धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 73

  1. [वै] एतच छरुत्वा महाबाहुः केशवः परहसन्न इव अभूतपूर्वं भीमस्य मार्दवॊपगतं वचः ॥ 1 ॥

  2. गिरेर इव लघुत्वं तच छीतत्वम इव पावके मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकॊदरम ॥ 2 ॥

  3. संतेजयंस तदा वाग्भिर मातरिश्वेव पावकम उवाच भीमम आसीनं कृपयाभिपरिप्लुतम ॥ 3 ॥

  4. तवम अन्यदा भीमसेन युद्धम एव परशंससि वधाभिनन्दिनः करूरान धार्तराष्ट्रान मिमर्दिषुः ॥ 4 ॥

  5. न च सवपिषि जागर्षि नयुब्जः शेषे परंतप घॊराम अशान्तां रुशतीं सदा वाचं परभाषसे ॥ 5 ॥

  6. निःश्वसन्न अग्निवर्णेन सतप्तः सवेन मन्युना अप्रशान्त मना भीम स धूम इव पावकः ॥ 6 ॥

  7. एकान्ते निष्टनञ शेषे भारार्त इव दुर्बलः अपि तवां के चिद उन्मत्तं मन्यन्ते ऽतद्विदॊ जनाः ॥ 7 ॥

  8. आरुज्य वृक्षान निर्मूलान गजः परिभुजन्न इव निघ्नन पद्भिः कषितिं भीम निष्टनन परिधावसि ॥ 8 ॥

  9. नास्मिञ जने ऽभिरमसे रहः कषियसि पाण्डव नान्यं निशि दिवा वापि कदा चिद अभिनन्दसि ॥ 9 ॥

  10. अकस्मात समयमानश च रहस्य आस्से रुदन्न इव जान्वॊर मूर्धानम आधाय चिरम आस्से परमीलितः ॥ 10 ॥

  11. भरुकुटिं च पुनः कुर्वन्न ओष्ठौ च विलिहन्न इव अभीक्ष्णं दृश्यसे भीम सर्वं तन मन्युकारितम ॥ 11 ॥

  12. यथा पुरस्तात सविता दृश्यते शुक्रम उच्चरन यथा च पश्चान निर्मुक्तॊ धरुवं पर्येति रश्मिवान ॥ 12 ॥

  13. तथा सत्यं बरवीम्य एतन नास्ति तस्य वयतिक्रमः हन्ताहं गदयाभ्येत्य दुर्यॊधनम अमर्षणम ॥ 13 ॥

  14. इति सम मध्ये भरातॄणां सत्येनालभसे गदाम तस्य ते पशमे बुद्धिर धीयते ऽदय परंतप ॥ 14 ॥

  15. अहॊ युद्धप्रतीपानि युद्धकाल उपस्थिते पश्यसीवाप्रतीपानि किं तवां भीर भीम विन्दति ॥ 15 ॥

  16. अहॊ पार्थ निमित्तानि विपरीतानि पश्यसि सवप्नान्ते जागरान्ते च तस्मात परशमम इच्छसि ॥ 16 ॥

  17. अहॊ नाशंससे किं चित पुंस्त्वं कलीब इवात्मनि कश्मलेनाभिपन्नॊ ऽसि तेन ते विकृतं मनः ॥ 17 ॥

  18. उद्वेपते ते हृदयं मनस ते परविषीदति ऊरुस्तम्भगृहीतॊ ऽसि तस्मात परशमम इच्छसि ॥ 18 ॥

  19. अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम वातवेगप्रचलिता अष्ठीला शाल्मलेर इव ॥ 19 ॥

  20. तवैषा विकृता बुद्धिर गवां वाग इव मानुषी मनांसि पाण्डुपुत्राणां मज्जयत्य अप्लवान इव ॥ 20 ॥

  21. इदं मे महद आश्चर्यं पर्वतस्येव सर्पणम यदीदृशं परभाषेथा भीमसेनासमं वचः ॥ 21 ॥

  22. स दृष्ट्वा सवानि कर्माणि कुले जन्म च भारत उत्तिष्ठस्व विषादं मा कृथा वीर सथिरॊ भव ॥ 22 ॥

  23. न चैतद अनुरूपं ते यत ते गलानिर अरिंदम यद ओजसा न लभते कषत्रियॊ न तद अश्नुते ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 74

Previous: अध्याय 72