[व] पृथाम आमन्त्र्य गॊविन्दः कृत्वा चापि परदक्षिणम दुर्यॊधन गृहं शौरिर अभ्यगच्छद अरिंदमः ॥ 1 ॥
लक्ष्म्या परमया युक्तं पुरंदर गृहॊपमम तस्य कक्ष्या वयतिक्रम्य तिस्रॊ दवाःस्थैर अवारितः ॥ 2 ॥
ततॊ ऽभरघनसंकाशं गिरिकूटम इवॊच्छ्रितम शरिया जवलन्तं परासादम आरुरॊह महायशाः ॥ 3 ॥
तत्र राजसहस्रैश च कुरुभिश चाभिसंवृतम धार्तराष्ट्रं महाबाहुं ददर्शासीनम आसने ॥ 4 ॥
दुःशासनं च कर्णं च शकुनिं चापि सौबलम दुर्यॊधन समीपे तान आसनस्थान ददर्श सः ॥ 5 ॥
अभ्यागच्छति दाशार्हे धार्तराष्ट्रॊ महायशाः उदतिष्ठत सहामात्यः पूजयन मधुसूदनम ॥ 6 ॥
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः राजभिस तत्र वार्ष्णेयः समागच्छद यथा वयः ॥ 7 ॥
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम विविधास्तरणास्तीर्णम अभ्युपाविशद अच्युतः ॥ 8 ॥
तस्मिन गां मधुपर्कं च उपहृत्य जनार्दने निवेदयाम आस तदा गृहान राज्यं च कौरवः ॥ 9 ॥
तत्र गॊविन्दम आसीनं परसन्नादित्य वर्चसम उपासां चक्रिरे सर्वे कुरवॊ राजभिः सह ॥ 10 ॥
ततॊ दुर्यॊधनॊ राजा वार्ष्णेयं जयतां वरम नयमन्त्रयद भॊजनेन नाभ्यनन्दच च केशवः ॥ 11 ॥
ततॊ दुर्यॊधनः कृष्णम अब्रवीद राजसंसदि मृदुपूर्वं शठॊदर्कं कर्णम आभाष्य कौरवः ॥ 12 ॥
कस्माद अन्नानि पानानि वासांसि शयनानि च तवदर्थम उपनीतानि नाग्रहीस तवं जनार्दन ॥ 13 ॥
उभयॊश चाददः साह्यम उभयॊश च हते रतः संबन्धी दयितश चासि धृतराष्ट्रस्य माधव ॥ 14 ॥
तवं हि गॊविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः तत्र कारणम इच्छामि शरॊतुं चक्रगदाधर ॥ 15 ॥
स एवम उक्तॊ गॊविन्दः परत्युवाच महामनाः ओघमेघस्वनः काले परगृह्य विपुलं भुजम ॥ 16 ॥
अनम्बू कृतम अग्रस्तम अनिरस्तम असंकुलम राजीवनेत्रॊ राजानं हेतुमद्वाक्यम उत्तमम ॥ 17 ॥
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि कृतार्थं मां सहामात्यस तवम अर्चिष्यसि भारत ॥ 18 ॥
एवम उक्तः परत्युवाच धार्तराष्ट्रॊ जनार्दनम न युक्तं भवतास्मासु परतिपत्तुम असांप्रतम ॥ 19 ॥
कृतार्थं चाकृतार्थं च तवां वयं मधुसूदन यतामहे पूजयितुं गॊविन्द न च शक्नुमः ॥ 20 ॥
न च तत कारणं विद्मॊ यस्मिन नॊ मधुसूदन पूजां कृतां परीयमाणैर नामंस्थाः पुरुषॊत्तम ॥ 21 ॥
वैरं नॊ नास्ति भवता गॊविन्द न च विग्रहः स भवान परसमीक्ष्यैतन नेदृशं वक्तुम अर्हति ॥ 22 ॥
एवम उक्तः परत्युवाच धार्तराष्ट्रं जनार्दनः अभिवीक्ष्य सहामात्यं दाशार्हः परहसन्न इव ॥ 23 ॥
नाहं कामान न संरम्भान न दवेषान नार्थकारणात न हेतुवादाल लॊभाद वा धर्मं जह्यां कथं चन ॥ 24 ॥
संप्रीति भॊज्यान्य अन्नानि आपद भॊज्यानि वा पुनः न च संप्रीयसे राजन न चाप्य आपद गता वयम ॥ 25 ॥
अकस्माद दविषसे राजञ जन्मप्रभृति पाण्डवान परियानुवर्तिनॊ भरातॄन सर्वैः समुदितान गुणैः ॥ 26 ॥
अकस्माच चैव पार्थानां दवेषणं नॊपपद्यते धर्मे सथिताः पाण्डवेयाः कस तान किं वक्तुम अर्हति ॥ 27 ॥
यस तान दवेष्टि स मां दवेष्टि यस तान अनु स माम अनु ऐकात्म्यं मां गतं विद्धि पाण्डवैर धर्मचारिभिः ॥ 28 ॥
कामक्रॊधानुवर्ती हि यॊ मॊहाद विरुरुत्सते गुणवन्तं च यॊ दवेष्टि तम आहुः पुरुषाधमम ॥ 29 ॥
यः कल्याण गुणाञ जञातीन मॊहाल लॊभाद दिदृक्षते सॊ ऽजितात्माजित करॊधॊ नचिरं तिष्ठति शरियम ॥ 30 ॥
अथ यॊ गुणसंपन्नान हृदयस्याप्रियान अपि परियेण कुरुते वश्यांश चिरं यशसि तिष्ठति ॥ 31 ॥
सर्वम एतद अभॊक्तव्यम अन्नं दुष्टाभिसंहितम कषत्तुर एकस्य भॊक्तव्यम इति मे धीयते मतिः ॥ 32 ॥
एवम उक्त्वा महाबाहुर दुर्यॊधनम अमर्षणम निश्चक्राम ततः शुभ्राद धार्तराष्ट्र निवेशनात ॥ 33 ॥
निर्याय च महाबाहुर वासुदेवॊ महामनाः निवेशाय ययौ वेश्म विरुदस्य महात्मनः ॥ 34 ॥
तम अभ्यगच्छद दरॊणश च कृपॊ भीष्मॊ ऽथ बाह्लिकः कुरवश च महाबाहुं विरुदस्य गृहे सथितम ॥ 35 ॥
ते ऽभिगम्याब्रुवंस तत्र कुरवॊ मधुसूदनम निवेदयामॊ वार्ष्णेय सरत्नांस ते गृहान्वयम ॥ 36 ॥
तान उवाच महातेजाः कौरवान मधुसूदनः सर्वे भवन्तॊ गच्छन्तु सर्वा मे ऽपचितिः कृता ॥ 37 ॥
यातेषु कुरुषु कषत्ता दाशार्हम अपराजितम अभ्यर्चयाम आस तदा सर्वकामैः परयत्नवान ॥ 38 ॥
ततः कषत्तान्न पानानि शुचीनि गुणवन्ति च उपाहरद अनेकानि केशवाय महात्मने ॥ 39 ॥
तैर तर्पयित्वा परथमं बराह्मणान मधुसूदनः वेदविद्भ्यॊ ददौ कृष्णः परमद्रविणान्य अपि ॥ 40 ॥
ततॊ ऽनुयायिभिः सार्धं मरुद्भिर इव वासवः विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ 41 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90