धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 80

  1. [व] राज्ञस तु वचनं शरुत्वा धर्मार्थसहितं हितम कृष्णा दाशार्हम आसीनम अब्रवीच छॊककर्षिता ॥ 1 ॥

  2. सुता दरुपदराजस्य सवसितायत मूर्धजा संपूज्य सहदेवं च सात्यकिं च महारथम ॥ 2 ॥

  3. भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः अश्रुपूर्णेक्षणा वाक्यम उवाचेदं मनस्विनी ॥ 3 ॥

  4. विदितं ते महाबाहॊ धर्मज्ञ मधुसूदन यथा निकृतिम आस्थाय भरंशिताः पाण्डवाः सुखात ॥ 4 ॥

  5. धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन यथा च संजयॊ राज्ञा मन्त्रं रहसि शरावितः ॥ 5 ॥

  6. युधिष्ठिरेण दाशार्ह तच चापि विदितं तव यथॊक्तः संजयश चैव तच च सर्वं शरुतं तवया ॥ 6 ॥

  7. पञ्च नस तात दीयन्तां गरामा इति महाद्युते कुश सथलं वृकस्थलम आसन्दी वारणावतम ॥ 7 ॥

  8. अवसानं महाबाहॊ किं चिद एव तु पञ्चमम इति दुर्यॊधनॊ वाच्यः सुहृदश चास्य केशव ॥ 8 ॥

  9. तच चापि नाकरॊद वाक्यं शरुत्वा कृष्ण सुयॊधनः युधिष्ठिरस्य दाशार्ह हरीमतः संधिम इच्छतः ॥ 9 ॥

  10. अप्रदानेन राज्यस्य यदि कृष्ण सुयॊधनः संधिम इच्छेन न कर्तव्यस तत्र गत्वा कथं चन ॥ 10 ॥

  11. शक्ष्यन्ति हि महाबाहॊ पाण्डवाः सृञ्जयैः सह धार्तराष्ट्र बलं घॊरं करुद्धं परतिसमासितुम ॥ 11 ॥

  12. न हि साम्ना न दानेन शक्यॊ ऽरथस तेषु कश चन तस्मात तेषु न कर्तव्या कृपा ते मधुसूदन ॥ 12 ॥

  13. साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः मॊक्तव्यस तेषु दण्डः सयाज जीवितं परिरक्षता ॥ 13 ॥

  14. तस्मात तेषु महादण्डः कषेप्तव्यः कषिप्रम अच्युत तवया चैव महाबाहॊ पाण्डवैः सह सृज्ञ्जयैः ॥ 14 ॥

  15. एतत समर्थं पार्थानां तव चैव यशः करम करियमाणं भवेत कृष्ण कषत्रस्य च सुखावहम ॥ 15 ॥

  16. कषत्रियेण हि हन्तव्यः कषत्रियॊ लॊभम आस्थितः अक्षत्रियॊ वा दाशार्ह सवधर्मम अनुतिष्ठता ॥ 16 ॥

  17. अन्यत्र बराह्मणात तात सर्वपापेष्व अवस्थितात गुरुर हि सर्ववर्णानां बराह्मणः परसृताग्र भुज ॥ 17 ॥

  18. यथा वध्ये भवेद दॊषॊ वध्यमाने जनार्दन स वध्यस्यावधे दृष्ट इति धर्मविदॊ विदुः ॥ 18 ॥

  19. यथा तवां न सपृशेद एष दॊषः कृष्ण तथा कुरु पाण्डवैः सह दाशार्ह सृञ्जयैश च ससैनिकैः ॥ 19 ॥

  20. पुनर उक्तं च वक्ष्यामि विश्रम्भेण जनार्दन का नु सीमन्तिनी मादृक पृथिव्याम अस्ति केशव ॥ 20 ॥

  21. सुता दरुपदराजस्य वेदिमध्यात समुत्थिता धृष्टद्युम्नस्य भगिनी तव कृष्ण परिया सखी ॥ 21 ॥

  22. आजमीढ कुलं पराप्ता सनुषा पाण्डॊर महात्मनः महिषी पाण्डुपुत्राणां पञ्चेन्द्र समवर्चसाम ॥ 22 ॥

  23. सुता मे पञ्चभिर वीरैः पञ्च जाता महारथाः अभिमन्युर यथा कृष्ण तथा ते तव धर्मतः ॥ 23 ॥

  24. साहं केशग्रहं पराप्ता परिक्लिष्टा सभां गता पश्यतां पाण्डुपुत्राणां तवयि जीवति केशव ॥ 24 ॥

