धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 88

  1. [व] अथॊपगम्य विदुरम अपहाह्णे जनार्दनः पितृष्वसारं गॊविन्दः सॊ ऽभयगच्छद अरिंदमः ॥ 1 ॥

  2. सा दृष्ट्वा कृष्णम आयान्तं परसन्नादित्य वर्चसम कण्ठे गृहीत्वा पराक्रॊशत पृथा पार्थान अनुस्मरन ॥ 2 ॥

  3. तेषां सत्त्ववतां मध्ये गॊविन्दं सहचारिणम चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पम आहारयत पृथा ॥ 3 ॥

  4. साब्रवीत कृष्णम आसीनं कृतातिथ्यं युधां पतिम बाष्पगद्गद पूर्णेन मुखेन परिशुष्यता ॥ 4 ॥

  5. ये ते बाल्यात परभृत्येव गुरुशुश्रूषणे रताः परस्परस्य सुहृदः संमताः समचेतसः ॥ 5 ॥

  6. निकृत्या भरंशिता राज्याज जनार्हा निर्जनं गताः विनीतक्रॊधहर्शाश च बरह्मण्याः सत्यवादिनः ॥ 6 ॥

  7. तयक्त्वा परिय सुखे पार्था रुदन्तीम अपहाय माम अहार्षुश च वनं यान्तः समूलं हृदयं मम ॥ 7 ॥

  8. अतदर्हा महात्मानः कथं केशव पाण्डवाः ऊषुर महावने तात सिंहव्याघ्र गजाकुले ॥ 8 ॥

  9. बाला विहीनाः पित्रा ते मया सततलालिताः अपश्यन्तः सवपितरौ कथम ऊषुर महावने ॥ 9 ॥

  10. शङ्खदुन्दुभिनिर्घॊषैर मृदङ्गैर वैणवैर अपि पाण्डवाः समबॊध्यन्त बाल्यात परभृति केशव ॥ 10 ॥

  11. ये सम वारणशब्देन हयानां हेषितेन च रथनेमि निनादैश च वयबॊध्यन्त सदा गृहे ॥ 11 ॥

  12. शङ्खभेरी निनादेन वेणुवीणानुनादिना पुण्याहघॊषमिश्रेण पूज्यमाना दविजातिभिः ॥ 12 ॥

  13. वस्त्रै रत्नैर अलंकारैः पूजयन्तॊ दविजन्मनः गीर्भिर मङ्गलयुक्ताभिर बाह्मणानां महात्मनाम ॥ 13 ॥

  14. अर्चितैर अर्चनार्हैर्श च सतुब्वद्भिर अभिनन्दिताः परासादाग्रेष्व अबॊध्यन्त राङ्क वाजिन शायिनः ॥ 14 ॥

  15. ते नूनं निनदं शरुत्वा शवापदानां महावने न समॊपयान्ति निद्रां वै अतदर्हा जनार्दन ॥ 15 ॥

  16. भेरीमृदङ्गनिननैः शङ्खवैणव निस्वनैः सत्रीणां गीतनिनादैश च मधुरैर मधुसूदन ॥ 16 ॥

  17. बन्दि मागध सूतैश च सतुवद्भिर बॊधिताः कथम महावने वयबॊध्यन्त शवापदानां रुतेन ते ॥ 17 ॥

  18. हरीमान सत्यधृतिर दान्तॊ भूतानाम अनुकम्पिता कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ॥ 18 ॥

  19. अम्बरीषस्य मान्धातुर ययातेर नहुषस्य च भरतस्य दिलीपस्य शिबेर औशीनरस्य च ॥ 19 ॥

  20. राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम शीलवृत्तॊपसंपन्नॊ धर्मज्ञः सत्यसंगरः ॥ 20 ॥

  21. राजा सर्वगुणॊपेतस तरैलॊक्यस्यापि यॊ भवेत अजातशत्रुर धर्मात्मा शुद्धजाम्बूनदप्रभः ॥ 21 ॥

