धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 9

  1. [य] कथम इन्द्रेण राजेन्द्र सभार्येण महात्मना दुःखं पराप्तं परं घॊरम एतद इच्छामि वेदितुम ॥ 1 ॥

  2. [ष] शृणु राजन पुरावृत्तम इतिहासं पुरातनम सभार्येण यथा पराप्तं दुःखम इद्न्रेण भारत ॥ 2 ॥

  3. तवष्टा परजापतिर हय आसीद देव शरेष्ठॊ महातपाः सपुत्रं वै तरिशिरसम इन्द्र दरॊहात किलासृजत ॥ 3 ॥

  4. ऐन्द्रं स परार्थयत सथानं विश्वरूपॊ महाद्युतिः तैस तरिभिर वदनैर घॊरैः सूर्येन्दु जवलनॊपमैः ॥ 4 ॥

  5. वेदान एकेन सॊ ऽधीते सुराम एकेन चापिबत एकेन च दिशः सर्वाः पिबन्न इव निरीक्षते ॥ 5 ॥

  6. स तपस्वी मृदुर दान्तॊ धर्मे तपसि चॊद्यतः तपॊ ऽतप्यन महत तीव्रं सुदुश्चरम अरिंदम ॥ 6 ॥

  7. तस्य दृष्ट्वा तपॊ वीर्यं सत्त्वं चामिततेजसः विषादम अगमच छक्र इन्द्र्यॊ ऽयं मा भवेद इति ॥ 7 ॥

  8. कथं सज्जेत भॊगेषु न च तप्येन महत तपः विवर्धमानस तरिशिराः सर्वं तरिभुवनं गरसेत ॥ 8 ॥

  9. इति संचिन्त्य बहुधा बुद्धिमान भरतर्षभ आज्ञापयत सॊ ऽपसरसस तवष्टृपुत्र परलॊभने ॥ 9 ॥

  10. यथा स सज्जेत तरिशिराः कामभॊगेषु वै भृशम कषिप्रं कुरुत गच्छध्वं परलॊभयत माचिरम ॥ 10 ॥

  11. शृङ्गारवेषाः सुश्रॊण्यॊ भावैर युक्ता मनॊहरैः परलॊभयत भद्रं वः शमयध्वं भयं मम ॥ 11 ॥

  12. अस्वस्थं हय आत्मनात्मानं लक्षयामि वराङ्गनाः भयम एतन महाघॊरं कषिप्रं नाशयताबलाः ॥ 12 ॥

  13. तथा यत्नं करिष्यामः शक्र तस्य परलॊभने यथा नावाप्स्यसि भयं तस्माद बलनिषूदन ॥ 13 ॥

  14. निर्दहन्न इव चक्षुर्भ्यां यॊ ऽसाव आस्ते तपॊ निधिः तं परलॊभयितुं देव गच्छामः सहिता वयम यतिष्यामॊ वशे कर्तुं वयपनेतुं च ते भयम ॥ 14 ॥

  15. इन्द्रेण तास तव अनुज्ञाता जग्मुस तरिशिरसॊ ऽनतिकम तत्र ता विविधैर भावैर लॊभयन्त्यॊ वराङ्गनाः नृत्यं संदर्शयन्त्यश च तथैवाङ्गेषु सौष्ठवम ॥ 15 ॥

  16. विचेरुः संप्रहर्षं च नाभ्यगच्छन महातपाः इन्द्रियाणि वशे कृत्वा पूर्णसागर संनिभः ॥ 16 ॥

  17. तास तु यत्नं परं कृत्वा पुनः शक्रम उपस्थिताः कृताञ्जलिपुटाः सर्वा देवराजम अथाब्रुवन ॥ 17 ॥

  18. न स शक्यः सुदुर्धर्षॊ धैर्याच चालयितुं परभॊ यत ते कार्यं महाभाग करियतां तदनन्तरम ॥ 18 ॥

  19. संपूज्याप्सरसः शक्रॊ विसृज्य च महामतिः चिन्तयाम आस तस्यैव वधॊपायं महात्मनः ॥ 19 ॥

  20. स तूष्णीं चिन्तयन वीरॊ देवराजः परतापवान विनिश्चित मतिर धीमान वधे तरिशिरसॊ ऽभवत ॥ 20 ॥

  21. वज्रम अस्य कषिपाम्य अद्य स कषिप्रं न भविष्यति शत्रुः परवृद्धॊ नॊपेक्ष्यॊ दुर्बलॊ ऽपि बलीयसा ॥ 21 ॥

  22. शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृठाम अथ वैश्वानर निभं घॊररूपं भयावहम मुमॊच वज्रं संक्रुद्धः शक्रस तरिशिरसं परति ॥ 22 ॥

  23. स पपात हतस तेन वज्रेण दृढम आहतः पर्वतस्येव शिखरं परणुन्नं मेदिनी तले ॥ 23 ॥

  24. तं तु वज्रहतं दृष्ट्वा शयानम अचलॊपमम न शर्म लेभे देवेन्द्रॊ दीपितस तस्य तेजसा हतॊ ऽपि दीप्ततेजाः स जीवन्न इव च दृश्यते ॥ 24 ॥

  25. अभितस तत्र तक्षाणां घटमानं शचीपतिः अपश्यद अब्रवीच चैनं स तवरं पाकशासनः कषिप्रं छिन्धि शिरांस्य अस्य कुरुष्व वचनं मम ॥ 25 ॥

  26. महास्कन्धॊ भृशं हय एष परशुर न तरिष्यति कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर विगर्हितम ॥ 26 ॥

