[व] संजयस्य वचः शरुत्वा परज्ञा चक्षुर नरेश्वरः ततः संख्यातुम आरेभे तद वचॊ गुणदॊषतः ॥ 1 ॥
परसंख्याय च सौक्ष्म्येण गुणदॊषान विचक्षणः यथावन मतितत्त्वेन जय कामः सुतान परति ॥ 2 ॥
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान शक्तिं संख्यातुम आरेभे तदा वै मनुजाधिपः ॥ 3 ॥
देव मानुषयॊः शक्त्या तेजसा चैव पाण्डवान कुरूञ शक्त्याल्पतरया दुर्यॊधनम अथाब्रवीत ॥ 4 ॥
दुर्यॊधनेयं चिन्ता मे शश्वन नाप्य उपशाम्यति सत्यं हय एतद अहं मन्ये परत्यक्षं नानुमानतः ॥ 5 ॥
आत्मजेषु परं सनेहं सर्वभूतानि कुर्वते परियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥ 6 ॥
एवम एवॊपकर्तॄणां परायशॊ लक्षयामहे इच्छन्ति बहुलं सन्तः परतिकर्तुं महत परियम ॥ 7 ॥
अग्निः साचिव्य कर्ता सयात खाण्डवे तत कृतं समरन अर्जुनस्यातिभीमे ऽसमिन कुरु पाण्डुसमागमे ॥ 8 ॥
जातगृध्याभिपन्नाश च पाण्डवानाम अनेकशः धर्मादयॊ भविष्यन्ति समाहूता दिवौकसः ॥ 9 ॥
भीष्मद्रॊणकृपादीनां भयाद अशनिसंमितम रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥ 10 ॥
ते देव सहिताः पार्था न शक्याः परतिवीक्षितुम मानुषेण नरव्याघ्रा वीर्यवन्तॊ ऽसत्रपारगाः ॥ 11 ॥
दुरासदं यस्य दिव्यं गाण्डीवं धनुर उत्तमम वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥ 12 ॥
वानरश च धवजॊ दिव्यॊ निःसङ्गॊ धूमवद गतिः रथश च चतुरन्तायां यस्य नास्ति समस तविषा ॥ 13 ॥
महामेघनिभश चापि निर्घॊषः शरूयते जनैः महाशनि समः शब्दः शात्रवाणां भयंकरः ॥ 14 ॥
यं चातिमानुषं वीर्ये कृत्स्नॊ लॊकॊ वयवस्यति देवानाम अपि जेतारं यं विदुः पार्थिवा रणे ॥ 15 ॥
शतानि पञ्च चैवेषून उद्वपन्न इव दृश्यते निमेषान्तरमात्रेण मुञ्चन दूरं च पातयन ॥ 16 ॥
यम आह भीष्मॊ दरॊणश च कृपॊ दरौणिस तथैव च मद्रराजस तथा शल्यॊ मध्यस्था ये च मानवाः ॥ 17 ॥
युद्धायावस्थितं पार्थं पार्थिवैर अतिमानुषैः अशक्यं रथशार्दूलं पराजेतुम अरिंदमम ॥ 18 ॥
कषिपत्य एकेन वेगेन पञ्चबाणशतानि यः सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम ॥ 19 ॥
तम अर्जुनं महेष्वासं महेन्द्रॊपेन्द्र रक्षितम निघ्नन्तम इव पश्यामि विमर्दे ऽसमिन महामृधे ॥ 20 ॥
इत्य एवं चिन्तयन कृत्स्नम अहॊरात्राणि भारत अनिद्रॊ निःसुखश चास्मि कुरूणां शम चिन्तया ॥ 21 ॥
कषयॊदयॊ ऽयं सुमहान कुरूणां परत्युपस्थितः अस्य चेत कलहस्यान्तः शमाद अन्यॊ न विद्यते ॥ 22 ॥
शमॊ मे रॊचते नित्यं पार्थैस तात न विग्रहः कुरुभ्यॊ हि सदा मन्ये पाण्डवाञ शक्तिमत्तरान ॥ 23 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60