  22. शरेष्ठः कुरुषु सर्वेषु धर्मतः शरुतवृत्ततः परियदर्शनॊ दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥ 22 ॥

  23. यः स नागायुत पराणॊ वातरंहा वृकॊदरः अमर्षी पाण्डवॊ नित्यं परियॊ भरातुः परियं करः ॥ 23 ॥

  24. कीचकस्य च सज्ञातेर यॊ हन्ता मधुसूदन शूरः करॊधवशानां च हिडिम्बस्य बकस्य च ॥ 24 ॥

  25. पराक्रमे शक्रसमॊ वायुवेगसमॊ जवे महेश्वर समः करॊधे भीमः परहरतां वरः ॥ 25 ॥

  26. करॊधं बलम अमर्षं च यॊ निधाय परंतपः जितात्मा पाण्डवॊ ऽमर्षी भरातुस तिष्ठति शासने ॥ 26 ॥

  27. तेजॊराशिं महात्मानं बलौघम अमितौजसम भीमं परदर्शनेनापि भीमसेनं जनार्दन तं ममाचक्ष्व वार्ष्णेय कथम अद्य वृकॊदरः ॥ 27 ॥

  28. आस्ते परिघबाहुः स मध्यमः पाण्डवॊ ऽचयुत अर्जुनेनार्जुनॊ यः स कृष्ण बाहुसहस्रिणा दविबाहुः सपर्धते नित्यम अतीतेनापि केशव ॥ 28 ॥

  29. कषिपत्य एकेन वेगेन पञ्चबाणशतानि यः इष्वस्त्रे सदृशे राज्ञः कार्तवीर्यस्य पाण्डवः ॥ 29 ॥

  30. तेजसादित्यसदृशॊ महर्षिप्रतिमॊ दमे कषमया पृथिवी तुल्यं महेन्द्रसमविक्रमः ॥ 30 ॥

  31. आधिराज्यं महद दीप्तं परथितं मधुसूदन आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥ 31 ॥

  32. यस्य बाहुबलं घॊरं कौरवाः पर्युपासते स सर्वरथिनां शरेष्ठ पाण्डवः सत्यविक्रमः ॥ 32 ॥

  33. यॊ ऽपाश्रयः पाण्डवानां देवानाम इव वासवः स ते भराता सखा चैव कथम अद्य धनंजयः ॥ 33 ॥

  34. दयावान सर्वभूतेषु हरीनिषेधॊ महास्त्रवित मृदुश च सुकुमारश च धार्मिकश च परियश च मे ॥ 34 ॥

  35. सहदेवॊ महेष्वासः शूरः समितिशॊभनः भरातॄणां कृष्ण शुश्रूषुर धर्मार्थकुशलॊ युवा ॥ 35 ॥

  36. सदैव सहदेवस्य भरातरॊ मधुसूदन वृत्तं कल्याण वृत्तस्य पूजयन्ति महात्मनः ॥ 36 ॥

  37. जयेष्ठापचायिनं वीरं सहदेवं युधां पतिम शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं परचक्ष्व मे ॥ 37 ॥

  38. सुकुमारॊ युवा शूरॊ दर्शनीयश च पाण्डवः भरातॄणां कृष्ण सर्वेषां परियः पराणॊ बहिश्चरः ॥ 38 ॥

  39. चित्रयॊधी च नकुलॊ महेष्वासॊ महाबलः कच चित स कुशली कृष्ण वत्सॊ मम सुखैधितः ॥ 39 ॥

  40. सुखॊचितम अदुःखार्हं सुकुमारं महारथम अपि जातु महाबाहॊ पश्येयं नकुलं पुनः ॥ 40 ॥

  41. पक्ष्म संपातजे काले नकुलेन विनाकृता न लभामि सुखं वीर साद्य जीवामि पश्य माम ॥ 41 ॥

  42. सर्वैः पुत्रैः परियतमा दरौपदी मे जनार्दन कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः ॥ 42 ॥

