[नकुल] उक्तं बहुविधं वाक्यं धर्मराजेन माधव धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः ॥ 1 ॥
मतम आज्ञाय राज्ञश च भीमसेनेन माधव संशमॊ बाहुवीर्यं च खयापितं माधवात्मनः ॥ 2 ॥
तथैव फल्गुनेनापि यद उक्तं तत तवया शरुतम आत्मनश च मतं वीर कथितं भवतासकृत ॥ 3 ॥
सर्वम एतद अतिक्रम्य शरुत्वा परमतं भवान यत पराप्तकालं मन्येथास तत कुर्याः पुरुषॊत्तम ॥ 4 ॥
तस्मिंस तस्मिन निमित्ते हि मतं भवति केशव पराप्तकालं मनुष्येण सवयं कार्यम अरिंदम ॥ 5 ॥
अन्यथा चिन्तितॊ हय अर्थः पुनर भवति सॊ ऽनयथा अनित्य मतयॊ लॊके नराः पुरुषसत्तम ॥ 6 ॥
अन्यथा बुद्धयॊ हय आसन्न अस्मासु वनवासिषु अदृश्येष्व अन्यथा कृष्ण दृश्येषु पुनर अन्यथा ॥ 7 ॥
अस्माकम अपि वार्ष्णेय वने विचरतां तदा न तथा परणयॊ राज्ये यथा संप्रति वर्तते ॥ 8 ॥
निवृत्तवनवासान नः शरुत्वा वीर समागताः अक्षौहिण्यॊ हि सप्तेमास तवत्प्रसादाज जनार्दन ॥ 9 ॥
इमान हि पुरुषव्याघ्रान अचिन्त्यबलपौरुषान आत्तशस्त्रान रणे दृष्ट्वा न वयथेद इह कः पुमान ॥ 10 ॥
स भवान कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम बरूयाद वाक्यं यथा मन्दॊ न वयथेत सुयॊधनः ॥ 11 ॥
युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम सहदेवं च मां चैव तवां च रामं च केशव ॥ 12 ॥
सात्यकिं च महावीर्यं विराटं च सहात्मजम दरुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम ॥ 13 ॥
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम मांसशॊणितभृन मर्त्यः परतियुध्येत कॊ युधि ॥ 14 ॥
स भवान गमनाद एव साधयिष्यत्य असंशयम इष्टम अर्थं महाबाहॊ धर्मराजस्य केवलम ॥ 15 ॥
विदुरश चैव भीष्मश च दरॊणश च सह बाह्लिकः शरेयः समर्था विज्ञातुम उच्यमानं तवयानघ ॥ 16 ॥
ते चैनम अनुनेष्यन्ति धृतराष्ट्रं जनाधिपम तं च पापसमाचारं सहामात्यं सुयॊधनम ॥ 17 ॥
शरॊता चार्थस्य विदुरस तवं च वक्ता जनार्दन कम इवार्थं विवर्तन्तं सथापयेतां न वर्त्मनि ॥ 18 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 78
Reach this point to mark the section finished.
Continue to अध्याय 79