धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 81

  1. [अर्जुन] कुरूणाम अद्य सर्वेषां भवान सुहृद अनुत्तमः संबन्धी दयितॊ नित्यम उभयॊः पक्षयॊर अपि ॥ 1 ॥

  2. पाण्डवैर धार्तराष्ट्राणां परतिपाद्यम अनामयम समर्थ परशमं चैषां कर्तुं तवम असि केशव ॥ 2 ॥

  3. तवम इतः पुण्डरीकाक्ष सुयॊधनम अमर्षणम शान्त्य अर्थं भारतं बरूया यत तद वाच्यम अमित्रहन ॥ 3 ॥

  4. तवया धर्मार्थयुक्तं चेद उक्तं शिवम अनामयम हितं नादास्यते बालॊ दिष्टस्य वशम एष्यति ॥ 4 ॥

  5. [भ] धर्म्यम अस्मद्धितं चैव कुरूणां यद अनामयम एष यास्यामि राजानं धृतराष्ट्रम अभीष्प्सया ॥ 5 ॥

  6. [व] ततॊ वयपेते तमसि सूर्ये विमल उद्गते मैत्रे मुहूर्ते संप्राप्ते मृद्व अर्चिषि दिवाकरे ॥ 6 ॥

  7. कौमुदे मासि रेवत्यां शरद अन्ते हिमागमे सफीतसस्यमुखे काले कल्यः सत्त्ववतां वरः ॥ 7 ॥

  8. मङ्गल्याः पुण्यनिर्घॊषा वाचः शृण्वंश च सूनृताः बराह्मणानां परतीतानाम ऋषीणाम इव वासवः ॥ 8 ॥

  9. कृत्वा पौर्वाह्णिकं कृत्यं सनातः शुचिर अलंकृतः उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥ 9 ॥

  10. ऋषभं पृष्ठ आलभ्य बराह्मणान अभिवाद्य च अग्निं परदक्षिणं कृत्वा पश्यन कल्याणम अग्रतः ॥ 10 ॥

  11. तत परतिज्ञाय वचनं पाण्डवस्य जनार्दनः शिनेर नप्तारम आसीनम अभ्यभाषत सात्यकिम ॥ 11 ॥

  12. रथ आरॊप्यतां शङ्खश चक्रं च गदया सह उपासङ्गाश च शक्त्यश च सर्वप्रहरणानि च ॥ 12 ॥

  13. दुर्यॊधनॊ हि दुष्टात्मा कर्णश च सह सौबलः न च शत्रुर अवज्ञेयः पराकृतॊ ऽपि बलीयसा ॥ 13 ॥

  14. ततस तन मतम आज्ञाय केशवस्य पुरःसराः परसस्रुर यॊजयिष्यन्तॊ रथं चक्रगदाभृतः ॥ 14 ॥

  15. तं दीप्तम इव कालाग्निम आकाशगम इवाध्वगम चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम ॥ 15 ॥

  16. अर्धचन्द्रैश च चन्द्रैश च मत्स्यैः समृगपक्षिभिः पुष्पैश च विविधैश चित्रं मणिरत्नैश च सर्वशः ॥ 16 ॥

  17. तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम ॥ 17 ॥

  18. सूपस्करम अनाधृष्यं वैयाघ्रपरिवारणम यशॊघ्नं परत्यमित्राणां यदूनां नन्दिवर्धनम ॥ 18 ॥

  19. वाजिभिः सैन्यसुग्रीवम एध पुष्पबलाहकैः सनातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा ॥ 19 ॥

  20. महिमानं तु कृष्णस्य भूय एवाभिवर्धयन सुघॊषः पतगेन्द्रेण धवजेन युयुजे रथः ॥ 20 ॥

  21. तं मेरुशिखरप्रख्यं मेघदुन्दुभि निस्वनम आरुरॊह रथं शौरिर विमानम इव पुण्यकृत ॥ 21 ॥

  22. ततः सात्यकिम आरॊप्य परययौ पुरुषॊत्तमः पृथिवीं चान्तरिक्षं च रथगॊषेण नादयन ॥ 22 ॥

  23. वयपॊढाभ्र घनः कालः कषणेन समपद्यत शिवश चानुववौ वायुः परशान्तम अभवद रविः ॥ 23 ॥

  24. परदक्षिणानुलॊमाश च मङ्गल्या मृगपक्षिणः परयाणे वासुदेवस्य बभूवुर अनुयायिनः ॥ 24 ॥

