[इ] सर्वं वयाप्तम इदं देवा वृत्रेण जगद अव्ययम न हय अस्य सदृशं किं चित परतिघाताय यद भवेत ॥ 1 ॥
समर्थॊ हय अभवं पूर्वम असमर्थॊ ऽसमि सांप्रतम कथं कुर्यां नु भद्रं वॊ दुष्प्रधर्षः स मे मतः ॥ 2 ॥
तेजस्वी च महात्मा च युद्धे चामितविक्रमः गरसेत तरिभुवनं सर्वं स देवासुरमानुषम ॥ 3 ॥
तस्माद विनिश्चयम इमं शृणुध्वं मे दिवौकसः विष्णॊः कषयम उपागम्य समेत्य च महात्मना तेन संमन्त्र्य वेत्स्यामॊ वधॊपायं दुरात्मनः ॥ 4 ॥
एवम उक्ते मघवता देवाः सर्षिगणास तदा शरण्यं शरणं देवं जग्मुर विष्णुं महाबलम ॥ 5 ॥
ऊचुश च सर्वे देवेशं विष्णुं वृत्र भयार्दिताः तवया लॊकास तरयः करान्तास तरिभिर विक्रमणैः परभॊ ॥ 6 ॥
अमृतं चाहृतं विष्णॊ दैत्याश च निहता रणे बलिं बद्ध्वा महादैत्यं शक्रॊ देवाधिपः कृतः ॥ 7 ॥
तवं परभुः सर्वलॊकानां तवया सर्वम इदं ततम तवं हि देवमहादेवः सर्वलॊकनमस्कृतः ॥ 8 ॥
गतिर भव तवं देवानां सेन्द्राणाम अमरॊत्तम जगद वयाप्तम इदं सर्वं वृत्रेणासुरसूदन ॥ 9 ॥
अवश्यं करणीयं मे भवतां हितम उत्तमम तस्माद उपायं वक्ष्यामि यथासौ न भविष्यति ॥ 10 ॥
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक साम तस्य परयुञ्जध्वं तत एनं विजेष्यथ ॥ 11 ॥
भविष्यति गतिर देवाः शक्रस्य मम तेजसा अदृश्यश च परवेक्ष्यामि वज्रम अस्यायुधॊत्तमम ॥ 12 ॥
गच्छध्वम ऋषिभिः सार्धं गन्धर्वैश च सुरॊत्तमाः वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम ॥ 13 ॥
एवम उक्तास तु देवेन ऋषयस तरिदशास तथा ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम ॥ 14 ॥
समीपम एत्य च तदा सर्व एव महौजसः तं तेजसा परज्वलितं परतपन्तं दिशॊ दश ॥ 15 ॥
गरसन्तम इव लॊकांस तरीन सूर्या चन्द्रमसौ यथा ददृशुस तत्र ते वृत्रं शक्रेण सहदेवताः ॥ 16 ॥
ऋषयॊ ऽथ ततॊ ऽभयेत्य वृत्रम ऊचुः परियं वचः वयाप्तं जगद इदं सर्वं तेजसा तव दुर्जय ॥ 17 ॥
न च शक्नॊषि निर्जेतुं वासवं भूरिविक्रमम युध्यतॊश चापि वां कालॊ वयतीतः सुमहान इह ॥ 18 ॥
पीड्यन्ते च परजाः सर्वाः स देवासुरमानवाः सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा अवाप्स्यसि सुखं तवं च शक्र लॊकांश च शाश्वतान ॥ 19 ॥
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः उवाच तांस तदा सर्वान परणम्य शिरसासुरः ॥ 20 ॥
सर्वे यूयं महाभागा गन्धर्वाश चैव सर्वशः यद बरूत तच छरुतं सर्वं ममापि शृणुतानघाः ॥ 21 ॥
संधिः कथं वै भविता मम शक्रस्य चॊभयॊः तेजसॊर हि दवयॊर देवाः सख्यं वै भविता कथम ॥ 22 ॥
[रसयह] सकृत सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यम एव नातिक्रमेत सत्पुरुषेण संगतं; तस्मात सतां संगतं लिप्सितव्यम ॥ 23 ॥
दृढं सतां संगतं चापि नित्यं; बरूयाच चार्थं हय अर्थकृच्छ्रेषु धीरः महार्थवत सत परुषेण संगतं; तस्मात सन्तं न जिघांसेत धीरः ॥ 24 ॥
