[सहदेव] यद एतत कथितं राज्ञा धर्म एष सनातनः यथा तु युद्धम एव सयात तथा कार्यम अरिंदम ॥ 1 ॥
यदि परशमम इच्छेयुः कुरवः पाण्डवैः सह तथापि युद्धं दाशार्ह यॊजयेथाः सहैव तैः ॥ 2 ॥
कथं नु दृष्ट्वा पाञ्चालीं तथा कलिष्टां सभा गताम अवधेन परशाम्येत मम मन्युः सुयॊधने ॥ 3 ॥
यदि भीमार्जुनौ कृष्ण धर्मराजश च धार्मिकः धर्मम उत्सृज्य तेनाहं यॊद्धुम इच्छामि संयुगे ॥ 4 ॥
[सात्यकि] सत्यम आह महाबाहॊ सहदेवॊ महामतिः दुर्यॊधन वधे शान्तिस तस्य कॊपस्य मे भवेत ॥ 5 ॥
जानासि हि यथादृष्ट्वा चीराजिनधरान वने तवापि मन्युर उद्भूतॊ दुःखितान परेक्ष्य पाण्डवान ॥ 6 ॥
तस्मान माद्री सुतः शूरॊ यद आह पुरुषर्षभः वचनं सर्वयॊधानां तन मतं पुरुषॊत्तम ॥ 7 ॥
[व] एवं वदति वाक्यं तु युयुधाने महामतौ सुभीमः सिंहनादॊ ऽभूद यॊधानां तत्र सर्वशः ॥ 8 ॥
सर्वे हि सर्वतॊ वीरास तद वचः परत्यपूजयन साधु साध्व इति शैनेयं हर्षयन्तॊ युयुत्सवः ॥ 9 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 79
Reach this point to mark the section finished.
Continue to अध्याय 80