[धृ] भूयॊ मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते नाम कर्मार्थवित तात पराप्नुयां पुरुषॊत्तमम ॥ 1 ॥
शरुतं मे तस्य देवस्य नाम निर्वचनं शुभम यावत तत्राभिजाने ऽहम अप्रमेयॊ हि केशवः ॥ 2 ॥
वसनात सर्वभूतानां वसुत्वाद देव यॊनितः वासुदेवस ततॊ वेद्यॊ वृषत्वाद वृष्णिर उच्यते ॥ 3 ॥
मौनाद धयानाच च यॊगाच च विद्धि भारत माधवम सर्वतत्त्वलयाच चैव मधुहा मधुसूदनः ॥ 4 ॥
कृषिर भूवाचकः शब्दॊ णश च निर्वृति वाचकः कृष्णस तद्भावयॊगाच च कृष्णॊ भवति शाश्वतः ॥ 5 ॥
पुण्डरीकं परं धाम नित्यम अक्षयम अक्षरम तद्भावात पुण्डरीकाक्षॊ दस्यु तरासाज जनार्दनः ॥ 6 ॥
यतः सत्त्वं न चयवते यच च सत्त्वान न हीयते सत्त्वतः सात्वतस तस्माद अर्षभाद वृषभेक्षणः ॥ 7 ॥
न जायते जनित्र्यां यद अजस तस्माद अनीकजित देवानां सवप्रकाशत्वाद दमाद दामॊदरं विदुः ॥ 8 ॥
हर्षात सौख्यात सुखैश्वर्याद धृषीकेशत्वम अश्नुते बाहुभ्यां रॊदसी बिभ्रन महाबाहुर इति समृतः ॥ 9 ॥
अधॊ न कषीयते जातु यस्मात तस्माद अधॊक्षजः नराणाम अयनाच चापि तेन नारायणः समृतः पूरणात सदनाच चैव ततॊ ऽसौ पुरुषॊत्तमः ॥ 10 ॥
असतश च सतश चैव सर्वस्य परभवाप्ययात सर्वस्य च सदा जञानात सर्वम एनं परचक्षते ॥ 11 ॥
सत्ये परतिष्ठितः कृष्णः सत्यम अत्र परतिष्ठितम सत्यात सत्यं च गॊविन्दस तस्मात सत्यॊ ऽपि नामतः ॥ 12 ॥
विष्णुर विक्रमणाद एव जयनाज जिष्णुर उच्यते शाश्वतत्वाद अनन्तश च गॊविन्दॊ वेदनाद गवाम ॥ 13 ॥
अतत्त्वं कुरुते तत्त्वं तेन मॊहयते परजाः एवंविधॊ धर्मनित्यॊ भगवान मुनिभिः सह आगन्ता हिमहा बाहुर आनृशंस्यार्थम अच्युतः ॥ 14 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 68
Reach this point to mark the section finished.
Continue to अध्याय 69