धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 66

  1. [स] अर्जुनॊ वासुदेवश च धन्विनौ परमार्चितौ कामाद अन्यत्र संभूतौ सर्वाभावाय संमितौ ॥ 1 ॥

  2. दयाम अन्तरं समास्थाय यथा युक्तं मनस्विनः चक्रं तद वासुदेवस्य मायया वर्तते विभॊ ॥ 2 ॥

  3. सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम सारासार बलं जञात्वा तत समासेन मे शृणु ॥ 3 ॥

  4. नरकं शम्बरं चैव कंसं चैद्यं च माधवः जितवान घॊरसंकाशान करीडन्न इव जनार्दनः ॥ 4 ॥

  5. पृथिवीं चान्तरिक्षं च दयां चैव पुरुषॊत्तमः मनसैव विशिष्टात्मा नयत्य आत्मवशं वशी ॥ 5 ॥

  6. भूयॊ भूयॊ हि यद राजन पृच्छसे पाण्डवान परति सारासार बलं जञातुं तन मे निगदतः शृणु ॥ 6 ॥

  7. एकतॊ वा जगत कृत्स्नम एकतॊ वा जनार्दनः सारतॊ जगतः कृत्स्नाद अतिरिक्तॊ जनार्दनः ॥ 7 ॥

  8. भस्म कुर्याज जगद इदं मनसैव जनार्दनः न तु कृत्स्नं जगच छक्तं भस्म कर्तुं जनार्दनम ॥ 8 ॥

  9. यतः सत्यं यतॊ धर्मॊ यतॊ हरीर आर्जवं यतः ततॊ भवति गॊविन्दॊ यतः कृष्णस ततॊ जयः ॥ 9 ॥

  10. पृथिवीं चान्तरिक्षं च दिवं च पुरुषॊत्तमः विचेष्टयति भूतात्मा करीडन्न इव जनार्दनः ॥ 10 ॥

  11. स कृत्वा पाण्डवान सत्रं लॊकं संमॊहयन्न इव अधर्मनिरतान मूढान दग्धुम इच्छति ते सुतान ॥ 11 ॥

  12. कालचक्रं जगच चक्रं युगचक्रं च केशवः आत्मयॊगेन भगवान परिवर्तयते ऽनिशम ॥ 12 ॥

  13. कालस्य च हि मृत्यॊश च जङ्गम सथावरस्य च ईशते भगवान एकः सत्यम एतद बरवीमि ते ॥ 13 ॥

  14. ईशन्न अपि महायॊगी सर्वस्य जगतॊ हरिः कर्माण्य आरभते कर्तुं कीनाश इव दुर्बलः ॥ 14 ॥

  15. तेन वञ्चयते लॊकान मायायॊगेन केशवः ये तम एव परपद्यन्ते न ते मुह्यन्ति मानवाः ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65