  43. पुत्र लॊकात पतिलॊकान वृण्वाना सत्यवादिनी परियान पुत्रान परित्यज्य पाण्डवान अन्वपद्यत ॥ 43 ॥

  44. महाभिजन संपन्ना सर्वकामैः सुपूजिता ईश्वरी सर्वकल्याणी दरौपदी कथम अच्युत ॥ 44 ॥

  45. पतिभिः पञ्चभिः शूरैर अग्निकल्पैः परहारिभिः उपपन्ना महर्ष्वासैर दरौपदी दुःखभागिनी ॥ 45 ॥

  46. चतुर्दशम इमं वर्षं यन नापश्यम अरिंदम पुत्राधिभिः परिद्यूनां दरौपदीं सत्यवादिनीम ॥ 46 ॥

  47. न नूनं कर्मभिः पुण्यैर अश्नुते पुरुषः सुखम दरौपदी चेत तथा वृत्ता नाश्नुते सुखम अव्ययम ॥ 47 ॥

  48. न परियॊ मम कृष्णाय बीभत्सुर न युधिष्ठिरः भीमसेनॊ यमौ वापि यद अपश्यं सभा गताम ॥ 48 ॥

  49. न मे दुःखतरं किं चिद भूतपूर्वं ततॊ ऽधिकम यद दरौपदीं निवातस्थां शवशुराणां समीपगाम ॥ 49 ॥

  50. आनायिताम अनार्येण करॊधलॊभानुवर्तिना सर्वे परैक्षन्त कुरव एकवस्त्रां सभा गताम ॥ 50 ॥

  51. तत्रैव धृतराष्ट्रश च महाराजश च बाह्लिकः कृपश च सॊमदत्तश च निर्विण्णाः कुरवस तथा ॥ 51 ॥

  52. तस्यां संसदि सर्वस्यां कषत्तारं पूजयाम्य अहम वृत्तेन हि भवत्य आर्यॊ न धनेन न विद्यया ॥ 52 ॥

  53. तस्य कृष्ण महाबुद्धेर गम्भीरस्य महामनः कषत्तुः शीलम अलंकारॊ लॊकान विष्टभ्य तिष्ठति ॥ 53 ॥

  54. सा शॊकार्ता च हृष्टा च दृष्ट्वा गॊविन्दम आगतम नानाविधानि दुःखानि सर्वाण्य एवान्वकीर्तयत ॥ 54 ॥

  55. पूर्वैर आचरितं यत तत कुराजभिर अरिंदम अक्षद्यूतं मृगवधः कच चिद एषां सुखावहम ॥ 55 ॥

  56. तन मां दहति यत कृष्णा सभायां कुरु संनिधौ धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा ॥ 56 ॥

  57. निर्वासनं च नगरात परव्रज्या च परंतप नानाविधानां दुःखानाम आवासॊ ऽसमि जनार्दन अज्ञातचर्या बालानाम अवरॊधश च केशव ॥ 57 ॥

  58. न सम कलेशतमं मे सयात पुत्रैः सह परंतप दुर्यॊधनेन निकृता वर्षम अद्य चतुर्दशम ॥ 58 ॥

  59. दुःखाद अपि सुखं न सयाद यदि पुण्यफलक्षयः न मे विशेषॊ जात्व आसीद धार्तराष्ट्रेषु पाण्डवैः ॥ 59 ॥

  60. तेन सत्येन कृष्ण तवां हतामित्रं शरिया वृतम अस्माद विमुक्तं संग्रामात पश्येयं पाण्डवैः सह नैव शक्याः पराजेतुं सत्त्वं हय एषां तथागतम ॥ 60 ॥

  61. पितरं तव एव गर्हेयं नात्मानं न सुयॊधनम येनाहं कुन्तिभॊजाय धनं धूर्तैर इवार्पिता ॥ 61 ॥

  62. बालां माम आर्यकस तुभ्यं करीडन्तीं कन्दु हस्तकाम अददात कुन्तिभॊजाय सखा सख्ये महात्मने ॥ 62 ॥

