धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 56

  1. [धृ] कांस तत्र संजयापश्यः परत्यर्थेन समागतान ये यॊत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम ॥ 1 ॥

  2. मुख्यम अन्धकवृष्णीनाम अपश्यं कृष्णम आगतम चेकितानं च तत्रैव युयुधानं च सत्यकिम ॥ 2 ॥

  3. पृथग अक्षौहिणीभ्यां तौ पाण्डवान अभिसंश्रितौ महारथौ समाख्याताव उभौ पुरुषमानिनौ ॥ 3 ॥

  4. अक्षौहिण्याथ पाञ्चाल्यॊ दशभिस तनयैर वृतः सत्यजित परमुखैर वीरैर धृष्टद्युम्नपुरॊगमैः ॥ 4 ॥

  5. दरुपदॊ वर्धयन मानं शिखण्डिपरिपालितः उपायात सर्वसैन्यानां परतिच्छाद्य तदा वपुः ॥ 5 ॥

  6. विराटः सह पुत्राभ्यां शङ्खेनैव उत्तरेण च सूर्यदत्तादिभिर वीरैर मदिराश्वपुरॊगमैः ॥ 6 ॥

  7. सहितः पृथिवीपालॊ भरातृभिस तनयैस तथा अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ॥ 7 ॥

  8. जारासंधिर मागधश च धृष्टकेतुश च चेदिराट पृथक्पृथग अनुप्राप्तौ पृथग अक्षौहिणी वृतौ ॥ 8 ॥

  9. केकया भरातरः पञ्च सर्वे लॊहितक धवजाः अक्षौहिणीपरिवृताः पाण्डवान अभिसंश्रिताः ॥ 9 ॥

  10. एतान एतावतस तत्र यान अपश्यं समागतान ये पाण्डवार्थे यॊत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम ॥ 10 ॥

  11. यॊ वेद मानुषं वयूहं दैवम आन्धर्वम आसुरम स तस्य सेना परमुखे धृष्टद्युम्नॊ महामनाः ॥ 11 ॥

  12. भीष्मः शांतनवॊ राजन भागः कॢप्तः शिखण्डिनः तं विराटॊ ऽनु संयाता सह मत्स्यैः परहारिभिः ॥ 12 ॥

  13. जयेष्टःस्य पाण्डुपुत्रस्य भागॊ मद्राधिपॊ बली तौ तु तत्राब्रुवन के चिद विषमौ नॊ मताव इति ॥ 13 ॥

  14. दुर्यॊधनः सह सुतः सार्धं भरातृशतेन च पराच्याश च दाक्षिणात्याश च भीमसेनस्य भागतः ॥ 14 ॥

  15. अर्जुनस्य तु भागेन कर्णॊ वैकर्तनॊ मतः अश्वत्थामा विकर्णश च सैन्धवश च जयद्रथः ॥ 15 ॥

  16. अशक्याश चैव ये के चित पृथिव्यां शूरमानिनः सर्वांस तान अर्जुनः पार्थः कल्पयाम आस भागतः ॥ 16 ॥

  17. महेष्वासा राजपुत्रा भरातरः पञ्च केकयाः केकयान एव भागेन कृत्वा यॊत्स्यन्ति संयुगे ॥ 17 ॥

  18. तेषाम एव कृतॊ भागॊ मालवाः शाल्व केकयाः तरिगर्तानां च दवौ मुख्यौ यौ तौ संशप्तकाव इति ॥ 18 ॥

  19. दुर्यॊधन सुताः सर्वे तथा दुःशासनस्य च सौभद्रेण कृतॊ भागॊ राजा चैव बृहद्बलः ॥ 19 ॥

  20. दरुपदेया महेष्वासाः सुवर्णविकृतध्वजाः धृष्टद्युम्नमुखा दरॊणम अभियास्यन्ति भारत ॥ 20 ॥

  21. चेकितानः सॊमदत्तं दवैरथे यॊद्धुम इच्छति भॊजं तु कृतवर्माणं युयुधानॊ युयुत्सति ॥ 21 ॥

  22. सहदेवस तु माद्रेयः शूरः संक्रन्दनॊ युधि सवम अंशं कल्पयाम आस शयालं ते सुबलात्मजम ॥ 22 ॥

  23. उलूकं चापि कैतव्यं ये च सारस्वता गणाः नकुलः कल्पयाम आस भागं माद्रवतीसुतः ॥ 23 ॥

  24. ये चान्ये पार्थिवा राजन परत्युद्यास्यन्ति संयुगे समाह्वानेन तांश चापि पाण्डुपुत्रा अकल्पयन ॥ 24 ॥

  25. एवम एषाम अनीकानि परविभक्तानि भागशः यत ते कार्यं सपुत्रस्य करियतां तद अकालिकम ॥ 25 ॥

  26. न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूत देविनः येषां युद्धं बलवता भीमेन रणमूर्धनि ॥ 26 ॥

  27. राजानः पार्थिवाः सर्वे परॊक्षिताः कालधर्मणा गाण्डीवाग्निं परवेक्ष्यन्ति पतङ्गा इव पावकम ॥ 27 ॥

  28. विदुर्तां वाहिनीं मन्ये कृतवैरैर महात्मभिः तां रणे के ऽनुयास्यन्ति परभग्नां पाण्डवैर युधि ॥ 28 ॥

  29. सर्वे हय अतिरथाः शूराः कीर्तिमन्तः परतापिनः सूर्यपावकयॊस तुल्यास तेजसा समितिंजयाः ॥ 29 ॥

  30. येषां युधिष्ठिरॊ नेता गुप्ता च मधुसूदनः यॊधौ च पाण्डवौ वीरौ सव्यसाचि वृकॊदरौ ॥ 30 ॥

