[व] तं भुक्तवन्तम आश्वस्तं निशायां विदुरॊ ऽबरवीत नेदं सम्यग वयवसितं केशवागमनं तव ॥ 1 ॥
अर्धधर्मातिगॊ मूढः संरम्भी च जनार्दन मानघ्नॊ मानकामश च वृद्धानां शासनातिगः ॥ 2 ॥
धर्मशास्त्रातिगॊ मन्दॊ दुरात्मा परग्रहं गतः अनेयः शरेयसां पापॊ धार्तराष्ट्रॊ जनार्दन ॥ 3 ॥
कामात्मा पराज्ञमानी च मित्रध्रुक सर्वशङ्कितः अकर्ता चाकृतज्ञश च तयक्तधर्मः परियानृतः ॥ 4 ॥
एतैश चान्यैश च बहुभिर दॊषैर एष समन्वितः तवयॊच्यमानः शरेयॊ ऽपि संरम्भान न गरहीष्यति ॥ 5 ॥
सेना समुदयं दृष्ट्वा पार्थिवं मधुसूदन कृतार्थं मन्यते बाल आत्मानम अविचक्षणः ॥ 6 ॥
एकः कर्णः पराञ जेतुं समर्थ इति निश्चितम धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नॊपयास्यति ॥ 7 ॥
भीष्मे दरॊणे कृपे कर्णे दरॊणपुत्रे जयद्रथे भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥ 8 ॥
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन भीष्मद्रॊणकृपान पार्था न शक्ताः परतिवीक्षितुम ॥ 9 ॥
संविच च धार्तराष्ट्राणां सर्वेषाम एव केशव शमे परयतमानस्य तव सौभ्रात्र काङ्क्षिणः ॥ 10 ॥
न पाण्डवानाम अस्माभिः परतिदेयं यथॊचितम इति वयवसितास तेषु वचनं सयान निरर्थकम ॥ 11 ॥
यत्र सूक्तं दुरुक्तं च समं सयान मधुसूदन न तत्र परलपेत पराज्ञॊ बधिरेष्व इव गायनः ॥ 12 ॥
अविजानत्सु मूढेषु निर्मर्यादेषु माधव न तवं वाक्यं बरुवन युक्तश चाण्डालेषु दविजॊ यथा ॥ 13 ॥
सॊ ऽयं बलस्थॊ मूढश च न करिष्यति ते वचः तस्मिन निरर्थकं वाक्यम उक्तं संपत्स्यते तव ॥ 14 ॥
तेषां समुपविष्टानां सर्वेषां पापचेतसाम तव मध्यावतरणं मम कृष्ण न रॊचते ॥ 15 ॥
दुर्बुद्धीनाम अशिष्टानां बहूनां पापचेतसाम परतीपं वचनं मध्ये तव कृष्ण न रॊचते ॥ 16 ॥
अनुपासितवृद्धत्वाच छरिया मॊहाच च दर्पितः वयॊ दर्पाद अमर्षाच च न ते शरेयॊ गरहीष्यति ॥ 17 ॥
बलं बलवद अप्य अस्य यदि वक्ष्यसि माधव तवय्य अस्य महती शङ्का न करिष्यति ते वचः ॥ 18 ॥
नेदम अद्य युधा शक्यम इन्द्रेणापि सहामरैः इति वयवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥ 19 ॥
तेष्व एवम उपपन्नेषु कामक्रॊधानुवर्तिषु समर्थम अपि ते वाक्यम असमर्थं भविष्यति ॥ 20 ॥
मध्ये तिष्ठन हस्त्यनीकस्य मन्दॊ; रथाश्वयुक्तस्य बलस्य मूढः दुर्यॊधनॊ मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति ॥ 21 ॥
आशंसते धृतराष्ट्रस्य पुत्रॊ; महाराज्यम असपत्नं पृथिव्याम तस्मिञ शमः केवलॊ नॊपलभ्यॊ; बद्धं सन्तम आगतं मन्यते ऽरथम ॥ 22 ॥
पर्यस्तेयं पृथिवी कालपक्वा; दुर्यॊधनार्थे पाण्डवान यॊद्धुकामाः समागताः सर्वयॊधाः पृथिव्यां; राजानश च कषितिपालैः समेताः ॥ 23 ॥
सर्वे चैते कृतवैराः पुरस्तात; तवया राजानॊ हृतसाराश च कृष्ण तवॊद्वेगात संश्रिता धार्तराष्ट्रान; सुसंहताः सह कर्णेन वीराः ॥ 24 ॥
तयक्तात्मानः सह दुर्यॊधनेन; सृष्टा यॊद्धुं पाण्डवान सर्वयॊधाः तेषां मध्ये परविशेथा यदि तवं; न तन मतं मम दाशार्ह वीर ॥ 25 ॥
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम कथं मध्यं परपद्येथाः शत्रूणां शत्रुकर्शन ॥ 26 ॥
सर्वथा तवं महाबाहॊ देवैर अपि दुरुत्सहः परभावं पौरुषं बुद्धिं जानामि तव शत्रुहन ॥ 27 ॥
या मे परीतिः पाण्डवेषु भूयः सा तवयि माधव परेम्णा च बहुमानाच च सौहृदाच च बरवीम्य अहम ॥ 28 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91