखाच चैव मा राजन नीनशः परजाः ॥ 59 ॥

  60. अनर्थम अर्थं मन्वाना अर्थं वानर्थम आत्मनः लॊभे ऽतिप्रसृतान पुत्रान निगृह्णीष्व विशां पते ॥ 60 ॥

  61. सथिताः शुश्रूषितुं पार्थाः सथिता यॊद्धुम अरिंदमाः यत ते पथ्यतमं राजंस तस्मिंस तिष्ठ परंतप ॥ 61 ॥

  62. तद वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन न तत्र कश चिद वक्तुं हि वाचं पराकामद अग्रतः ॥ 62 ॥

Reach this point to mark the section finished.

Continue to अध्याय 94

Previous: अध्याय 92