धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 64

  1. [व] एवम उक्त्वा महाप्राज्ञॊ धृतराष्ट्रः सुयॊधनम पुनर एव महाभागः संजयं पर्यपृच्छत ॥ 1 ॥

  2. बरूहि संजय यच छेषं वासुदेवाद अनन्तरम यद अर्जुन उवाच तवां परं कौतूहलं हि मे ॥ 2 ॥

  3. वासुदेव वचः शरुत्वा कुन्तीपुत्रॊ धनंजयः उवाच काले दुर्धर्षॊ वासुदेवस्य शृण्वतः ॥ 3 ॥

  4. पितामहं शांतनवं धृतराष्ट्रं च संजय दरॊणं कृपं च कर्णं च महाराजं च बाह्लिकम ॥ 4 ॥

  5. दरौणिं च सॊमदत्तं च शकुनिं चापि सौबलम दुःशासनं शलं चैव पुरुमित्रं विविंशतिम ॥ 5 ॥

  6. विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम विन्दानुविन्दाव आवन्त्यौ दुर्मुखं चापि कौरवम ॥ 6 ॥

  7. सैन्धवं दुःसहं चैव भूरिश्रवसम एव च भगदत्तं च राजानं जलसंधं च पार्थिवम ॥ 7 ॥

  8. ये चाप्य अन्ये पार्थिवास तत्र यॊद्धुं; समागताः कौरवाणां परियार्थम मुमूर्षवः पाण्डवाग्नौ परदीप्ते; समानीता धार्तराष्ट्रेण सूत ॥ 8 ॥

  9. यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः इदं बरूयाः संजय राजमध्ये; सुयॊधनं पापकृतां परधानम ॥ 9 ॥

  10. अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम सर्वं ममैतद वचनं समग्रं; सहामात्यं संजय शरावयेथाः ॥ 10 ॥

  11. एवं परतिष्ठाप्य धनंजयॊ मां; ततॊ ऽरथवद धर्मवच चापि वाक्यम परॊवाचेदं वासुदेवं समीक्ष्य; पार्थॊ धीमाँल लॊहितान्तायताक्षः ॥ 11 ॥

  12. यथा शरुतं ते वदतॊ महात्मनॊ; मधु परवीरस्य वचः समाहितम तथैव वाच्यं भवता हि मद्वचः; समागतेषु कषितिपेषु सर्वशः ॥ 12 ॥

  13. शराग्निधूमे रथनेमि नादिते; धनुः सरुवेणास्त्र बलापहारिणा यथा न हॊमः करियते महामृधे; तथा समेत्य परयतध्वम आदृताः ॥ 13 ॥

  14. न चेत परयच्छध्वम अमित्रघातिनॊ; युधिष्ठिरस्यांशम अभीप्सितं सवकम नयामि वः सवाश्वपदातिकुञ्जरान; दिशं पितॄणाम अशिवां शितैः शरैः ॥ 14 ॥

  15. ततॊ ऽहम आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य स तवरः जवेन संप्राप्त इहामर दयुते; तवान्तिकं परापयितुं वचॊ महत ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 65

Previous: अध्याय 63