  27. मा भैस तवं कषिप्रम एतद वै कुरुष्व वचनं मम मत्प्रसादाद धि ते शस्त्रवर्ज कल्पं भविष्यति ॥ 27 ॥

  28. कं भवन्तम अहं विद्यां घॊरकर्माणम अद्य वै एतद इच्छाम्य अहं शरॊतुं तत्त्वेन कथयस्व मे ॥ 28 ॥

  29. अहम इन्द्रॊ देवराजस तक्षन विदितम अस्तु ते कुरुष्वैतद यथॊक्तं मे तक्षन मा तवं विचारय ॥ 29 ॥

  30. करूरेण नापत्रपसे कथं शक्रेह कर्मणा ऋषिपुत्रम इमं हत्वा बरह्महत्या भयं न ते ॥ 30 ॥

  31. पश्चाद धर्मं चरिष्यामि पावनार्थं सुदुश्चरम शत्रुर एष महावीर्यॊ वज्रेण निहतॊ मया ॥ 31 ॥

  32. अद्यापि चाहम उद्विग्नस तक्षन्न अस्माद बिभेमि वै कषिप्रं छिन्धि शिरांसि तवं करिष्ये ऽनुग्रहं तव ॥ 32 ॥

  33. शिरः पशॊस ते दास्यन्ति भागं यज्ञेषु मानवाः एष ते ऽनुग्रहस तक्षन कषिप्रं कुरु मम परियम ॥ 33 ॥

  34. एतच छरुत्वा तु तक्षा स महेन्द्र वचनं तदा शिरांस्य अथ तरिशिरसः कुठारेणाछिनत तदा ॥ 34 ॥

  35. निकृत्तेषु ततस तेषु निष्क्रामंस तरिशिरास तव अथ कपिञ्जलास तित्तिराश च कलविङ्काश च सर्वशः ॥ 35 ॥

  36. येन वेदान अधीते सम पिबते सॊमम एव च तस्माद वक्त्रान निविष्पेतुः कषिप्रं तस्य कपिञ्जलाः ॥ 36 ॥

  37. येन सर्वा दिशॊ राजन पीबन्न इव निरीक्षते तस्माद वक्त्राद विनिष्पेतुस तित्तिरास तस्य पाण्डव ॥ 37 ॥

  38. यत सुरापं तु तस्यासीद वक्त्रं तरिशिरसस तदा कलविङ्का विनिष्पेतुस तेनास्य भरतर्षभ ॥ 38 ॥

  39. ततस तेषु निकृत्तेषु विज्वरॊ मघवान अभूत जगाम तरिदिवं हृष्टस तक्षापि सवगृहान ययौ ॥ 39 ॥

  40. तवष्टा परजापतिः शरुत्वा शक्रेणाथ हतं सुतम करॊधसंरक्तनयन इदं वचनम अब्रवीत ॥ 40 ॥

  41. तप्यमानं तपॊनित्यं कषान्तं दान्तं जितेन्द्रियम अनापराधिनम यस्मात पुत्रं हिंसितवान मम ॥ 41 ॥

  42. तस्माच छक्र वधार्थाय वृत्रम उत्पादयाम्य अहम लॊकाः पश्यन्तु मे वीर्यं तपसश च बलं महत स च पश्यतु देवेन्द्रॊ दुरात्मा पापचेतनः ॥ 42 ॥

  43. उपस्पृश्य ततः करुद्धस तपस्वी सुमहायशाः अग्निं हुत्वा समुत्पाद्य घॊरं वृत्रम उवाच ह इन्द्रशत्रॊ विवर्धस्व परभावात तपसॊ मम ॥ 43 ॥

  44. सॊ ऽवर्धत दिवं सतब्ध्वा सूर्यवैश्वानरॊपमः किं करॊमीति चॊवाच कालसूर्य इवॊदितः शक्रं जहीति चाप्य उक्तॊ जगाम तरिदिवं ततः ॥ 44 ॥

  45. ततॊ युद्धं समभवद वृत्रवासवयॊस तदा संक्रुद्धयॊर महाघॊरं परसक्तं कुरुसत्तम ॥ 45 ॥

  46. ततॊ जग्राह देवेन्द्रं वृत्रॊ वीरः शतक्रतुम अपावृत्य स जग्रास वृत्रः करॊधसमन्वितः ॥ 46 ॥

  47. गरस्ते वक्त्रेण शक्रे तु संभ्रान्तास तरिदशास तदा असृजंस ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम ॥ 47 ॥

  48. विजृम्भमाणस्य ततॊ वृत्रस्यास्याद अपावृतात सवान्य अङ्गान्य अभिसंक्षिप्य निष्क्रान्तॊ बलसूदनः ततः परभृति लॊकेषु जृम्भिका पराणिसंश्रिता ॥ 48 ॥

  49. जहृषुश च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम ततः परववृते युद्धं वृत्रवासवयॊः पुनः संरब्धयॊस तदा घॊरं सुचिरं भरतर्षभ ॥ 49 ॥

  50. यदा वयवर्धत रणे वृत्रॊ बलसमन्वितः तवष्टुस तपॊबलाद विद्वांस तदा शक्रॊ नयवर्तत ॥ 50 ॥

  51. निवृत्ते तु तदा देवा विषादम अगमन परम समेत्य शक्रेण च ते तवष्टुस तेजॊ विमॊहिताः अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ॥ 51 ॥

  52. किं कार्यम इति ते राजन विचिन्त्य भयमॊहिताः जग्मुः सर्वे महात्मानं मनॊभिर विष्णुम अव्ययम उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8