  63. साहं पित्रा च निकृता शवशुरैश च परंतप अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥ 63 ॥

  64. यन मा वाग अब्रवीन नक्तं सूतके सव्यसाचिनः पुत्रस ते पृथिवीं जेता यशश चास्य दिवं सपृशेत ॥ 64 ॥

  65. हत्वा कुरून गरामजन्ये राज्यं पराप्य धनंजयः भरातृभिः सह कौन्तेयस तरीन मेधान आहरिष्यति ॥ 65 ॥

  66. नाहं ताम अभ्यसूयामि नमॊ धर्माय वेधसे कृष्णाय महते नित्यं धर्मॊ धारयति परजाः ॥ 66 ॥

  67. धर्मश चेद अस्ति वार्ष्णेय तथा सत्यं भविष्यति तवं चापि तत तथा कृष्ण सर्वं संपादयिष्यसि ॥ 67 ॥

  68. न मां माधव वैधव्यं नार्थनाशॊ न वैरिता तथा शॊकाय भवति यथा पुत्रैर विनाभवः ॥ 68 ॥

  69. याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम धनंजयं न पश्यामि का शान्तिर हृदयस्य मे ॥ 69 ॥

  70. इदं चतुर्दशं वर्षं यन नापश्यं युधिष्ठिरम धनंजयं च गॊविन्द यमौ तं च वृकॊदरम ॥ 70 ॥

  71. जीवनाशं परनष्टानां शराद्धं कुर्वन्ति मानवाः अर्थतस ते मम मृतास तेषां चाहं जनार्दन ॥ 71 ॥

  72. बरूया माधव राजानं धर्मात्मानं युधिष्ठिरम भूयांस ते हीयते धर्मॊ मा पुत्रक वृथा कृथाः ॥ 72 ॥

  73. पराश्रया वासुदेव या जीवामि धिग अस्तु माम वृत्तेः कृपण लब्धाया अप्रतिष्ठैव जयायसी ॥ 73 ॥

  74. अथॊ धनंजयं बरूया नित्यॊद्युक्तं वृकॊदरम यदर्थं कषत्रिया सूते तस्य वॊ ऽतिक्रमिष्यति ॥ 74 ॥

  75. अस्मिंश चेद आगते काले कालॊ वॊऽतिक्रमिष्यति लॊकसंभाविताः सन्तः सुनृशंसं करिष्यथ ॥ 75 ॥

  76. नृशंसेन च वॊ युक्तांस तयजेयं शाश्वतीः समाः काले हि समनुप्राप्ते तयक्तव्यम अपि जीवितम ॥ 76 ॥

  77. माद्रीपुत्रौ च वक्तव्यौ कषत्रधर्मरतौ सदा विक्रमेणार्जितान भॊगान वृणीतं जीविताद अपि ॥ 77 ॥

  78. विक्रमाधिगता हय अर्थाः कषत्रधर्मेण जीवतः मनॊ मनुष्यस्य सदा परीणन्ति पुरुषॊत्तम ॥ 78 ॥

  79. गत्वा बरूहि महाबाहॊ सर्वशस्त्रभृतां वरम अर्जुनं पाण्डवं वीरं दरौपद्याः पदवीं चर ॥ 79 ॥

  80. विदितौ हि तवात्यन्तं करुद्धाव इव यथान्तकौ भीमार्जुनौ नयेतां हि देवान अपि परां गतिम ॥ 80 ॥

  81. तयॊश चैतद अवज्ञानं यत सा कृष्णा सभां गता दुःशासनश च कर्णश च परुषाण्य अभ्यभाषताम ॥ 81 ॥

  82. दुर्यॊधनॊ भीमसेनम अभ्यगच्छन मनस्विनम पश्यतां कुरुमुख्यानां तस्य दरक्ष्यति यत फलम ॥ 82 ॥

