[धृ] यद अब्रूतां महात्मानौ वासुदेवधनंजयौ तन मे बरूहि महाप्राज्ञ शुश्रूषे वचनं तव ॥ 1 ॥
शृणु राजन यथादृष्टौ मया कृष्ण धनंजयौ ऊचतुश चापि यद वीरौ तत ते वक्ष्यामि भारत ॥ 2 ॥
पादाङ्गुलीर अभिप्रेक्षन परयतॊ ऽहं कृताञ्जलिः शुद्धान्तं पराविशं राजन्न आख्यातुं नरदेवयॊः ॥ 3 ॥
नैवाभिमन्युर न यमौ तं देशम अभियान्ति वै यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥ 4 ॥
उभौ मध्वासवक्षीबाव उभौ चन्दनरूषितौ सरग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ॥ 5 ॥
नैकरत्नविचित्रं तु काञ्चनं महद आसनम विविधास्तरणास्तीर्णं यत्रासाताम अरिंदमौ ॥ 6 ॥
अर्जुनॊत्सङ्गमौ पादौ केशवस्यॊपलक्षये अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः ॥ 7 ॥
काञ्चनं पादपीठं तु पार्थॊ मे परादिशत तदा तद अहं पाणिना सपृष्ट्वा ततॊ भूमाव उपाविशम ॥ 8 ॥
ऊर्ध्वरेख तलौ पादौ पार्थस्य शुब लक्षणौ पादपीठाद अहपृतौ तत्रापश्यम अहं शुभौ ॥ 9 ॥
शयामौ बृहन्तौ तरुणौ शालस्कन्धाव इवॊद्गतौ एकासन गतौ दृष्ट्वा भयं मां महद आविशत ॥ 10 ॥
इन्द्र विष्णुसमावेतौ मन्दात्मा नावबुध्यते संश्रयाद दरॊण भीष्माभ्यां कर्णस्य च विकत्थनात ॥ 11 ॥
निदेशस्थाव इमौ यस्य मानसस तस्य सेत्स्यते संकल्पॊ धर्मराजस्य निश्चयॊ मे तदाभवत ॥ 12 ॥
सत्कृतश चान्न पानाभ्याम आच्छन्नॊ लब्धसत्क्रियः अञ्जलिं मूर्ध्नि संधाय तौ संदेशम अचॊदयम ॥ 13 ॥
धनुर बाणॊचितेनैक पाणिना शुभलक्षणम पादम आनमयन पार्थः केशवं समचॊदयत ॥ 14 ॥
इन्द्रकेतुर इवॊत्थाय सर्वाभरणभूषितः इन्द्रवीर्यॊपमः कृष्णः संविष्टॊ माभ्यभाषत ॥ 15 ॥
वाचं स वदतां शरेष्ठॊ हलादिनीं वचनक्षमाम तरासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम ॥ 16 ॥
वाचं तां वचनार्हस्य शिक्षाक्षर समन्विताम अश्रौषम अहम इष्टार्थां पश्चाद धृदय शॊषिणीम ॥ 17 ॥
[वासु] संजयेदं वचॊ बरूया धृतराष्ट्रं मनीषिणम शृण्वतः कुरुमुख्यस्य दरॊणस्यापि च शृण्वतः ॥ 18 ॥
यजध्वं विपुलैर यज्ञैर विप्रेभ्यॊ दत्तदक्षिणाः पुत्रैर दारैश च मॊदध्वं महद वॊ भयम आगतम ॥ 19 ॥
अर्थांस तयजत पात्रेभ्यः सुतान पराप्नुत कामजान परियं परियेभ्यश चरत राजा हि तवरते जये ॥ 20 ॥
ऋणम एतत परवृद्धं मे हृदयान नापसर्पति यद गॊविन्देति चुक्रॊश कृष्णा मां दूरवासिनम ॥ 21 ॥
तेजॊमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ॥ 22 ॥
मद्द्वितीयं पुनः पार्थं कः परार्थयितुम इच्छति यॊ न कालपरीतॊ वाप्य अपि साक्षात पुरंदरः ॥ 23 ॥
बाहुभ्याम उद्वहेद भूमिं दहेत करुद्ध इमाः परजाः पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत ॥ 24 ॥
देवासुरमनुष्येषु यक्षगन्धर्वभॊगिषु न तं पश्याम्य अहं युद्धे पाण्डवं यॊ ऽभययाद रणे ॥ 25 ॥
यत तद विराटनगरे शरूयते महद अद्भुतम एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम ॥ 26 ॥
एकेन पाण्डुपुत्रेण विराटनगरे यदा भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम ॥ 27 ॥
बलं वीर्यं च तेजश च शीघ्रता लघुहस्तता अविषादश च धैर्यं च पार्थान नान्यथ विद्यते ॥ 28 ॥
इत्य अब्रवीद धृषीकेशः पार्थम उद्धर्षयन गिरा गर्जन समयवर्षीव गगने पाकशासनः ॥ 29 ॥
केशवस्य वचः शरुत्वा किरीटी शवेतवाहनः अर्जुनस तन महद वाक्यम अब्रवील लॊमहर्षणम ॥ 30 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 58
Reach this point to mark the section finished.
Continue to अध्याय 59