धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 83

  1. [व] तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम धृतराष्ट्रॊ ऽबरवीद भीष्मम अर्चयित्वा महाभुजम ॥ 1 ॥

  2. दरॊणं च संजयं चैव विदुरं च महामतिम दुर्यॊधनं च सामात्यं हृष्टरॊमाब्रवीद इदम ॥ 2 ॥

  3. अद्भुतं महद आश्चर्यं शरूयते कुरुनन्दन सत्रियॊ बालाश च वृद्धाश च कथयन्ति गृहे गृहे ॥ 3 ॥

  4. सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः पृथग वादाश च वर्तन्ते चत्वरेषु सभासु च ॥ 4 ॥

  5. उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी स नॊ मान्यश च पूज्यश च सर्वथा मधुसूदनः ॥ 5 ॥

  6. तस्मिन हि यात्रा लॊकस्य भूतानाम ईश्वरॊ हि सः तस्मिन धृतिश च वीर्यं च परज्ञा चौजश च माधवे ॥ 6 ॥

  7. स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः पूजितॊ हि सुखाय सयाद असुखः सयाद अपूजितः ॥ 7 ॥

  8. स चेत तुष्यति दाशार्ह उपचारैर अरिंदमः कृत्स्नान सर्वान अभिप्रायान पराप्स्यामः सर्वराजसु ॥ 8 ॥

  9. तस्य पूजार्थम अद्यैव संविधत्स्व परंतप सभाः पथि विधीयन्तां सर्वकामसमाहिताः ॥ 9 ॥

  10. यथा परीतिर महाबाहॊ तवयि जायेत तस्य वै तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥ 10 ॥

  11. ततॊ भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम ऊचुः परमम इत्य एवं पूजयन्तॊ ऽसय तद वचः ॥ 11 ॥

  12. तेषाम अनुमतं जञात्वा राजा दुर्यॊधनस तदा सभा वास्तूनि रम्याणि परदेष्टुम उपचक्रमे ॥ 12 ॥

  13. ततॊ देशेषु देशेषु रमणीयेषु भागशः सर्वरत्नसमाकीर्णाः सभाश चक्रुर अनेकशः ॥ 13 ॥

  14. आसनानि विचित्राणि युक्तानि विविधैर गुणैः सत्रियॊ गन्धान अलंकारान सूक्ष्माणि वसनानि च ॥ 14 ॥

  15. गुणवन्त्य अन्नपानानि भॊज्यानि विविधानि च माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥ 15 ॥

  16. विशेषतश च वासार्थं सभां गरामे वृकस्थले विदधे कौरवॊ राजा बहुरत्नां मनॊरमाम ॥ 16 ॥

  17. एतद विधाय वै सर्वं देवार्हम अतिमानुषम आचख्यौ धृतराष्ट्राय राजा दुर्यॊधनस तदा ॥ 17 ॥

  18. ताः सभाः केशवः सर्वा रत्नानि विविधानि च असमीक्ष्यैव दाशार्ह उपायात कुरु सद्म तत ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82