[व] तथा कथयतॊर एव तयॊर बुद्धिमतॊस तदा शिवा नक्षत्रसंपन्ना सा वयतीयाय शर्वरी ॥ 1 ॥
धर्मार्थकामयुक्ताश च विचित्रार्थपदाक्षराः शृण्वतॊ विविधा वाचॊ विदुरस्य महात्मनः ॥ 2 ॥
कथाभिर अनुरूपाभिः कृष्णस्यामित तेजसः अकामस्येव कृष्णस्य सा वयतीयाय शर्वरी ॥ 3 ॥
ततस तु सवरसंपन्ना बहवः सूतमागधाः शङ्खदुन्दुभिनिर्घॊषैः केशवं परत्यबॊधयन ॥ 4 ॥
तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम सर्वम आवश्यकं चक्रे परातः कार्यं जनार्दनः ॥ 5 ॥
कृतॊद कार्यजप्यः स हुताग्निः समलंकृतः तत आदित्यम उद्यन्तम उपातिष्ठत माधवः ॥ 6 ॥
अथ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः संध्यां तिष्ठन्तम अभ्येत्य दाशार्हम अपराजितम ॥ 7 ॥
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभा गतम कुरूंश च भीष्म परमुखान राज्ञः सर्वांश च पार्थिवान ॥ 8 ॥
तवाम अर्थयन्ते गॊविन्द दिवि शक्रम इवामराः ताव अभ्यनन्दद गॊविन्दः साम्ना परमवल्गुना ॥ 9 ॥
ततॊ विमल आदित्ये बराह्मणेभ्यॊ जनार्दनः ददौ हिरण्यं वासांसि गाश चाश्वांश च परंतपः ॥ 10 ॥
विसृष्टवन्तं रत्नानि दाशार्हम अपराजितम तिष्ठन्तम उपसंगम्य ववन्दे सारथिस तदा ॥ 11 ॥
तम उपस्थितम आज्ञाय रथं दिव्यं महामनाः महाभ्रघननिर्घॊषं सर्वरत्नविभूषितम ॥ 12 ॥
अग्निं परदक्षिणं कृत्वा बराह्मणांश च जनार्दनः कौस्तुभं मणिम आमुच्य शरिया परमया जवलन ॥ 13 ॥
कुरुभिः संवृतः कृष्णॊ वृष्णिभिश चाभिरक्षितः आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥ 14 ॥
अन्वारुरॊह दाशार्हं विदुरः सर्वधर्मवित सर्वप्राणभृतां शरेष्ठं सर्वधर्मभृतां वरम ॥ 15 ॥
ततॊ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः दवितीयेन रथेनैनम अन्वयातां परंतपम ॥ 16 ॥
सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः पृष्ठतॊ ऽनुययुः कृष्णं रथैर अश्वैर गजैर अपि ॥ 17 ॥
तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः गच्छतां घॊषिणश चित्राश चारु बभ्राजिरे रथाः ॥ 18 ॥
संमृष्टसंसिक्त रजः परतिपेदे महापथम राजर्षिचरितं काले कृष्णॊ धीमाञ शरिया जवलन ॥ 19 ॥
ततः परयाते दाशार्हे परावाद्यन्तैक पुष्कराः शङ्खाश च दध्मिरे तत्र वाद्यान्य अन्यानि यानि च ॥ 20 ॥
परवीराः सर्वलॊकस्य युवानः सिंहविक्रमाः परिवार्य रथं शौरेर अगच्छन्त परंतपाः ॥ 21 ॥
ततॊ ऽनये बहुसाहस्रा विचित्राद्भुत वाससः असि परासायुध धराः कृष्णस्यासन पुरःसराः ॥ 22 ॥
गजाः परःशतास तत्र वराश चाश्वाः सहस्रशः परयान्तम अन्वयुर वीरं दाशार्हम अपराजितम ॥ 23 ॥
पुरं कुरूणां संवृत्तं दरष्टुकामं जनार्दनम सवृद्धबालं सस्त्रीकं रथ्या गतम अरिंदमम ॥ 24 ॥
वेदिकापाश्रिताभिश च समाक्रान्तान्य अनेकशः परचलन्तीव भारेण यॊषिद्भिर भवनान्य उत ॥ 25 ॥
संपूज्यमानः कुरुभिः संशृण्वन विविधाः कथाः यथार्हं परतिसत्कुर्वन परेक्षमाणः शनैर ययौ ॥ 26 ॥
ततः सभां समासाद्य केशवस्यानुयायिनः सशङ्खैर वेणुनिर्घॊषैर दिशः सर्वा वयनादयन ॥ 27 ॥
