धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 76

  1. [अर्जुन] उक्तं युधिष्ठिरेणैव यावद वाच्यं जनार्दन तव वाक्यं तु मे शरुत्वा परतिभाति परंतप ॥ 1 ॥

  2. नैव परशमम अत्र तवं मन्यसे सुकरं परभॊ लॊभाद वा धृतराष्ट्रस्य दैन्याद वा समुपस्थितात ॥ 2 ॥

  3. अफलं मन्यसे चापि पुरुषस्य पराक्रमम न चान्तरेण कर्माणि पौरुषेण फलॊदयः ॥ 3 ॥

  4. तद इदं भाषितं वाक्यं तथा च न तथैव च न चैतद एवं दरष्टव्यम असाध्यम इति किं चन ॥ 4 ॥

  5. किं चैतन मन्यसे कृच्छ्रम अस्माकं पापम आदितः कुर्वन्ति तेषां कर्माणि येषां नास्ति फलॊदयः ॥ 5 ॥

  6. संपाद्यमानं सम्यक च सयात कर्म सफलं परभॊ स तथा कृष्ण वर्तस्व यथा शर्म भवेत परैः ॥ 6 ॥

  7. पाण्डवानां कुरूणां च भवान परमकः सुहृत सुराणाम असुराणां च यथा वीर परजापतिः ॥ 7 ॥

  8. कुरूणां पाण्डवानां च परतिपत्स्व निरामयम अस्मद्धितम अनुष्ठातुं न मन्ये तव दुष्करम ॥ 8 ॥

  9. एवं चेत कार्यताम एति कार्यं तव जनार्दन गमनाद एवम एव तवं करिष्यसि न संशयः ॥ 9 ॥

  10. चिकीर्षितम अथान्यत ते तस्मिन वीर दुरात्मनि भविष्यति तथा सर्वं यथा तव चिकीर्षितम ॥ 10 ॥

  11. शर्म तैः सह वा नॊ ऽसतु तव वा यच चिकीर्षितम विचार्यमाणॊ यः कामस तव कृष्ण स नॊ गुरुः ॥ 11 ॥

  12. न स नार्हति दुष्टात्मा वधं ससुत बान्धवः येन धर्मसुते दृष्ट्वा न सा शरीर उपमर्षिता ॥ 12 ॥

  13. यच चाप्य अपश्यतॊपायं धर्मिष्ठं मधुसूदन उपायेन नृशंसेन हृता दुर्द्यूत देविना ॥ 13 ॥

  14. कथं हि पुरुषॊ जातः कषत्रियेषु धनुर्धरः समाहूतॊ निवर्तेत पराणत्यागे ऽपय उपस्थिते ॥ 14 ॥

  15. अधमेण जितान दृष्ट्वा वने परव्रजितांस तथा वध्यतां मम वार्ष्णेय निर्गतॊ ऽसौ सुयॊधनः ॥ 15 ॥

  16. न चैतद अद्भुतं कृष्ण मित्रार्थे यच चिकीर्षसि करिया कथं नु मुख्या सयान मृदुना वेतरेण वा ॥ 16 ॥

  17. अथ वा मन्यसे जयायान वधस तेषाम अनन्तरम तद एव करियताम आशु न विचार्यम अतस तवया ॥ 17 ॥

  18. जानासि हि यथा तेन दरौपदी पापबुद्धिना परिक्लिष्टा सभामध्ये तच च तस्यापि मर्षितम ॥ 18 ॥

  19. स नाम सम्यग वर्तेत पाण्डवेष्व इति माधव न मे संजायते बुद्धिर बीजम उप्तम इवॊषरे ॥ 19 ॥

  20. तस्माद यन मन्यसे युक्तं पाण्डवानां च यद धितम तद आशु कुरु वार्ष्णेय यन नः कार्यम अनन्तरम ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 77

Previous: अध्याय 75