[व] दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः ॥ 1 ॥
उत्थितेषु महाराज पृथिव्यां सर्वराजसु रहिते संजयं राजा परिप्रष्टुं परचक्रमे ॥ 2 ॥
आशंसमानॊ विजयं तेषां पुत्र वशानुगाः आत्मनश च परेषां च पाण्डवानां च निश्चयम ॥ 3 ॥
गावल्गणे बरूहि नः सारफल्गु; सवसेनायां यावद इहास्ति किं चित तवं पाण्डवानां निपुणं वेत्थ सर्वं; किम एषां जयायः किम उ तेषां कनीयः ॥ 4 ॥
तवम एतयॊः सारवित सर्वदर्शी; धर्मार्थयॊर निपुणॊ निश्चयज्ञः स मे पृष्टः संजय बरूहि सर्वं; युध्यमानाः कतरे ऽसमिन न सन्ति ॥ 5 ॥
न तवां बरूयां रहिते जातु किं चिद; असूया हि तवां परसहेत राजन आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम आजमीढ ॥ 6 ॥
तौ ते ऽसुयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ तयॊस तु तवां संमिधौ तद वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम ॥ 7 ॥
ततस तन मतम आज्ञाय संजयस्यात्मजस्य च अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत ॥ 8 ॥
संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद एषॊ ऽनुयुङ्क्ते सर्वं यावद वेत्थ तस्मिन यथावद; याथातथ्यं वासुदेवे ऽरजुने च ॥ 9 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66