ततः सा समितिः सर्वा राज्ञाम अमिततेजसाम संप्राकम्पत हर्षेण कृष्णागमन काङ्क्षया ॥ 28 ॥
ततॊ ऽभयाशगते कृष्णे समहृष्यन नराधिपाः शरुत्वा तं रथनिर्घॊषं पर्यज्ञ्य निनदॊपमम ॥ 29 ॥
आसाद्य तु सभा दवारम ऋषभः सर्वसात्वताम अवतीर्य रथाच छौरिः कैलासशिखरॊपमात ॥ 30 ॥
नगमेघप्रतीकाशां जवलन्तीम इव तेजसा महेन्द्र सदन परख्यां परविवेश सभां ततः ॥ 31 ॥
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः जयॊतींष्य आदित्यवद राजन कुरून परच्छादयञ शरिया ॥ 32 ॥
अग्रतॊ वासुदेवस्य कर्णदुर्यॊधनाव उभौ वृष्णयः कृतवर्मा च आसन कृष्णस्य पृष्ठतः ॥ 33 ॥
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रॊणादयस ततः आसनेभ्यॊ ऽचलन सर्वे पूजयन्तॊ जनार्दनम ॥ 34 ॥
अभ्यागच्छति दाशार्हे परज्ञा चक्षुर महामनाः सहैव भीष्मद्रॊणाभ्याम उदतिष्ठन महायशाः ॥ 35 ॥
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥ 36 ॥
आसनं सर्वतॊभद्रं जाम्बूनदपरिष्कृतम कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात ॥ 37 ॥
समयमानस तु राजानं भीष्मद्रॊणौ च माधवः अभ्यभाषत धर्मात्मा राज्ञश चान्यान यथा वयः ॥ 38 ॥
तत्र केशवम आनर्चुः सम्यग अभ्यागतं सभाम राजानः पार्थिवाः सर्वे कुरवश च जनार्दनम ॥ 39 ॥
तत्र तिष्ठन स दाशार्हॊ राजमध्ये परंतपः अपश्यद अन्तरिक्षस्थान ऋषीन परपुरंजयः ॥ 40 ॥
ततस तान अभिसंप्रेक्ष्य नारदप्रमुखान ऋषीन अभ्यभाषत दाशार्हॊ भीष्मं शांतनवं शनैः ॥ 41 ॥
पार्थिवीं समितिं दरष्टुम ऋषयॊ ऽभयागता नृप निमन्त्र्यताम आसनैश च सत्कारेण च भूयसा ॥ 42 ॥
नैतेष्व अनुपविष्टेषु शक्यं केन चिद आसितुम पूजा परयुज्यताम आशु मुनीनां भावितात्मनाम ॥ 43 ॥
ऋषीञ शांतनवॊ दृष्ट्वा सभा दवारम उपस्थितान तवरमाणस ततॊ भृत्यान आसनानीत्य अचॊदयत ॥ 44 ॥
आसनान्य अथ मृष्टानि महान्ति विपुलानि च मणिकाञ्चनचित्राणि समाजह्रुस ततस ततः ॥ 45 ॥
तेषु तत्रॊपविष्टेषु गृहीतार्धेषु भारत निषसादासने कृष्णॊ राजानश च यथासनम ॥ 46 ॥
दुःशासनः सात्यकये ददाव आसनम उत्तमम विविंशतिर ददौ पीठं काञ्चनं कृतवर्मणे ॥ 47 ॥
अविदूरे ऽथ कृष्णस्य कर्णदुर्यॊधनाव उभौ एकासने महात्मानौ निषीदतुर अमर्षणौ ॥ 48 ॥
गान्धारराजः शकुनिर गान्धारैर अभिरक्षितः निषसादासने राजा सह पुत्रॊ विशां पते ॥ 49 ॥
विदुरॊ मणिपीठे तु शुक्लस्पर्ध्याजिनॊत्तरे संस्पृशन्न आसनं शौरेर महामतिर उपाविशत ॥ 50 ॥
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः अमृतस्येव नातृप्यन परेक्षमाणा जनार्दनम ॥ 51 ॥
अतसी पुष्पसंकाशः पीतवासा जनार्दनः वयभ्राजत सभामध्ये हेम्नीवॊपहितॊ मणिः ॥ 52 ॥
ततस तूष्णीं सर्वम आसीद गॊविन्द गतमानसम न तत्र कश चित किं चिद धि वयाजहार पुमान कव चित ॥ 53 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 92
Reach this point to mark the section finished.
Continue to अध्याय 93