  25. जीवत्सु कौरवेयेषु पाञ्चालेष्व अथ वृष्णिषु दासी भूतास्मि पापानां सभामध्ये वयवस्थिता ॥ 25 ॥

  26. निरामर्षेष्व अचेष्टेषु परेक्षमाणेषु पाण्डुषु तराहि माम इति गॊविन्द मनसा काङ्क्षितॊ ऽसि मे ॥ 26 ॥

  27. यत्र मां भगवान राजा शवशुरॊ वाक्यम अब्रवीत वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे ॥ 27 ॥

  28. अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति मयॊक्ते यत्र निर्मुक्ता वनवासाय केशव ॥ 28 ॥

  29. एवंविधानां दुःखानाम अभिज्ञॊ ऽसि जनार्दन तराहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम ॥ 29 ॥

  30. नन्व अहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चॊभयॊः सनुषा भवामि धर्मेण साहं दासी कृताभवम ॥ 30 ॥

  31. धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम यत्र दुर्यॊधनः कृष्ण मुहूर्तम अपि जीवति ॥ 31 ॥

  32. यदि ते ऽहम अनुग्राह्या यदि ते ऽसति कृपा मयि धार्तराष्ट्रेषु वै कॊपः सर्वः कृष्ण विधीयताम ॥ 32 ॥

  33. इत्य उक्त्वा मृदु संहारं वृजिनाग्रं सुदर्शनम सुनीलम असितापाङ्गी पुण्यगन्धाधिवासितम ॥ 33 ॥

  34. सर्वलक्षणसंपन्नं महाभुजग वर्चसम केशपक्षं वरारॊहा गृह्य सव्येन पाणिना ॥ 34 ॥

  35. पद्माक्षी पुण्डरीकाक्षम उपेत्य गजगामिनी अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनम अब्रवीत ॥ 35 ॥

  36. अयं ते पुण्डरीकाक्ष दुःशासन करॊद्धृतः समर्तव्यः सर्वकालेषु परेषां संधिम इच्छता ॥ 36 ॥

  37. यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ पिता मे यॊत्स्यते वृद्धः सह पुत्रैर महारथैः ॥ 37 ॥

  38. पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन अभिमन्युं पुरस्कृत्य यॊत्स्यन्ति कुरुभिः सह ॥ 38 ॥

  39. दुःशासन भुजं शयामं संछिन्नं पांसुगुण्ठितम यद्य अहं तं न पश्यामि का शान्तिर हृदयस्य मे ॥ 39 ॥

  40. तरयॊदश हि वर्षाणि परतीक्षन्त्या गतानि मे निधाय हृदये मन्युं परदीप्तम इव पावकम ॥ 40 ॥

  41. विदीर्यते मे हृदयं भीम वाक्शल्य पीडितम यॊ ऽयम अद्य महाबाहुर धर्मं समनुपश्यति ॥ 41 ॥

  42. इत्य उक्त्वा बाष्पसन्नेन कण्ठेनायत लॊचना रुरॊद कृष्णा सॊत्कम्पं सस्वरं बाष्पगद्गदम ॥ 42 ॥

  43. सतनौ पीनायतश्रॊणी सहिताव अभिवर्षती दरवी भूतम इवात्युष्णम उत्सृजद वारि नेत्रजम ॥ 43 ॥

  44. ताम उवाच महाबाहुः केशवः परिसान्त्वयन अचिराद दरक्ष्यसे कृष्णे रुदतीर भरत सत्रियः ॥ 44 ॥

  45. एवं ता भीरु रॊत्स्यन्ति निहतज्ञातिबान्धवाः हतमित्रा हतबला येषां करुद्धासि भामिनि ॥ 45 ॥

  46. अहं च तत करिष्यामि भींमार्जुन यमैः सह युधिष्ठिर नियॊगेन दैवाच च विधिनिर्मितात ॥ 46 ॥

  47. धार्तराष्ट्राः कालपक्वा न चेच छृण्वन्ति मे वचः शेष्यन्ते निहता भूमौ शवशृगालादनी कृताः ॥ 47 ॥

  48. चलेद धि हिमवाञ शैलॊ मेदिनी शतधा भवेत दयौः पतेच च सनक्षत्रा न मे मॊघं वचॊ भवेत ॥ 48 ॥

  49. सत्यं ते परतिजानामि कृष्णे बाष्पॊ निगृह्यताम हतामित्राञ शरिया युक्तान अचिराद दरक्ष्यसे पतीन ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 81

Previous: अध्याय 79