  25. मङ्गल्यार्थ पदैः शब्दैर अन्ववर्तन्त सर्वशः सारसाः शतपत्राश च हंसाश च मधुसूदनम ॥ 25 ॥

  26. मन्त्राहुति महाहॊमैर हूयमानश च पावकः परदक्षिणशिखॊ भूत्वा विधूमः समपद्यत ॥ 26 ॥

  27. वसिष्ठॊ वामदेवश च भूरिद्युम्नॊ गयः करथः शुक्रनारद वाल्मीका मरुतः कुशिकॊ भृगुः ॥ 27 ॥

  28. बरह्म देवर्षयश चैव कृष्णं यदुसुखावहम परदक्षिणम अवर्तन्त सहिता वासवानुजम ॥ 28 ॥

  29. एवम एतैर महाभागैर महर्षिगणसाधुभिः पूजितः परययौ कृष्णः कुरूणां सदनं परति ॥ 29 ॥

  30. तं परयान्तम अनुप्रायात कुन्तीपुत्रॊ युधिष्ठिरः भीमसेनार्जुनौ चॊभौ माद्रीपुत्रौ च पाण्डवौ ॥ 30 ॥

  31. चेकितानश च विक्रान्तॊ धृष्टकेतुश च चेदिपः दरुपदः काशिराजश च शिखण्डी च महारथः ॥ 31 ॥

  32. धृष्टद्युम्नः सपुत्रश च विराटः केकयैः सह संसाधनार्थं परययुः कषत्रियाः कषत्रियर्षभम ॥ 32 ॥

  33. ततॊ ऽनुव्रज्य गॊविन्दं धर्मराजॊ युधिष्ठिरः राज्ञां सकाशे दयुतिमान उवाचेदं वचस तदा ॥ 33 ॥

  34. यॊ नैव कामान न भयान न लॊभान नार्थकारणात अन्यायम अनुवर्तेत सथिरबुद्धिर अलॊलुपः ॥ 34 ॥

  35. धर्मज्ञॊ धृतिमान पराज्ञः सर्वभूतेषु केशवः ईश्वरः सर्वभूतानां देवदेवः परतापवान ॥ 35 ॥

  36. तं सर्वगुणसंपन्नं शरीवत्स कृतलक्षणम संपरिष्वज्य कौन्तेयः संदेष्टुम उपचक्रमे ॥ 36 ॥

  37. या सा बाल्यात परभृत्य अस्मान पर्यवर्धयताबला उपवासतपः शीला सदा सवस्त्ययने रता ॥ 37 ॥

  38. देवतातिथिपूजासु गुरुशुश्रूषणे रता वत्सला परियपुत्रा च परियास्माकं जनार्दन ॥ 38 ॥

  39. सुयॊधन भयाद या नॊ ऽतरायतामित्रकर्शन महतॊ मृत्युसंबाधाद उत्तरन नौर इवार्णवात ॥ 39 ॥

  40. अस्मत कृते च सततं यया दुःखानि माधव अनुभूतान्य अदुःखार्हा तां सम पृच्छेर अनामयम ॥ 40 ॥

  41. भृशम आश्वासयेश चैनां पुत्रशॊकपरिप्लुताम अभिवाद्य सवजेथाश च पाण्डवान परिकीर्तयन ॥ 41 ॥

  42. ऊढात परभृति दुःखानि शवशुराणाम अरिंदम निकारान अतदर्हा च पश्यन्ती दुःखम अश्नुते ॥ 42 ॥

  43. अपि जातु स कालः सयात कृष्ण दुःखविपर्ययः यद अहं मातरं कलिष्टां सुखे दध्याम अरिंदम ॥ 43 ॥

  44. परव्रजन्तॊ ऽनवधावत सा कृपणा पुत्रगृद्धिनी रुदतीम अपहायैनाम उपगच्छाम यद वनम ॥ 44 ॥

  45. न नूनं मरियते दुःखैः सा चेज जीवति केशव तथा पुत्राधिभिर गाढम आर्ता हय आनर्त सत्कृता ॥ 45 ॥

  46. अभिवाद्या तु सा कृष्ण तवया मद्वचनाद विभॊ धृतराष्ट्रश च कौरव्यॊ राजानश च वयॊ ऽधिकाः ॥ 46 ॥

  47. भीष्मं दरॊणं कृपं चैव महाराजं च बाह्लिकम दरौणिं च सॊमदत्तं च सर्वांश च भरतान पृथक ॥ 47 ॥

  48. विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम अगाध बुद्धिं धर्मज्ञं सवजेथा मधुसूदन ॥ 48 ॥

