धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 60

  1. [व] पितुर एतद वचः शरुत्वा धार्तराष्ट्रॊ ऽतयमर्षणः आधाय विपुलं करॊधं पुनर एवेदम अब्रवीत ॥ 1 ॥

  2. अशक्या देव सचिवाः पार्थाः सयुर इति यद भवान मन्यते तद्भयं वयेतु भवतॊ राजसत्तम ॥ 2 ॥

  3. अकाम दवेषसंयॊगाद रॊहाल लॊभाच च भारत उपेक्षया च भावानां देवा देवत्वम आप्नुवन ॥ 3 ॥

  4. इति दवैपायनॊ वयासॊ नारदश च महातपाः जामदग्न्यश च रामॊ नः कथाम अकथयत पुरा ॥ 4 ॥

  5. नैव मानुषवद देवाः परवर्तन्ते कदा चन कामाल लॊभाद अनुक्रॊशाद दवेषाच च भरतर्षभ ॥ 5 ॥

  6. यदि हय अग्निश च वायुश च धर्म इन्द्रॊ ऽशविनाव अपि कामयॊगात परवर्तेरन न पार्था दुःखम आप्नुयुः ॥ 6 ॥

  7. तस्मान न भवता चिन्ता कार्यैषा सयात कदा चन दैवेष्व अपेक्षका हय एते शश्वद भावेषु भारत ॥ 7 ॥

  8. अथ चेत कामसंयॊगाद दवेषाल लॊभाच च लक्ष्यते देवेषु देव परामाण्यं नैव तद विक्रमिष्यति ॥ 8 ॥

  9. मयाभिमन्त्रितः शश्वज जातवेदाः परशंसति दिधक्षुः सकलाँल लॊकान परिक्षिप्य समन्ततः ॥ 9 ॥

  10. यद वा परमकं तेजॊ येन युक्ता दिवौकसः ममाप्य अनुपमं भूयॊ देवेभ्यॊ विद्धि भारत ॥ 10 ॥

  11. परदीर्यमाणां वसुधां गिरीणां शिखराणि च लॊकस्य पश्यतॊ राजन सथापयाम्य अभिमन्त्रणात ॥ 11 ॥

  12. चेतनाचेतनस्यास्य जङ्गम सथावरस्य च विनाशाय समुत्पन्नं महाघॊरं महास्वनम ॥ 12 ॥

  13. अश्मवर्षं च वायुं च शमयामीह नित्यशः जगतः पश्यतॊ ऽभीक्ष्णं भूतानाम अनुकम्पया ॥ 13 ॥

  14. सतम्भितास्व अप्सु गच्छन्ति मया रथपदातयः देवासुराणां भावानाम अहम एकः परवर्तिता ॥ 14 ॥

  15. अक्षौहिणीभिर यान देशान यामि कार्येण केन चित तत्रापॊ मे परवर्तन्ते यत्र यत्राभिकामये ॥ 15 ॥

  16. भयानि विषये राजन वयालादीनि न सन्ति मे मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः ॥ 16 ॥

  17. निकामवर्णी पर्जन्यॊ राजन विषयवासिनाम धर्मिष्ठाश च परजाः सर्वा ईतयश च न सन्ति मे ॥ 17 ॥

  18. अश्विनाव अथ वाय्वग्नी मरुद्भिः सह वृत्रहा धर्मश चैव मया दविष्टान नॊत्सहन्ते ऽभिरक्षितुम ॥ 18 ॥

  19. यदि हय एते समर्थाः सयुर मद दविषस तरातुम ओजसा न सम तरयॊदश समाः पार्था दुःखम अवाप्नुयुः ॥ 19 ॥

  20. नैव देवा न गन्धर्वा नासुरा न च राक्षसाः शक्तास तरातुं मया दविष्टं सत्यम एतद बरवीमि ते ॥ 20 ॥

  21. यद अभिध्याम्य अहं शश्वच छुभं वा यदि वाशुभम नैतद विपन्नपूर्वं मे मित्रेष्व अरिषु चॊभयॊः ॥ 21 ॥

  22. भविष्यतीदम इति वा यद बरवीमि परंतप नान्यथा भूतपूर्वं तत सत्यवाग इति मां विदुः ॥ 22 ॥

  23. लॊकसाक्षिकम एतन मे माहात्म्यं दिष्कु विश्रुतम आश्वासनार्थं भवतः परॊक्तं न शलाघया नृप ॥ 23 ॥

  24. न हय अहं शलाघनॊ राजन भूतपूर्वः कदा चन असद आचरितं हय एतद यद आत्मानं परशंसति ॥ 24 ॥

  25. पाण्डवांश चैव मत्स्यांश च पाञ्चालान केकयैः सह सात्यकिं वासुदेवं च शरॊतासि विजितान मया ॥ 25 ॥

  26. सरितः सागरं पराप्य यथा नश्यन्ति सर्वशः तथैव ते विनङ्क्ष्यन्ति माम आसाद्य सहान्वयाः ॥ 26 ॥

  27. परा बुद्धिः परं तेजॊ वीर्यं च परमं मयि परा विद्या परॊ यॊगॊ मम तेभ्यॊ विशिष्यते ॥ 27 ॥

  28. पितामहश च दरॊणश च कृपः शल्यः शलस तथा अस्त्रेषु यत परजानन्ति सर्वं तन मयि विद्यते ॥ 28 ॥

  29. इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत जञात्वा युयुत्सुः कार्याणि पराप्तकालम अरिंदम ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 61

Previous: अध्याय 59