धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 8

  1. [व] शल्यः शरुत्वा तु दूतानां सैन्येन महता वृतः अभ्ययात पाण्डवान राजन सह पुत्रैर महारथैः ॥ 1 ॥

  2. तस्य सेनानिवेशॊ ऽभूद अध्यर्धम इव यॊजनम तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥ 2 ॥

  3. विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥ 3 ॥

  4. सवदेशवेषाभरणा वीराः शतसहस्रशः तस्य सेना परणेतारॊ बभूवुः कषत्रियर्षभाः ॥ 4 ॥

  5. वयथयन्न इव भूतानि कम्पयन्न इव मेदिनीम शनैर विश्रामयन सेनां स ययौ येन पाण्डवः ॥ 5 ॥

  6. ततॊ दुर्यॊधनः शरुत्वा महासेनं महारथम उपायान्तम अभिद्रुत्य सवयम आनर्च भारत ॥ 6 ॥

  7. कारयाम आस पूजार्थं तस्य दुर्यॊधनः सभाः रमणीयेषु देशेषु रत्नचित्राः सवलंकृताः ॥ 7 ॥

  8. स ताः सभाः समासाद्य पूज्यमानॊ यथामरः दुर्यॊधनस्य सचिवैर देशे देशे यथार्हतः आजगाम सभाम अन्यां देवावसथ वर्चसम ॥ 8 ॥

  9. स तत्र विषयैर युक्तः कल्याणैर अतिमानुषैः मेने ऽभयधिकम आत्मानम अवमेने पुरंदरम ॥ 9 ॥

  10. पप्रच्छ स ततः परेष्यान परहृष्टः कषत्रियर्षभः युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः आनीयन्तां सभा काराः परदेयार्हा हि मे मताः ॥ 10 ॥

  11. गूढॊ दुर्यॊधनस तत्र दर्शयाम आस मातुलम तं दृष्ट्वा मद्रराजस तु जञात्वा यत्नं च तस्य तम परिष्वज्याब्रवीत परीत इष्टॊ ऽरथॊ गृह्यताम इति ॥ 11 ॥

  12. सत्यवाग भव कल्याण वरॊ वै मम दीयताम सर्वसेना परणेता मे भवान भवितुम अर्हति ॥ 12 ॥

  13. कृतम इत्य अब्रवीच छल्यः किम अन्यत करियताम इति कृतम इत्य एव गान्धारिः परत्युवाच पुनः पुनः ॥ 13 ॥

  14. स तथा शल्यम आमन्त्र्य पुनर आयात सवकं पुरम शल्यॊ जगाम कौन्तेयान आख्यातुं कर्म तस्य तत ॥ 14 ॥

  15. उपप्लव्यं स गत्वा तु सकन्धावारं परविश्य च पाण्डवान अथ तान सर्वाञ शल्यस तत्र ददर्श ह ॥ 15 ॥

  16. समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस तदा पाद्यम अर्घ्यं च गां चैव परत्यगृह्णाद यथाविधि ॥ 16 ॥

  17. ततः कुशलपूर्वं स मद्रराजॊ ऽरिसूदनः परीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम ॥ 17 ॥

  18. तथा भीमार्जुनौ हृष्टौ सवस्रीयौ च यमाव उभौ आसने चॊपविष्टस तु शल्यः पार्थम उवाच ह ॥ 18 ॥

  19. कुशलं राजशार्दूल कच चित ते कुरुनन्दन अरण्यवासाद दिष्ट्यासि विमुक्तॊ जयतां वर ॥ 19 ॥

  20. सुदुष्करं कृतं राजन निर्जने वसता वने भरातृभिः सह राजेन्द्र कृष्णया चानया सह ॥ 20 ॥

  21. अज्ञातवासं घॊरं च वसता दुष्करं कृतम दुःखम एव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥ 21 ॥

  22. दुःखस्यैतस्य महतॊ धार्तराष्ट्र कृतस्य वै अवाप्स्यसि सुखं राजन हत्वा शत्रून परंतप ॥ 22 ॥

  23. विदितं ते महाराज लॊकतत्त्वं नराधिप तस्माल लॊभकृतं किं चित तव तात न विद्यते ॥ 23 ॥

  24. ततॊ ऽसयाकथयद राजा दुयॊधन समागमम तच च शुश्रूषितं सर्वं वरदानं च भारत ॥ 24 ॥

  25. सुकृतं ते कृतं राजन परहृष्टेनान्तरात्मना दुर्यॊधनस्य यद वीर तवया वाचा परतिश्रुतम एकं तव इच्छामि भद्रं ते करियमाणं महीपते ॥ 25 ॥

  26. भवान इह महाराज वासुदेव समॊ युधि कर्णार्जुनाभ्यां संप्राप्ते दवैरथे राजसत्तम कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ 26 ॥

  27. तत्र पाल्यॊ ऽरजुनॊ राजन यदि मत्प्रियम इच्छसि तेजॊवधश च ते कार्यः सौतेर अस्मज जया वहः अकर्तव्यम अपि हय एतत कर्तुम अर्हसि मातुल ॥ 27 ॥

  28. शृणु पाण्डव भद्रं ते यद बरवीषि दुरात्मनः तेजॊवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥ 28 ॥

  29. अहं तस्य भविष्यामि संग्रामे सारथिर धरुवम वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥ 29 ॥

  30. तस्याहं कुरुशार्दूल परतीपम अहितं वचः धरुवं संकथयिष्यामि यॊद्धुकामस्य संयुगे ॥ 30 ॥

  31. यथा स हृतदर्पश च हृततेजाश च पाण्डव भविष्यति सुखं हन्तुं सत्यम एतद बरवीमि ते ॥ 31 ॥

  32. एवम एतत करिष्यामि यथा तात तवम आत्थ माम यच चान्यद अपि शक्ष्यामि तत करिष्यामि ते परियम ॥ 32 ॥

  33. यच च दुःखं तवया पराप्तं दयूते वै कृष्णया सह परुषाणि च वाक्यानि सूतपुत्र कृतानि वै ॥ 33 ॥

  34. जटासुरात परिक्लेशः कीचकाच च महाद्युते दरौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम ॥ 34 ॥

  35. सर्वं दुःखम इदं वीर सुखॊदर्कं भविष्यति नात्र मन्युस तवया कार्यॊ विधिर हि बलवत्तरः ॥ 35 ॥

  36. दुःखानि हि महात्मानः पराप्नुवन्ति युधिष्ठिर देवैर अपि हि दुःखानि पराप्तानि जगतीपते ॥ 36 ॥

  37. इन्द्रेण शरूयते राजन सभार्येण महात्मना अनुभूतं महद दुःखं देवराजेन भारत ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7