धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 55

  1. [दुर] अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः ॥ 1 ॥

  2. अतीव मुदितॊ राजन युद्धप्रेप्सुर युधिष्ठिरः भीमसेनार्जुनौ चॊभौ यमाव अपि न बिभ्यतः ॥ 2 ॥

  3. रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन दिशः मन्त्रं जिज्ञासमानः सन बीभत्सुः समयॊजयत ॥ 3 ॥

  4. तम अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा स मन्त्रान समभिध्याय हृष्यमाणॊ ऽभयभाषत ॥ 4 ॥

  5. पूर्वरूपम इदं पश्य वयं जेष्याम संजय बीभत्सुर मां यथॊवाच तथावैम्य अहम अप्य उत ॥ 5 ॥

  6. [दुर] परशंसस्य अभिनन्दंस तान पार्थान अक्षपराजितान अर्जुनस्य रथे बरूहि कथम अश्वाः कथं धवजः ॥ 6 ॥

  7. भौवनः सह शक्रेण बहु चित्रं विशां पते रूपाणि कल्पयाम आस तवष्टा धात्रा सहाभिभॊ ॥ 7 ॥

  8. धवजे हि तस्मिन रूपाणि चक्रुस ते देव मायया महाधनानि दिव्यानि महान्ति च लघूनि च ॥ 8 ॥

  9. सर्वा दिशॊ यॊजनमात्रम अन्तरं; स तिर्यग ऊर्ध्वं च रुरॊध वै धवजः न संसज्जेत तरुभिः संवृतॊ ऽपि; तथा हि मायाविहिता भौवनेन ॥ 9 ॥

  10. यथाकाशे शक्रधनुःप्रकाशते; न चैकवर्णं न च विद्म किं नु तत तथा धवजॊ विहितॊ भौवनेन; बह्व आकारं दृश्यते रूपम अस्य ॥ 10 ॥

  11. यथाग्निधूमॊ दिवम एति रुद्ध्वा; वर्णान बिभ्रत तैजसं तच छरीरम तथा धवजॊ विहितॊ भौवनेन; न चेद भारॊ भविता नॊत रॊधः ॥ 11 ॥

  12. शवेतास तस्मिन वातवेगाः सदश्वा; दिव्या युक्ताश चित्ररथेन दत्ताः शतं यत तत पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात ॥ 12 ॥

  13. तथा राज्ञॊ दन्तवर्णा बृहन्तॊ; रथे युक्ता भान्ति तद वीर्यतुल्याः ऋश्य परख्या भीमसेनस्य वाहा; रणे वायॊस तुल्यवेगा बभूवुः ॥ 13 ॥

  14. कल्माषाङ्गास तित्तिरि चित्रपृष्ठा; भरात्रा दत्ताः परीयता फल्गुनेन भरातुर वीरस्य सवैस तुरंगैर विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति ॥ 14 ॥

  15. माद्रीपुत्रं नकुलं तव आजमीढं; महेन्द्रदत्ता हरयॊ वाजिमुख्याः समा वायॊर बलवन्तस तरस्विनॊ; वहन्ति वीरं वृत्र शत्रुं यथेन्द्रम ॥ 15 ॥

  16. तुल्याश चैभिर वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः सौभद्रादीन दरौपदेयान कुमारान; वहन्त्य अश्वा देवदत्ता बृहन्तः ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 56

Previous: अध्याय 54