[धृ] उपप्लव्याद इह कषत्तर उपयातॊ जनार्दनः वृकस्थले निवसति स च परातर इहैषति ॥ 1 ॥
आहुकानाम अधिपतिः पुरॊगः सर्वसात्वताम महामना महावीर्यॊ महामात्रॊ जनार्दनः ॥ 2 ॥
सफीतस्य वृष्णिवंशस्य भर्ता गॊप्ता च माधवः तरयाणाम अपि लॊकानां भगवान परपितामहः ॥ 3 ॥
वृष्ण्यन्धकाः सुमनसॊ यस्य परज्ञाम उपासते आदित्या वसवॊ रुद्रा यथाबुद्धिं बृहस्पतेः ॥ 4 ॥
तस्मै पूजां परयॊक्ष्यामि दाशार्हाय महात्मने परत्यक्षं तव धर्मज्ञ तन मे कथयतः शृणु ॥ 5 ॥
एकवर्णैः सुकृष्णाङ्गैर बाह्लिजातैर हयॊत्तमैः चतुर्युक्तान रथांस तस्मै रौक्मान दास्यामि षॊडश ॥ 6 ॥
नित्यप्रभिन्नान मातङ्गान ईषा दन्तान परहारिणः अष्टानुचरम एकैकम अष्टौ दास्यामि केशवे ॥ 7 ॥
दासीनाम अप्रजातानां शुभानां रुक्मवर्चसाम शतम अस्मै परदास्यामि दासानाम अपि तावतः ॥ 8 ॥
आविकं भहु सुस्पर्शं पार्वतीयैर उपाहृतम तद अप्य अस्मै परदास्यामि सहस्राणि दशाष्ट च ॥ 9 ॥
अजिनानां सहस्राणि चीन देशॊद्भवानि च तान्य अप्य अस्मै परदास्यामि यावद अर्हति केशवः ॥ 10 ॥
दिवारात्रौ च भात्य एष सुतेजा विमलॊ मणिः तम अप्य अस्मै परदास्यामि तम अप्य अर्हति केशवः ॥ 11 ॥
एकेनापि पतत्य अह्ना यॊजनानि चतुर्दश यानम अश्वतरी युक्तं दास्ये तस्मै तद अप्य अहम ॥ 12 ॥
यावन्ति वाहनान्य अस्य यावन्तः पुरुषाश च ते ततॊ ऽषट गुणम अप्य अस्मै भॊज्यं दास्याम्य अहं सदा ॥ 13 ॥
मम पुत्राश च पौत्राश च सर्वे दुर्यॊधनाद ऋते परत्युद्यास्यन्ति दाशार्हं रथैर मृष्टैर अलंकृताः ॥ 14 ॥
सवलंकृताश च कल्याण्यः पादैर एव सहस्रशः वार मुख्या महाभागं परयुद्यास्यन्ति केशवम ॥ 15 ॥
नगराद अपि याः काश चिद गमिष्यन्ति जनार्दनम दरष्टुं कन्याश च कल्याण्यस ताश च यास्यन्त्य अनावृताः ॥ 16 ॥
सस्त्री पुरुषबालं हि नगरं मधुसूदनम उदीक्षते महात्मानं भानुमन्तम इव परजाः ॥ 17 ॥
महाध्वजपताकाश च करियन्तां सर्वतॊदिशम जलावसिक्तॊ विरजाः पन्थास तस्येति चान्वशात ॥ 18 ॥
दुःशासनस्य च गृहं दुर्यॊधन गृहाद वरम तद अस्य करियतां कषिप्रं सुसंमृष्टम अलंकृतम ॥ 19 ॥
एतद धि रुचिर आकारैः परासादैर उपशॊभितम शिवं च रमणीयं च सर्वर्तुसु महाधनम ॥ 20 ॥
सर्वम अस्मिन गृहे रत्नं मम दुर्यॊधनस्य च यद यद अर्हेत स वार्ष्णेयस तत तद देयम असंशयम ॥ 21 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 84
Reach this point to mark the section finished.
Continue to अध्याय 85