[व] तथॊक्तॊ वासुदेवेन नित्यमन्युर अमर्षणः सदश्ववत समाधावद बभाषे तदनन्तरम ॥ 1 ॥
अन्यथा मां चिकीर्षन्तम अन्यथा मन्यसे ऽचयुत परणीत भावम अत्यन्तं युधि सत्यपराक्रमम ॥ 2 ॥
वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहॊषितः उत वा मां न जानासि पलवन हरद इवाल्पवः तस्माद अप्रतिरूपाभिर वाग्भिर मां तवं समर्छसि ॥ 3 ॥
कथं हि भीमसेनं मां जानन कश चन माधव बरूयाद अप्रतिरूपाणि यथा मां वक्तुम अर्हसि ॥ 4 ॥
तस्माद इदं परवक्ष्यामि वचनं वृष्णिनन्दन आत्मनः पौरुषं चैव बलं च न समं परैः ॥ 5 ॥
सर्वथा नार्य कर्मैतत परशंसा सवयम आत्मनः अतिवादापविद्धस तु वक्ष्यामि बलम आत्मनः ॥ 6 ॥
पश्येमे रॊदसी कृष्ण ययॊर आसन्न इमाः परजाः अचले चाप्य अनन्ते च परतिष्ठे सर्वमातरौ ॥ 7 ॥
यदीमे सहसा करुद्धे समेयातां शिले इव अमम एते निगृह्णीयां बाहुभ्यां सचराचरे ॥ 8 ॥
पश्यैतद अन्तरं बाह्वॊर महापरिघयॊर इव य एतत पराप्य मुच्येत न तं पश्यामि पूरुषम ॥ 9 ॥
हिमवांश च समुद्रश च वज्री च बलभित सवयम मयाभिपन्नं तरायेरन बलम आस्थाय न तरयः ॥ 10 ॥
युध्येयं कषत्रियान सर्वान पाण्डवेष्व आततायिनः अधः पादतलेनैतान अधिष्ठास्यामि भूतले ॥ 11 ॥
न हि तवं नाभिजानासि मम विक्रमम अच्युत यथा मया विनिर्जित्य राजानॊ वशगाः कृताः ॥ 12 ॥
अथ चेन मां न जानासि सूर्यस्येवॊद्यतः परभाम विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन ॥ 13 ॥
किं मात्यवाक्षीः परुषैर वरणं सूच्या इवानघ यथामति बरवीम्य एतद विद्धि माम अधिकं ततः ॥ 14 ॥
दरष्टासि युधि संबाधे परवृत्ते वैशसे ऽहनि मया परणुन्नान मातङ्गान रथिनः सादिनस तथा ॥ 15 ॥
तथा नरान अभिक्रुद्धं निघ्नन्तं कषत्रियर्षभान दरष्टा मां तवं च लॊकश च विकर्षन्तं वरान वरान ॥ 16 ॥
न मे सीदन्ति मज्जानॊ न ममॊद्वेपते मनः सर्वलॊकाद अभिक्रुद्धान न भयं विद्यते मम ॥ 17 ॥
किं तु सौहृदम एवैतत कृपया मधुसूदन सर्वांस तितिक्षे संक्लेशान मा सम नॊ भरता नशन ॥ 18 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 74
Reach this point to mark the section finished.
Continue to अध्याय 75