[व] गते दवारवतीं कृष्णे बलदेवे च माधवे सह वृष्ण्यन्धकैः सर्वैर भॊजैश च शतशस तथा ॥ 1 ॥
सर्वम आगमयाम आस पाण्डवानां विचेष्टितम धृतराष्ट्रात्मजॊ राजा दूतैः परणिहितैश चरैः ॥ 2 ॥
स शरुत्वा माधवं यातं सदश्वैर अनिलॊपमैः बलेन नातिमहता दवारकाम अभ्ययात पुरीम ॥ 3 ॥
तम एव दिवसं चापि कौन्तेयः पाण्डुनन्दनः आनर्तनगरीं रम्यां जगामाशु धनंजयः ॥ 4 ॥
तौ यात्वा पुरुषव्याघ्रौ दवारकां कुरुनन्दनौ सुप्तं ददृशतुः कृष्णं शयानं चॊपजग्मतुः ॥ 5 ॥
ततः शयाने गॊविन्दे परविवेश सुयॊधनः उच्छीर्षतश च कृष्णस्य निषसाद वरासने ॥ 6 ॥
ततः किरीटी तस्यानु परविवेश महामनाः परश्चार्धे च स कृष्णस्य परह्वॊ ऽतिष्ठत कृताञ्जलिः ॥ 7 ॥
परतिबुद्धः स वार्ष्णेयॊ ददर्शाग्रे किरीटिनम स तयॊः सवागतं कृत्वा यथार्थं परतिपूज्य च तद आगमनजं हेतुं पप्रच्छ मधुसूदनः ॥ 8 ॥
ततॊ दुर्यॊधनः कृष्णम उवाच परहसन्न इव विग्रहे ऽसमिन भवान साह्यं मम दातुम इहार्हति ॥ 9 ॥
समं हि भवतः सख्यं मयि चैवार्जुने ऽपि च तथा संबन्धकं तुल्यम अस्माकं तवयि माधव ॥ 10 ॥
अहं चाभिगतः पूर्वं तवाम अद्य मधुसूदन पूर्वं चाभिगतं सन्तॊ भजन्ते पूर्वसारिणः ॥ 11 ॥
तवं च शरेष्ठतमॊ लॊके सताम अद्य जनार्दन सततं संमतश चैव सद्वृत्तम अनुपालय ॥ 12 ॥
भवान अभिगतः पूर्वम अत्र मे नास्ति संशयः दृष्टस तु परथमं राजन मया पार्थॊ धनंजयः ॥ 13 ॥
तव पूर्वाभिगमनात पूर्वं चाप्य अस्य दर्शनात साहाय्यम उभयॊर एव करिष्यामि सुयॊधन ॥ 14 ॥
परवारणं तु बालानां पूर्वं कार्यम इति शरुतिः तस्मात परवारणं पूर्वम अर्हः पार्थॊ धनंजयः ॥ 15 ॥
मत संहनन तुल्यानां गॊपानाम अर्बुदं महत नारायणा इति खयाताः सर्वे संग्रामयॊधिनः ॥ 16 ॥
ते वा युधि दुराधर्षा भवन्त्व एकस्य सैनिकाः अयुध्यमानः संग्रामे नयस्तशस्त्रॊ ऽहम एकतः ॥ 17 ॥
आभ्याम अन्यतरं पार्थ यत ते हृद्यतरं मतम तद वृणीतां भवान अग्रे परवार्यस तवं हि धर्मतः ॥ 18 ॥
एवम उक्तस तु कृष्णेन कुन्तीपुत्रॊ धनंजयः अयुध्यमानं संग्रामे वरयाम आस केशवम ॥ 19 ॥
सहस्राणां सहस्रं तु यॊधानां पराप्य भारत कृष्णं चापहृतं जञात्वा संप्राप परमां मुदम ॥ 20 ॥
दुर्यॊधनस तु तत सैन्यं सर्वम आदाय पार्थिवः ततॊ ऽभययाद भीमबलॊ रौहिणेयं महाबलम ॥ 21 ॥
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत परत्युवाच ततः शौरिर धार्तराष्ट्रम इदं वचः ॥ 22 ॥
विदितं ते नरव्याघ्र सर्वं भवितुम अर्हति यन मयॊक्तं विराटस्य पुरा वैवाहिके तदा ॥ 23 ॥
निगृह्यॊक्तॊ हृषीकेशस तवदर्थं कुरुनन्दन मया संबन्धकं तुल्यम इति राजन पुनः पुनः ॥ 24 ॥
न च तद वाक्यम उक्तं वै केशवः परत्यपद्यत न चाहम उत्सहे कृष्णं विना सथातुम अपि कषणम ॥ 25 ॥
नाहं सहायः पार्थानां नापि दुर्यॊधनस्य वै इति मे निश्चिता बुद्दिर वासुदेवम अवेक्ष्य ह ॥ 26 ॥
जातॊ ऽसि भारते वंशे सर्वपार्थिवपूजिते गच्छ युध्यस्व धर्मेण कषात्रेण भरतर्षभ ॥ 27 ॥
इत्य एवम उक्तः स तदा परिष्वज्य हलायुधम कृष्णं चापहृतं जञात्वा युद्धान मेने जितं जयम ॥ 28 ॥
सॊ ऽभययात कृतवर्माणं धृतराष्ट्र सुतॊ नृपः कृतवर्मा ददौ तस्य सेनाम अक्षौहिणीं तदा ॥ 29 ॥
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः वृतः परतिययौ हृष्टः सुहृदः संप्रहर्षयन ॥ 30 ॥
गते दुर्यॊधने कृष्णः किरीटिनम अथाब्रवीत अयुध्यमानः कां बुद्धिम आस्थायाहं तवया वृतः ॥ 31 ॥
भवान समर्थस तान सर्वान निहन्तुं नात्र संशयः निहन्तुम अहम अप्य एकः समर्थः पुरुषॊत्तम ॥ 32 ॥
भवांस तु कीर्तिमाँल लॊके तद यशस तवां गमिष्यति यशसा चाहम अप्य अर्थी तस्माद असि मया वृतः ॥ 33 ॥
सारथ्यं तु तवया कार्यम इति मे मानसं सदा चिररात्रेप्सितं कामं तद भवान कर्तुम अर्हति ॥ 34 ॥
उपपन्नम इदं पार्थ यत सपर्धेथा मया सह सारथ्यं ते करिष्यामि कामः संपद्यतां तव ॥ 35 ॥
एवं परमुदितः पार्थः कृष्णेन सहितस तदा वृतॊ दाशार्ह परवरैः पुनर आयाद युधिष्ठिरम ॥ 36 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8