धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 67

  1. [धृ] कथं तवं माधवं वेत्थ सर्वलॊकमहेश्वरम कथम एनं न वेदाहं तन ममाचक्ष्व संजय ॥ 1 ॥

  2. विद्या राजन न ते विद्या मम विद्या न हीयते विद्या हीनस तमॊ धवस्तॊ नाभिजानाति केशवम ॥ 2 ॥

  3. विद्यया तात जानामि तरियुगं मधुसूदनम कर्तारम अकृतं देवं भूतानां परभवाप्ययम ॥ 3 ॥

  4. गावल्गणे ऽतर का भक्तिर या ते नित्या जनार्दने यया तवम अभिजानासि तरियुगं मधुसूदनम ॥ 4 ॥

  5. मायां न सेवे भद्रं ते न वृथाधर्मम आचरे शुद्धभावं गतॊ भक्त्या शास्त्राद वेद्मि जनार्दनम ॥ 5 ॥

  6. दुर्यॊधन हृषीकेशं परपद्यस्व जनार्दनम आप्तॊ नः संजयस तात शरणं गच्छ केशवम ॥ 6 ॥

  7. भगवान देवकीपुत्रॊ लॊकं चेन निहनिष्यति परवदन्न अर्जुने सख्यं नाहं गच्छे ऽदय केशवम ॥ 7 ॥

  8. [तढृ] अवाग गान्धारि पुत्रास ते गच्छत्य एष सुदुर्मतिः ईर्ष्युर दुरात्मा मानी च शरेयसां वचनातिगः ॥ 8 ॥

  9. [ग] ऐश्वर्यकामदुष्टात्मन वृद्धानां शासनातिग ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ॥ 9 ॥

  10. वर्धयन दुर्हृदां परीतिं मां च शॊकेन वर्धयन निहतॊ भीमसेनेन समर्तासि वचनं पितुः ॥ 10 ॥

  11. दयितॊ ऽसि राजन कृष्णस्य धृतराष्ट्र निबॊध मे यस्य ते संजयॊ दूतॊ यस तवां शरेयसि यॊक्ष्यते ॥ 11 ॥

  12. जानात्य एष हृषीकेशं पुराणं यच च वै नवम शुश्रूषमाणम एकाग्रं मॊक्ष्यते महतॊ भयात ॥ 12 ॥

  13. वैचित्रवीर्य पुरुषाः करॊधहर्षतमॊ वृताः सिता बहुविधैः पाशैर ये न तुष्टाः सवकैर धनैः ॥ 13 ॥

  14. यमस्य वशम आयान्ति काममूढाः पुनः पुनः अन्धनेत्रा यथैवान्धा नीयमानाः सवकर्मभिः ॥ 14 ॥

  15. एष एकायनः पन्था येन यान्ति मनीषिणः तं दृष्ट्वा मृत्युम अत्येति महांस तत्र न सज्जते ॥ 15 ॥

  16. अङ्गसंजय मे शंस पन्थानम अकुतॊभयम येन गत्वा हृषीकेशं पराप्नुयां शान्तिम उत्तमाम ॥ 16 ॥

  17. नाकृतात्मा कृतात्मानं जातु विद्याज जनार्दनम आत्मनस तु करियॊपायॊ नान्यत्रेन्द्रिय निग्रहात ॥ 17 ॥

  18. इन्द्रियाणाम उदीर्णानां कामत्यागॊ ऽपरमादतः अप्रमादॊ ऽविहिंसा च जञानयॊनिर असंशयम ॥ 18 ॥

  19. इन्द्रियाणां यमे यत्तॊ भव राजन्न अतन्द्रितः बुद्धिश च मा ते चयवतु नियच्छैतां यतस ततः ॥ 19 ॥

  20. एतज जञानं विदुर विप्रा धरुवम इन्द्रियधारणम एतज जञानं च पन्थाश च येन यान्ति मनीषिणः ॥ 20 ॥

  21. अप्राप्यः केशवॊ राजन्न इन्द्रियौर अजितैर नृभिः आगमाधिगतॊ यॊगाद वशीतत्त्वे परसीदति ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 68

Previous: अध्याय 66