  83. न हि वैरं समासाद्य परशाम्यति वृकॊदरः सुचिराद अपि भीमस्य न हि वैरं परशाम्यति यावदन्तं न नयति शात्रवाञ शत्रुकर्शनः ॥ 83 ॥

  84. न दुःखं राज्यहरणं न च दयूते पराजयः परव्राजनं च पुत्राणां न मे तद्दुःखकारणम ॥ 84 ॥

  85. यत तु सा बृहती शयामा एकवस्त्रा सभां गता अशृणॊत परुषा वाचस ततॊ दुःखतरं नु किम ॥ 85 ॥

  86. सत्री धर्मिणी वरारॊहा कषत्रधर्मरता सदा नाध्यगच्छत तथा नाथं कृष्णा नाथवती सती ॥ 86 ॥

  87. यस्या मम सपुत्रायास तवं नाथॊ मधुसूदन रामश च बलिनां शरेष्ठः परद्युम्नश च महारथः ॥ 87 ॥

  88. साहम एवंविधं दुःखं सहे ऽदय पुरुषॊत्तम भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥ 88 ॥

  89. तत आश्वासयाम आस पुत्राधिभिर अभिप्लुताम पितृष्वसारं शॊचन्तीं शौरिः पार्थ सखः पृथाम ॥ 89 ॥

  90. का नु सीमन्तिनी तवादृग लॊकेष्व अस्ति पितृष्वसः शूरस्य राज्ञॊ दुहिता आजमीढ कुलं गता ॥ 90 ॥

  91. महाकुलीना भवती दरहाद धरदम इवागता ईश्वरी सर्वकल्याणी भर्ता परमपूजिता ॥ 91 ॥

  92. वीरसूर वीर पत्नी च सर्वैः समुदिता गुणैः सुखदुःखे महाप्राज्ञे तवादृशी सॊढुम अर्हति ॥ 92 ॥

  93. निद्रा तन्द्री करॊधहर्षौ कषुत्पिपासे हिमातपौ एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः ॥ 93 ॥

  94. तयक्तग्राम्य सुखाः पार्था नित्यं वीर सुखप्रियाः न ते सवल्पेन तुष्येयुर महॊत्साहा महाबलाः ॥ 94 ॥

  95. अन्तं धीरा निषेवन्ते मध्यं गराम्यसुखप्रियाः उत्तमांश च परिक्लेशान भॊगांश चातीव मानुषान ॥ 95 ॥

  96. अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे अन्तप्राप्तिं सुखाम आहुर दुःखम अन्तरम अन्तयॊः ॥ 96 ॥

  97. अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया आत्मानं च कुशलिनं निवेद्याहुर अनामयम ॥ 97 ॥

  98. अरॊगान सर्वसिद्धार्थान कषिप्रं दरक्ष्यसि पाण्डवान ईश्वरान सर्वलॊकस्य हतामित्राञ शरिया वृतान ॥ 98 ॥

  99. एवम आश्वासिता कुन्ती परत्युवाच जनार्दनम पुत्राधिभिर अभिध्वस्ता निगृह्याबुद्धिजं तमः ॥ 99 ॥

  100. यद यत तेषां महाबाहॊ पथ्यं सयान मधुसूदन यथा यथा तवं मन्येथाः कुर्याः कृष्ण तथा तथा ॥ 100 ॥

  101. अविलॊपेन धर्मस्य अनिकृत्या परंतप परभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च ॥ 101 ॥

  102. वयवस्थायां च मित्रेषु बुद्धिविक्रमयॊस तथा तवम एव नः कुले धर्मस तवं सत्यं तवं तपॊ महत ॥ 102 ॥

  103. तवं तराता तवं महद बरह्म तवयि सर्वं परतिष्ठितम यथैवात्थ तथैवैतत तवयि सत्यं भविष्यति ॥ 103 ॥

  104. ताम आमन्त्र्य च गॊविन्दः कृत्वा चाभिप्रदक्षिणम परातिष्ठत महाबाहुर दुर्यॊधन गृहान परति ॥ 104 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87