[भगवान] भावं जिज्ञासमानॊ ऽहं परणयाद इदम अब्रुवम न चाक्षेपान न पाण्डित्यान न करॊधान न विवक्षया ॥ 1 ॥
वेदाहं तव माहात्म्यम उत ते वेद यद बलम उत ते वेद कर्माणि न तवां परिभवाम्य अहम ॥ 2 ॥
यथा चात्मनि कल्याणं संभावयसि पाण्डव सहस्रगुणम अप्य एतत तवयि संभावयाम्य अहम ॥ 3 ॥
यादृशे च कुले जन्म सर्वराजाभिपूजिते बन्धुभिश च सुहृद्भिश च भीम तवम असि तादृशः ॥ 4 ॥
जिज्ञासन्तॊ हि धर्मस्य संदिग्धस्य वृकॊदर पर्यायं न वयवस्यन्ति दैवमानुषयॊर जनाः ॥ 5 ॥
स एव हेतुर भूत्वा हि पुरुषस्यार्तसिद्धिषु विनाशे ऽपि स एवास्य संदिग्धं कर्म पौरुषम ॥ 6 ॥
अन्यथा परिदृष्टानि कविभिर दॊषदर्शिभिः अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ 7 ॥
सुमन्त्रितं सुनीतं च नयायतश चॊपपादितम कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ॥ 8 ॥
दैवम अप्य अकृतं कर्म पौरुषेण विहन्यते शीतम उष्णं तथा वर्षं कषुत्पिपासे च भारत ॥ 9 ॥
यद अन्यद दिष्ट भावस्य पुरुषस्य सवयं कृतम तस्माद अनवरॊधश च विद्यते तत्र लक्षणम ॥ 10 ॥
लॊकस्य नान्यतॊ वृत्तिः पाण्डवान्यत्र कर्मणः एवं बुद्धिः परवर्तेत फलं सयाद उभयान्वयात ॥ 11 ॥
य एवं कृतबुद्धिः सन कर्मस्व एव परवर्तते नासिद्धौ वयथते तस्य न सिद्धौ हर्षम अश्नुते ॥ 12 ॥
तत्रेयम अर्थमात्रा मे भीमसेन विवक्षिता नैकान्त सिद्धिर मन्तव्या कुरुभिः सह संयुगे ॥ 13 ॥
नातिप्रणीत रश्मिः सयात तथा भवति पर्यये विषादम अर्छेद गलानिं वा एतदर्थं बरवीमि ते ॥ 14 ॥
शवॊभूते धृतराष्ट्रस्य समीपं पराप्य पाण्डव यतिष्ये परशमं कर्तुं युष्मदर्थम अहापयन ॥ 15 ॥
शमं चेत ते करिष्यन्ति ततॊ ऽनन्तं यशॊ मम भवतां च कृतः कामस तेषां च शरेय उत्तमम ॥ 16 ॥
ते चेद अभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः कुरवॊ युद्धम एवात्र रौद्रं कर्म भविष्यति ॥ 17 ॥
अस्मिन युद्धे भीमसेन तवयि भारः समाहितः धूर अर्जुनेन धार्या सयाद वॊढव्य इतरॊ जनः ॥ 18 ॥
अहं हि यन्ता बीभत्सॊर भविता संयुगे सति धनंजयस्यैष कामॊ न हि युद्धं न कामये ॥ 19 ॥
तस्माद आशङ्कमानॊ ऽहं वृकॊदर मतिं तव तुदन्न अक्लीबया वाचा तेजस ते समदीपयम ॥ 20 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 75
Reach this point to mark the section finished.
Continue to अध्याय 76