धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 82

  1. [व] परयान्तं देवकीपुत्रं परवीर रुजॊ दश महारथा महाबाहुम अन्वयुः शस्त्रपाणयः ॥ 1 ॥

  2. पदातीनां सहस्रं च सादिनां च परंतप भॊज्यं च विपुलं राजन परेष्याश च शतशॊ ऽपरे ॥ 2 ॥

  3. [ज] कथं परयातॊ दाशार्हॊ महात्मा मधुसूदनः कानि वा वरजतस तस्य निमित्तानि महौजसः ॥ 3 ॥

  4. [व] तस्य परयाणे यान्य आसन्न अद्भुतानि महात्मनः तानि मे शृणु दिव्यानि दैवान्य औत्पातिकानि च ॥ 4 ॥

  5. अनभ्रे ऽशनिनिर्घॊषः सविद्युत्समजायत अन्वग एव च पर्जन्यः परावर्षद विघने भृशम ॥ 5 ॥

  6. परत्यग ऊहुर महानद्यः पराङ्मुखाः सिन्धुसत्तमाः विपारीता दिशः सर्वा न पराज्ञायत किं चन ॥ 6 ॥

  7. पराज्वलन्न अग्नयॊ राजन पृथिवीसमकम्पत उदपानाश च कुम्भाश च परासिञ्चञ शतशॊ जलम ॥ 7 ॥

  8. तमः संवृतम अप्य आसीत सर्वं जगद इदं तदा न दिशॊ नादिशॊ राजन परज्ञायन्ते सम रेणुना ॥ 8 ॥

  9. परादुरासीन महाञ शब्दः खे शरीरं न दृश्यते सर्वेषु राजन देशेषु तद अद्भुतम इवाभवत ॥ 9 ॥

  10. परामथ्नाद धास्तिन पुरं वातॊ दक्षिणपश्चिमः आरुजन गणशॊ वृक्षान परुषॊ भीमनिस्वनः ॥ 10 ॥

  11. यत्र यत्र तु वार्ष्णेयॊ वर्तते पथि भारत तत्र तत्र सुखॊ वायुः सर्वं चासीत परदक्षिणम ॥ 11 ॥

  12. ववर्ष पुष्पवर्षं च कमलानि च भूरिशः समश च पन्था निर्दुःखॊ वयपेतकुश कण्टकः ॥ 12 ॥

  13. स गच्छन बराह्मणै राजंस तत्र तत्र महाभुजः अर्च्यते मधुपर्कैश च सुमनॊभिर वसु परदः ॥ 13 ॥

  14. तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः सत्रियः पथि समागम्य सर्वभूतहिते रतम ॥ 14 ॥

  15. स शालिभवनं रम्यं सर्वसस्य समाचितम सुखं परमधर्मिष्ठम अत्यगाद भरतर्षभ ॥ 15 ॥

  16. पश्यन बहु पशून गरामान रम्यान हृदयतॊषणान पुराणि च वयतिक्रामन राष्ट्राणि विविधानि च ॥ 16 ॥

  17. नित्यहृष्टाः सुमनसॊ भारतैर अभिरक्षिताः नॊद्विग्नाः परचक्राणाम अनयानाम अकॊविदाः ॥ 17 ॥

  18. उपप्लव्याद अथायान्तं जनाः पुरनिवासिनः पथ्य अतिष्ठन्त सहिता विष्वक्सेन दिदृक्षया ॥ 18 ॥

  19. ते तु सर्वे सुनामानम अग्निम इद्धम इव परभुम अर्चयाम आसुर अर्च्यं तं देशातिथिम उपस्थितम ॥ 19 ॥

  20. वृकस्थलं समासाद्य केशवः परवीरहा परकीर्णरश्माव आदित्ये विमले लॊहितायति ॥ 20 ॥

  21. अवतीर्य रथात तूर्णं कृत्वा शौचं यथाविधि रथमॊचनम आदिश्य संध्याम उपविवेश ह ॥ 21 ॥

  22. दारुकॊ ऽपि हयान मुक्त्वा परिचर्य च शास्त्रतः मुमॊच सर्वं वर्माणि मुक्त्वा चैनान अवासृजत ॥ 22 ॥

  23. अभ्यतीत्य तु तत सर्वम उवाच मधुसूदनः युधिष्ठिरस्य कार्यार्थम इह वत्स्यामहे कषपाम ॥ 23 ॥

  24. तस्य तन मतम आज्ञाय चक्रुर आवसथं नराः कषणेन चान्न पानानि गुणवन्ति समार्जयन ॥ 24 ॥

  25. तस्मिन गरामे परधानास तु य आसन बराह्मणा नृप आर्याः कुलीना हरीमन्तॊ बराह्मीं वृत्तिम अनुष्ठिताः ॥ 25 ॥

  26. ते ऽभिगम्य महात्मानं हृषीकेशम अरिंदमम पूजां चक्रुर यथान्यायम आशीर मङ्गलसंयुताम ॥ 26 ॥

  27. ते पूजयित्वा दाशार्हं सर्वलॊकेषु पूजितम नयवेदयन्त वेश्मानि रत्नवन्ति महात्मने ॥ 27 ॥

  28. तान परभुः कृतम इत्य उक्त्वा सत्कृत्य च यथार्हतः अभ्येत्य तेषां वेश्मानि पुनर आयात सहैव तैः ॥ 28 ॥

  29. सुमृष्टं भॊजयित्वा च बराह्मणांस तत्र केशवः भुक्त्वा च सह तैः सर्वैर अवसत तां कषपां सुखम ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 83

Previous: अध्याय 81