  49. इत्य उक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः अनुज्ञातॊ निववृते कृष्णं कृत्वा परदक्षिणम ॥ 49 ॥

  50. वरजन्न एव तु बीभत्सुः सखायं पुरुषर्षभम अब्रवीत परवीरघ्नं दाशार्हम अपराजितम ॥ 50 ॥

  51. यद अस्माकं विभॊ वृत्तं पुरा वै मन्त्रनिश्चये अर्धराज्यस्य गॊविन्द विदितं सर्वराजसु ॥ 51 ॥

  52. तच चेद दद्याद असङ्गेन सत्कृत्यानवमन्य च परियं मे सयान महाबाहॊ मुच्येरन महतॊ भयात ॥ 52 ॥

  53. अतश चेद अन्यथा कर्ता धार्तराष्ट्रॊ ऽनुपायवित अन्तं नूनं करिष्यामि कषत्रियाणां जनार्दन ॥ 53 ॥

  54. एवम उक्ते पाण्डवेन पर्यहृष्यद वृकॊदरः मुहुर मुहुः करॊधवशात परवेपत च पाण्डवः ॥ 54 ॥

  55. वेपमानश च कौन्तेयः पराक्रॊशन महतॊ रवान धनंजय वचः शरुत्वा हर्षॊत्सिक मना भृशम ॥ 55 ॥

  56. तस्य तं निनदं शरुत्वा संप्रावेपन्त धन्विनः वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः ॥ 56 ॥

  57. इत्य उक्त्वा केशवं तत्र तथा चॊक्त्वा विनिश्चयम अनुज्ञातॊ निववृते परिष्वज्य जनार्दनम ॥ 57 ॥

  58. तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः तूर्णम अभ्यपतद धृष्टः सैन्यसुग्रीव वाहनः ॥ 58 ॥

  59. ते हया वासुदेवस्य दारुकेण परचॊदिताः पन्थानम आचेमुर इव गरसमाना इवाम्बरम ॥ 59 ॥

  60. अथापश्यन महाबाहुर ऋषीन अध्वनि केशवः बराह्म्या शरिया दीप्यमानान सथितान उभयतः पथि ॥ 60 ॥

  61. सॊ ऽवतीर्य रथात तूर्णम अभिवाद्य जनार्दनः यथावत तान ऋषीन सर्वान अभ्यभाषत पूजयन ॥ 61 ॥

  62. कच चिल लॊकेषु कुशलं कच चिद धर्मः सवनुष्ठितः बराह्मणानां तरयॊ वर्णाः कच चित तिष्ठन्ति शासने ॥ 62 ॥

  63. तेभ्यः परयुज्य तां पूजां परॊवाच मधुसूदनः भगवन्तः कव संसिद्धाः का वीथी भवताम इह ॥ 63 ॥

  64. किं वा भगवतां कार्यम अहं किं करवाणि वः केनार्थेनॊपसंप्राप्ता भगवन्तॊ महीतलम ॥ 64 ॥

  65. तम अब्रवीज जामदग्न्य उपेत्य मधुसूदनम परिष्वज्य च गॊविन्दं पुरा सुचरिते सखा ॥ 65 ॥

  66. देवर्षयः पुण्यकृतॊ बराह्मणाश च बहुश्रुताः राजर्षयश च दाशार्ह मानयन्तस तपस्विनः ॥ 66 ॥

  67. देवासुरस्य दरष्टारः पुराणस्य महाद्युते समेतं पार्थिवं कषत्रं दिदृक्षन्तश च सर्वतः ॥ 67 ॥

  68. सभासदश च राजानस तवां च सत्यं जनार्दन एतन महत परेक्षणीयं दरष्टुं गच्छाम केशव ॥ 68 ॥

  69. धर्मार्थसहिता वाचः शरॊतुम इच्छामि माधव तवयॊच्यमानाः कुरुषु राजमध्ये परंतप ॥ 69 ॥

  70. भीष्मद्रॊणादयश चैव विदुरश च महामतिः तवं च यादव शार्दूलसभायां वै समेष्यथ ॥ 70 ॥

  71. तव वाक्यानि दिव्यानि तत्र तेषां च माधव शरॊतुम इच्छामि गॊविन्द सत्यानि च शुभानि च ॥ 71 ॥

  72. आपृष्टॊ ऽसि महाबाहॊ पुनर दरक्ष्यामहे वयम याह्य अविघ्नेन वै वीर दरक्ष्यामस तवां सभा गतम ॥ 72 ॥

Reach this point to mark the section finished.

Continue to अध्याय 82

Previous: अध्याय 80