  31. नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः सात्यकिर दरुपदश चैव धृष्टद्युम्नस्य चात्मजः ॥ 31 ॥

  32. उत्तमौजाश च पाञ्चाल्यॊ युधामन्युश च दुर्जयः शिखण्डी कषत्रदेवश च तथा वैराटिर उत्तरः ॥ 32 ॥

  33. काशयश चेदयश चैव मत्स्याः सर्वे च सृञ्जयाः विराट पुत्रॊ बभ्रूश च पाञ्चालाश च परभद्रकाः ॥ 33 ॥

  34. येषाम इन्द्रॊ ऽपय अकामानां न हरेत पृथिवीम इमाम वीराणां रणदीराणां ये भिन्द्युः पर्वतान अपि ॥ 34 ॥

  35. तान सर्वान गुणसंपन्नान अमनुष्यप्रतापिनः करॊशतॊ मम दुष्पुत्रॊ यॊद्धुम इच्छति संजय ॥ 35 ॥

  36. [दुर] उभौ सव एकजातीयौ तथॊभौ भूमिगॊचरौ अथ कस्मात पाण्डवानाम एकतॊ मन्यसे जयम ॥ 36 ॥

  37. पितामहं च दरॊणं च कृपं कर्णं च दुर्जयम जयद्रथं सॊमदत्तम अश्वत्थामानम एव च ॥ 37 ॥

  38. सुचेतसॊ महेष्वासान इन्द्रॊ ऽपि सहितॊ ऽमरैः अशक्तः समरे जेतुं किं पुनर तात पाण्डवाः ॥ 38 ॥

  39. सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान आर्यान धृतिमतः शूरान अग्निकल्पान परबाधितुम ॥ 39 ॥

  40. न मामकान पाण्डवास ते समर्थाः परतिवीक्षितुम पराक्रान्तॊ हय अहं पाण्डून सपुत्रान यॊद्धुम आहवे ॥ 40 ॥

  41. मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ते तान आवारयिष्यन्ति ऐणेयान इव तन्तुना ॥ 41 ॥

  42. महता रथवंशेन शरजालैश च मामकैः अभिद्रुता भविष्यन्ति पाञ्चालाः पानवैः सह ॥ 42 ॥

  43. उन्मत्त इव मे पुत्रॊ विलपत्य एष संजय न हि शक्तॊ युधा जेतुं धर्मराजं युधिष्ठिरम ॥ 43 ॥

  44. जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम ॥ 44 ॥

  45. यतॊ नारॊचयम अहं विग्रहं तैर महात्मभिः किं तु संजय मे बरूहि पुनस तेषां विचेष्टितम ॥ 45 ॥

  46. कस तांस तरस्विनॊ भूयः संदीपयति पाण्डवान अर्चिष्मतॊ महैष्वासान हविषा पावकान इव ॥ 46 ॥

  47. धृष्टद्युम्नः सदैवैतान संदीपयति भारत युध्यध्वम इति मा भैष्ट युद्धाद भरतसत्तमाः ॥ 47 ॥

  48. ये के चित पार्थिवास तत्र धार्तराष्ट्रेण संवृताः युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ॥ 48 ॥

  49. तान सर्वान आहवे करुद्धान सानुबन्धान समागतान अहम एकः समादास्ये तिमिर मत्स्यान इवौदकान ॥ 49 ॥

  50. भीष्मं दरॊणं कृपं कर्णं दरौणिं शल्यं सुयॊधनम एतांश चापि निरॊत्स्यामि वेलेव मकरालयम ॥ 50 ॥

  51. तथा बरुवाणं धर्मात्मा पराह राजा युधिष्ठिरः तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह सर्वे समधिरूढाः सम संग्रामान नः समुद्धर ॥ 51 ॥

  52. जानामि तवां महाबाहॊ कषत्रधर्मे वयवस्थितम समर्थम एकं पर्याप्तं कौरवाणां युयुत्सताम भवता यद विधातव्यं तन नः शरेयः परंतप ॥ 52 ॥

  53. संग्रामाद अपयातानां भग्नानां शरणैषिणाम पौरुषं दर्शयञ शूरॊ यस तिष्ठेद अग्रतः पुमान करीणीयात तं सहस्रेण नीतिमन नाम तत पदम ॥ 53 ॥

  54. स तवं शूरश च वीरश च विक्रान्तश च नरर्षभ भयार्तानां परित्राता संयुगेषु न संशयः ॥ 54 ॥

  55. एवं बरुवति कौन्तेये धर्मात्मनि युधिष्ठिरे धृष्टद्युम्न उवाचेदं मां वचॊ गतसाध्वसः ॥ 55 ॥

  56. सर्वाञ जनपदान सूत यॊधा दुर्यॊधनस्य ये स बाह्लीकान कुरून बरूयाः परातिपेयाञ शरद्वतः ॥ 56 ॥

  57. सूतपुत्रं तथा दरॊणं सह पुत्रं जयद्रथम दुःशासनं विकर्णं च तथा दुर्यॊधनं नृपम ॥ 57 ॥

  58. भीष्मं चैव बरूहि गत्वा तवम आशु; युधिष्ठिरं साधुनैवाभ्युपेत मा वॊ वधीद अर्जुनॊ देव गुप्तः; कषिप्रं याचध्वं पाण्डवं लॊकवीरम ॥ 58 ॥

  59. नैतादृशॊ हि यॊधॊ ऽसति पृथिव्याम इह कश चन यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ॥ 59 ॥

  60. देवैर हि संभृतॊ दिव्यॊ रथॊ गाण्डीवधन्वनः न स जेयॊ मनुष्येण मा सम कृध्वं मनॊ युधि ॥ 60 ॥

Reach this point to mark the section finished.

Continue to अध्याय 57

Previous: अध्याय 55