धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 6

  1. [दरुपद] भूतानां पराणिनः शरेष्ठाः पराणिनां बुद्धिजीविनः बुद्धिमत्सु नराः शरेष्ठा नराणां तु दविजातयः ॥ 1 ॥

  2. दविजेषु वैद्याः शरेयांसॊ वैद्येषु कृतबुद्धयः स भवान कृतबुद्धीनां परधान इति मे मतिः ॥ 2 ॥

  3. कुलेन च विशिष्टॊ ऽसि वयसा च शरुतेन च परज्ञयानवमश चासि शुक्रेणाङ्गिरसेन च ॥ 3 ॥

  4. विदितं चापि ते सर्वं यथावृत्थः स कौरवः पाण्डवश च यथावृत्तः कुन्तीपुत्रॊ युधिष्ठिरः ॥ 4 ॥

  5. धृतराष्टस्य विदिते वञ्चिताः पाण्डवाः परैः विदुरेणानुनीतॊ ऽपि पुत्रम एवानुवर्तते ॥ 5 ॥

  6. शकुनिर बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत अनक्षज्ञं मताक्षः सन कषत्रवृत्ते सथितं शुचिम ॥ 6 ॥

  7. ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम न कस्यां चिद अवस्थायां राज्यं दास्यन्ति वै सवयम ॥ 7 ॥

  8. भवांस तु धर्मसंयुक्तं धृतराष्ट्रं बरुवन वचः मनांसि तस्य यॊधानां धरुवम आवर्तयिष्यति ॥ 8 ॥

  9. विदुरश चापि तद वाक्यं साधयिष्यति तावकम भीष्मद्रॊणकृपाणां च भेद्यं संजनयिष्यति ॥ 9 ॥

  10. अमात्येषु च भिन्नेषु यॊधेषु विमुखेषु च पुनर एकाग्रकरणं तेषां कर्म भविष्यति ॥ 10 ॥

  11. एतस्मिन्न अन्तरे पार्थाः सुखम एकाग्रबुद्धयः सेना कर्म करिष्यन्ति दरव्याणां चैव संचयम ॥ 11 ॥

  12. भिद्यमानेषु च सवेषु लम्बमाने च वै तवयि न तथा ते करिष्यन्ति सेना कर्म न संशयः ॥ 12 ॥

  13. एतत परयॊजनं चात्र पराधान्येनॊपलभ्यते संगत्या धृतराष्ट्रश च कुर्याद धर्म्यं वचस तव ॥ 13 ॥

  14. स भवान धर्मयुक्तश च धर्म्यं तेषु समाचरन कृपालुषु परिक्लेशान पाण्डवानां परकीर्तयन ॥ 14 ॥

  15. वृद्धेषु कुलधर्मं च बरुवन पूर्वैर अनुष्ठितम विभेत्स्यति मनांस्य एषाम इति मे नात्र संशयः ॥ 15 ॥

  16. न च तेभ्यॊ भयं ते ऽसति बराह्मणॊ हय असि वेदवित दूत कर्मणि युक्तश च सथविरश च विशेषतः ॥ 16 ॥

  17. स भवान पुष्ययॊगेन मुहूर्तेन जयेन च कौरवेयान परयात्व आशु कौन्तेयस्यार्थ सिद्धये ॥ 17 ॥

  18. तथानुशिष्टः परययौ दरुपदेन महात्मना पुरॊधा वृत्तसंपन्नॊ नगरं नागसाह्वयम ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5