इन्द्रः सतां संमतश च निवासश च महात्मनाम सत्यवादी हय अदीनश च धर्मवित सुविनिश्चितः ॥ 25 ॥
तेन ते सह शक्रेण संधिर भवतु शाश्वतः एवं विश्वासम आगच्छ मा ते भूद बुद्धिर अन्यथा ॥ 26 ॥
महर्षिवचनं शरुत्वा तान उवाच महाद्युतिः अवश्यं भगवन्तॊ मे माननीयास तपस्विनः ॥ 27 ॥
बरवीमि यद अहं देवास तत सर्वं करियताम इह ततः सर्वं करिष्यामि यद ऊचुर मां दविजर्षभाः ॥ 28 ॥
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा न शस्रेण न वज्रेण न दिवा न तथा निशि ॥ 29 ॥
वध्यॊ भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः एवं मे रॊचते संधिः शक्रेण सह नित्यदा ॥ 30 ॥
बाढम इत्य एव ऋषयस तम ऊचुर भरतर्षभ एवं कृते तु संधाने वृत्रः परमुदितॊ ऽभवत ॥ 31 ॥
यत्तः सदाभवच चापि शक्रॊ ऽमर्षसमन्वितः वृत्रस्य वधसंयुक्तान उपायान अनुचिन्तयन रन्ध्रान्वेषी समुद्विग्नः सदाभूद बलवृत्रहा ॥ 32 ॥
स कदा चित समुद्रान्ते तम अपश्यन महासुरम संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ॥ 33 ॥
ततः संचिन्त्य भगवान वरदानं महात्मनः संध्येयं वर्तते रौद्रा न रात्रिर दिवसं न च वृत्रश चापश्य वध्यॊ ऽयं मम सर्वहरॊ रिपुः ॥ 34 ॥
यदि वृत्रं न हन्म्य अद्य वञ्चयित्वा महासुरम महाबलं महाकायं न मे शरेयॊ भविष्यति ॥ 35 ॥
एवं संचिन्तयन्न एव शक्रॊ विष्णुम अनुस्मरन अथ फेनं तदापश्यत समुद्रे पर्वतॊपमम ॥ 36 ॥
नायं शुष्कॊ न चार्द्रॊ ऽयं न च शस्त्रम इदं तथा एनं कषेप्स्यामि वृत्रस्य कषणाद एव नशिष्यति ॥ 37 ॥
सवज्रम अथ फेनं तं कषिप्रं वृत्रे निसृष्टवान परविश्य फेनं तं विष्णुर अथ वृत्रं वयनाशयत ॥ 38 ॥
निहते तु ततॊ वृत्रे दिशॊ वितिमिराभवन परववौ च शिवॊ वायुः परजाश च जहृषुस तदा ॥ 39 ॥
ततॊ देवाः स गन्धर्वा यक्षराक्षस पन्नगाः ऋषयश च महेन्द्रं तम अस्तुवन विविधैः सतवैः ॥ 40 ॥
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन हतशत्रुः परहृष्टात्मा वासवः सह दैवतैः विष्णुं तरिभुवनश्रेष्ठं पूजयाम आस धर्मवित ॥ 41 ॥
ततॊ हते महावीर्ये वृत्रे देवभयंकरे अनृतेनाभिभूतॊ ऽभूच छक्रः परमदुर्मनाः तरैशीर्षयाभिभूतश च स पूर्वं बरह्महत्यया ॥ 42 ॥
सॊ ऽनतम आश्रित्य लॊकानां नष्टसंज्ञॊ विचेतनः न पराज्ञायत देवेन्द्रस तव अभिभूतः सवकल्मषैः परतिच्छन्नॊ वसत्य अप्सु चेष्टमान इवॊरगः ॥ 43 ॥
ततः परनष्टे देवेन्द्रे बरह्महत्या भयार्दिते भूमिः परध्वस्त संकाशा निर्वृक्षा शुष्ककानना विच्छिन्नस्रॊतसॊ नद्यः सरांस्य अनुदकानि च ॥ 44 ॥
संक्षॊभश चापि सत्त्वानाम अकृतॊ ऽभवत देवाश चापि भृशं तरस्तास तथा सर्वे महर्षयः ॥ 45 ॥
अराजकं जगत सर्वम अभिभूतम उपद्रवैः ततॊ भीताभवन देवाः कॊ नॊ राजा भवेद इति ॥ 46 ॥
दिवि देवर्षयश चापि देवराजविनाकृताः न च सम कश चिद देवानां राज्याय कुरुते मनः ॥ 47 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 10
Reach this point to mark the section finished.
Continue to अध्याय 11